भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 339, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 339

३ ] प्रथमाध्याये तृतीयपादः १८७ तुल्यबलयोर्विकल्पशंका-निरासौ विकल्पः किं पुनस्तासां नेष्यते श्रुतिभिः सह ॥ ८८ उच्यते—विकल्पस्याष्टदोषत्वान्न तावत्स्वभ्युपेयता । पाक्षिके चाप्रमाणत्वे स्मृतयः सुनिराकराः ॥ ८९ तुल्यबलविकल्पो हि तावदष्टदोषत्वादगतिकगतिन्यायेन क्वचिदेवाऽऽश्रीयते । अतुल्यबलविकल्पस्यान्याय्यत्वम् किमुत कक्षान्तरितप्रामाण्यविषयमशिष्टविकल्पः । तथा हि—प्रमाणपदवीं यावन्नाऽऽरोहत्येव हि स्मृतिः । बाध्यते तावदत्यन्तं श्रुत्याऽन्यनिरपेक्षया ॥ ९० स्मृतेर्धर्मप्रमाणत्वं न तावत्स्वत इष्यते । तुल्यकक्षतया येन विकल्पपदवीं व्रजेत् ॥ ९१ पराधीनप्रमाणत्वान्न प्रमाणपदे स्थिता । श्रुत्या बाधितमात्राऽसौ पुनर्नोऽज्जीवितुं क्षमा ॥ ९२ विकल्पस्याष्टदोषत्ववर्णनम् तुल्यकक्षविकल्पोऽपि नाप्रामाण्येऽस्त्यकल्पिते । प्रमाणस्याप्रमाणत्वकल्पना च त्रिदोषभाक् ॥ ९३ प्रमाणत्वं प्रतीतं यदुज्ज्वलत्तदपह्नुतम् । एकस्तावदयं दोषः स्यात्प्रतीतिविपर्ययात् ॥ ९४ तथा तदप्रमाणत्वं यदभावप्रमाणकम् । भावे सत्यथ भावेन विनैव परिकल्प्यते ॥ ९५ सोऽपि स्यादपरो दोषः प्रमाणार्थविपर्ययात् । अङ्गीकृत्यापि तौ दोषौ पूर्वं केनापि हेतुना ॥ ९६ प्रयोगान्तरकाले तु पुनर्दोषद्वयं भवेत् । यदभावप्रमाणत्वं पूर्वमेतस्य कल्पितम् ॥ ९७ संप्रत्यपह्नुवानस्य दोष एको हि जायते । प्रत्यक्षं दृढरूपं च यत्पुरस्तान्निराकृतम् ॥ ९८ एष जायेत दोषोऽन्यस्तदुज्जीवयतः पुनः । वाक्यान्तरे दोषचतुष्टयस्योपपादनम् एवमेकत्र चत्वारो दोषा वाक्ये प्रदर्शिताः ॥ ९९ एत एव प्रसज्येरन्द्वितीयेऽपि प्रकल्पिते । एवमेषोऽष्टदोषोऽपि यद्व्रीहियववाक्ययोः ॥ १००

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 339, कुल 804 में से · BharatKosha