मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 337, कुल 804 में से
संदर्भ में पढ़ें• ] प्रथमाध्याये तृतीयपादः -२८५ विरोधेऽप्यधुना युक्तमैवं प्राप्तेऽभिधीयते । विरोधे त्वनपेक्षं स्यात्प्रामाण्यं स्मृतिबन्धनम् ॥ ५६ अविरोधे हि वेदेन तन्मूलमनुमीयते । या तु वेदविरुद्धेह स्मृतिः काचन दृश्यते ॥ ५७ सा तु स्याद् भ्रान्तिमूलैव न स्पष्टश्रुतिमूलिका । स्वातन्त्र्येण प्रमाणत्वं स्मृतेस्तावन्न सम्मतम् ॥ ५८ वेदमूलानुमानं च प्रत्यक्षेण विरुध्यते । वेदवाक्यानुमानं हि तावदेव प्रवर्तते ॥ ५९ तदर्थविषये यावत्प्रत्यक्षं नोपलभ्यते । प्रत्यक्षे श्रूयमाणे तु न विद्येतानुमानिकम् ॥ ६० न हि हस्तिनि दृष्टेऽपि तत्पदेनानुमेष्यते । स्मृतीनां श्रुतिलिङ्गत्वमस्ति हस्तिपदादिवत् ॥ ६१ तत्प्रत्यक्षविरुद्धत्वे तद्वदेव निवार्यते । तावदेव स्फुरन्त्यर्थाः पुरस्तादानुमानिकाः ॥ ६२ यावत्प्रत्यक्षशास्त्रेण मूलमेषां न कृत्यते । कृत्तमूलाः स्फुरन्तोऽपि स्मृतयो न चिरायुषः ॥ ६३ निराधारत्वदोषेण शाखा इव वनस्पतेः । न हि साक्षात्प्रमाणत्वं स्मृतीनामुपपद्यते ॥ ६४ नान्यमूलं यतस्तत्तस्यात्तत्तु मूलं न विद्यते । प्रत्यक्षप्रतिबद्धा हि श्रुतिर्नास्त्यानुमानिकी ॥ ६५ नैराकाङ्क्ष्यात्प्रमातॄणामनुमानं न लभ्यते । प्रमेयं यत्परिच्छेद्यं भवेत्केनचिदात्मना ॥ ६६ तस्य स्यात्तत्परिच्छेदात्सावकाशप्रमाणता । ताद्रूप्येण परिच्छिन्ने तद्विपर्ययतोऽपि वा ॥ ६७ भूयस्तस्मिन्प्रमेये हि न प्रमाणं प्रवर्तते । भिन्नकक्षागते ये च प्रमाणे तत्र धावतः ॥ ६८ तयोः शीघ्रेण निर्णीते मन्थरं न प्रवर्तते । तद्धि दूरमपि प्राप्तमेकमप्यगतं पदम् ॥ ६९ इतरेण गतेनाऽऽदावेकान्तेनैव जीयते । यत्र शीघ्रतरं नास्ति तस्यार्थस्यापहारकम् ॥ ७० चिरेणापि व्रजेत्तत्र दुर्बलं न निवार्यते । न हि येन प्रमाणत्वं लब्धपूर्वं कदाचन ॥ ७१