मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 338, कुल 804 में से
संदर्भ में पढ़ें१८६ मीमांसादर्शनम् [ सू० तेन तत्सर्वदा लभ्यमित्याज्ञापयतीश्वरः । सर्वमुत्पद्यमानं हि यद्यन्येन विरोधिना ॥ ७२ न रुध्यते ततस्तस्य सिद्धिः कालेन लभ्यते । यस्य तूत्पद्यमानस्य मूलमेव निकृत्यते ॥ ७३ मुखं वा रुध्यते तस्य नाऽऽत्मलाभः कदाचन । न च यद्वलवद्बुद्धमात्मानं नैव विन्दति ॥ ७४ अविरोधेऽपि तेनाऽऽत्मा न लब्धव्यः कथंचन । न चापि बाधकाभावाल्लब्ध आत्मेति सर्वदा ॥ ७५ लब्धव्यः स विरोधेऽपि पूर्वसामान्यदर्शनात् । उत्सर्गाश्चापवादश्च सर्वत्रैवोपलभ्यते ॥ ७६ तत्र नोत्सर्गमात्रेण सर्वमेवावरुध्यते । अपवादेन वा यस्मादुत्सर्गो बाधितः क्वचित् ॥ ७७ तस्मात्सर्वत्र बाध्योऽसावित्येतदपि नेष्यते । विषयाविषयौ ज्ञात्वा तेनोत्सर्गापवादयोः ॥ ७८ बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात् । यो हि सामान्यदृष्टेन व्यवहारं निनीषति ॥ ७९ तृष्णाच्छेदो भवेत्तस्य मृगतृष्णाजलैरपि । बाधितां मृगतृष्णां वा दृष्ट्वा ह्रदगतोऽप्यसौ ॥ ८० विप्रलम्भभयादेव न स्नानादि समाचरेत् । तावदेव हि तोयादिज्ञानस्येष्टा प्रमाणता ॥ ८१ न तोयं मृगतृष्णेयमिति यावन्न बुध्यते । अनुमानं प्रमाणं च तावदर्थेषु जायते ॥ ८२ रुध्यते विषयो यावन्नास्य प्रत्यक्षजन्मना । एवं स्मृतिप्रमाणत्वे तावच्छ्रुत्यनुमानजम् ॥ ८३ यावत्प्रत्यक्षया श्रुत्या विषयो नावरुध्यते । अतः क्वचित्प्रमाणत्वं क्वचिदप्यप्रमाणताम् ॥ ८४ व्यवस्थापयता न्यायेनं भवेदर्थवैशसम् । प्रमाणत्वाप्रमाणत्वे प्रत्यक्षमृगतृष्णयोः ॥ ८५ यथा तथैव ते स्मृत्योरविरुद्धविरुद्धयोः । तस्मादेवं न वक्तव्यं सर्वासां वा प्रमाणता ॥ ८६ अथ वा सा न कस्याश्चिद्यदि क्वचिदनाश्रिता । तेन वेदविरुद्धानां स्मृतीनामप्रमाणता ॥ ८७ रुद्धश्रुत्यनुमानत्वादन्धमूला हि ता यतः ।