भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 340, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 340

२८८ मीमांसादर्शनम् [ सू० विकल्प आश्रितस्तत्र गतिरन्या न विद्यते । व्रीहिशास्त्रप्रवृत्तौ हि यवशास्त्रेण कृष्यते ॥ १०१ श्रोता तत्र प्रवृत्तोऽपि व्रीहिशास्त्रेण कृष्यते । द्वाभ्यामश्वमुखीवच्च श्रुतिभ्यामभितः समम् ॥ १०२ श्रोतुराकृष्यमाणस्य बलाबलमपश्यतः । एकस्मिन्नुपसंहर्तुं बुद्धिं युक्त्या न पश्यतः ॥ १०३ उभयोरप्रमाणत्वं प्रतिघातात्प्रसज्यते । तत्र प्रामाण्ययोग्यस्य यदप्रामाण्यकल्पनम् ॥ १०४ तदनन्यगतित्वेन तथाऽप्यभ्युपगम्यते । सति गत्यन्तरे त्वेतन्नैव कल्पनमर्हति ॥ १०५ एकस्य वा प्रमाणत्वं परिहर्तुं न शक्यते । तदप्रामाण्यमात्रे तु न द्वयोरप्रमाणता ॥ १०६ सिद्धो लोकप्रवादोऽयमेकानेकविनाशिनाम् । सर्वनाशे समुत्पन्ने ह्यर्धं त्यजति पण्डितः ॥ १०७ स चायमुभयोर्नाश उभयार्थापरिग्रहात् । मिश्रैर्वा यजमानस्य मिश्राणां विध्यदर्शनात् ॥ १०८ नियमार्थे ह्युभे शास्त्रे यवव्रीह्योर्विधातृणी । प्राप्ते चान्यनिवृत्त्यंशः फलमर्थात्प्रतीयते ॥ १०९ व्रीहयो निरपेक्षा हि ज्ञायन्ते यागसाधनम् । यवाश्चैवमतस्तेषां मिश्रत्वं नावकल्पते ॥ ११० नैव व्रीहिभिरिष्टं स्याद्यवैर्न च यथाश्रुतैः । मिश्रैरिज्येत चेत्तत्र भवेदुभयबाधनम् ॥ १११ एवमप्रतिपत्त्यैव तुल्यैषा मिश्रतामतिः । तेनोभयाप्रमाणत्वाद्युक्तैकैकाप्रमाणता ॥ ११२ सेयमत्यन्तमन्न्याय्या द्वयोरप्यनवस्थितिः । अव्यवस्था न युक्ता हि व्यवस्था यत्र लभ्यते ॥ ११३ सर्वत्रैव ह्येकरूपत्वावधारणेन निरूपितरूपं व्यवहर्तुं शक्यम् । तेन यस्य प्रमाणत्वं प्रमाणं सर्वदाऽस्तु तत् । यस्यापि त्वप्रमाणत्वमप्रमाणं तदुच्यताम् ॥ ११४ तदेव तु कदाचित्प्रमाणम्, कदाचिदप्रमाणमिति न कथंचिदपि विश्रम्भः स्यात् तदेतद्व्रीहियवश्रुत्योरत्यन्तापरिहार्यत्वादवश्यमापतितम् ।