भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 342, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 342

२९० मीमांसादर्शनम् [ सू० विकल्पपदमारूढायाःस्मृतेः बाधप्रकारो द्वितीयः द्वितीयेन प्रकारेण विकल्पपदवीं गता । आपन्ना पाक्षिकं बाधमत्यन्तं बाध्यते स्मृतिः ॥ १२९ तद्दर्शयति—‘विकल्पं तु वदन्पक्षे तावच्छ्रुतिप्रामाण्यमभ्युपैतीति’। तदा च स्मृत्यप्रामाण्यमवश्यंभावि, तस्याश्चाप्रामाण्यकल्पनायां न श्रुतेरिव तदध्यारोपः । किं तु तस्याः प्रमाणत्वं श्रुतिमूलत्वकारितम् । यतस्तस्मादतन्मूला तदानीं साऽवधार्यते ॥ १३० श्रुतिमूलत्वविच्छेदोत्तरकालं च प्राङ्निराकृतमूलान्तरोपप्लवादविगानस्मृत- पुरुषप्रणीतत्वनिर्णयाच्च नित्यत्वद्वारनिर्मूलत्वासंभवादवश्यंभावि विप्रलम्भाभिप्रा- यादि किंचिदेकं मूलमापद्यते । श्रुतिं मुक्त्वा च यन्मूलं स्मृतेरन्यत्प्रकल्प्यते । तेनेवास्याः प्रमाणत्वमत्यन्तं प्रतिहन्यते ॥ १३१ व्रीहिश्रुतिपरिग्रहकाले हि यवश्रुतेरभूतमेवाप्रामाण्यमध्यारोपितम् । तत्प्रयो- गान्तरवेलायां तुल्यसांप्रदायिकाम्नायमानत्वेन संनिकृष्टविप्रकृष्टार्थत्वादिविशेषाभा- वेन च पुनः सहजेन प्रामाण्येनाभिभूयते । न तु स्मृतेः प्रमाणत्वं पुनरुज्जीवितुं क्षमम् । विच्छिन्नश्रुतिमूलत्वाद् ग्रस्तं भ्रान्त्यादिहेतुभिः ॥ १३२ न ह्येकस्या एव स्मृतेः प्रत्यक्षश्रुत्यर्थापरिग्रहकालेऽनुमितश्रुतिमूलत्वं तत्प- रिग्रहाश्रयणे तु भ्रान्त्यादिमूलत्वमिति विरुद्धावधारणाऽवकल्पते । आह । सत्यं यदि प्रथममेव विकल्पकारी श्रुत्यर्थं परिगृह्य द्वितीयादिप्रयोगे स्मृत्यर्थपरिग्रहणा- योपतिष्ठेत । ततस्त्वदुक्तमार्गेण प्रतिहन्येत सर्वदा । न त्वेतस्य प्रसङ्गोऽस्ति स्मृतेः पूर्वंपरिग्रहे ॥ १३३ यो हि श्रुतिं प्रथममत्वान्यां श्रुतिमेवैकां पश्यति तस्याप्रतिहतश्रुत्यनुमान वृत्ते । न पश्चाच्छ्रूयमाणाऽपि श्रुतिः स्यात्प्रतिबन्धिका । गर्दभेनापनीतं हि हरेन्नाश्वश्चिराद् गतः ॥ १३४ न चैष नियमोऽस्ति जिज्ञासुभिः स्मृतिविरुद्धा श्रुतिरेव प्रथमं श्रोतव्येति । बहुजिज्ञासमानानां कदाचित्किंचिदापतेत् । पूर्वपश्चाद्दिभागेन न तद्धेतुबलाबलम् ॥ १३५