मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 341, कुल 804 में से
संदर्भ में पढ़ें३ ] प्रथमाध्याये तृतीयपादः २८९ विकल्पपदमनारूढायाः स्मृतेः एकः बाधप्रकारः न हि तत्रैकरूपत्वे चिह्नं किंचिद् व्यवस्थितम् । येनैकत्र प्रमाणत्वं स्यादन्यत्राप्रमाणता ॥ ११५ श्रुतिस्मृत्योः पुनः स्पष्टं व्यवस्थाकारणद्वयम् । येन श्रुतेः प्रमाणत्वं स्यात्स्मृतेश्चाप्रमाणता ॥ ११६ स्वरूपेण तयोस्तावत्प्रमाणत्वाप्रमाणते । ततोऽन्यापेक्षया स्यातामप्रामाण्यप्रमाणते ॥ ११७ यो यस्य स्वरूपाश्रयो धर्मः प्राप्तः, स बलवत्ता कारणान्तरेण विपर्ययं प्रति- पद्यते । न च श्रुतिजनितप्रत्ययस्य स्मृतिजनितो बाधकत्वं प्रतिपद्यते । स्मार्तस्य बाधकः श्रौतो बलवत्त्वात्प्रतीयते । प्रत्यक्षे चानुमाने प्रागेतद्व्यवधारितम् ॥ ११८ श्रुतिलिङ्गे यथा चेष्टे व्यवस्थितबलाबले । संनिकृष्टविकृष्टार्थे तथैवेह श्रुतिस्मृती ॥ ११९ स्मृत्या प्रतीयते यावच्छ्रुत्या तावत्प्रमीयते । विरुद्धधर्मतामेको न च धर्मः प्रतीच्छति ॥ १२० न च शीघ्रगृहीतेऽर्थेऽस्ति चिरादागच्छतो गतिः । अश्वैरपहृतं को हि गर्दभैः प्राप्तुमर्हति ॥ १२१ स्मृत्या चार्थं परामृश्य यावत्तद्विषयां श्रुतिम् । अनुमातुं प्रवर्तेत तावत्सोऽर्थोऽन्यतो गतः ॥ १२२ किं कर्तव्यमितीदं च कर्ता यावदपेक्षते । प्रमाणं क्रमते तावत्प्रमिते तन्न जायते ॥ १२३ युगपत्प्रमिमीयातां यदि चार्थं श्रुतिस्मृती । अगृहीतविशेषत्वात्स्यातां तुल्यबले ततः ॥ १२४ यद्वा यावच्छ्रुतेरर्थः साक्षादेव प्रतीयते । तस्मिन्नेव क्षणे मूलं कल्पयेत्स्वं स्मृतिः श्रुतिम् ॥ १२५ ततोऽर्थविप्रकर्षेऽपि प्रमाणत्वेन तुल्यता । भवेदेव श्रुतिस्मृत्योरर्थः श्रुतिपरिग्रहात् ॥ १२६ यतः स्मृत्या गृहीतेऽपि चिरेण श्रुतिकल्पना । जायते क्लृप्तया तस्मात्सा बाध्येताप्रतिष्ठिता ॥ १२७ स्मृतिमूलानपेक्षा हि स्मृतित्वादेव हीयते । तदपेक्षा पुनः श्रुत्या बाध्यते मूलवर्जिता ॥ १२८ एष तावद्विकल्पपदमनारूढाया एव स्मृतेरेको बाधप्रकारः । १९