मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 343, कुल 804 में से
संदर्भ में पढ़ें३ ] प्रथमाध्याये तृतीयपादः २९१ आद्ये प्रपाठके येन व्रीहिशास्त्रं प्रतीयते । द्वितीये यवशास्त्रं च न तत्तत्प्रति दुर्बलम् ॥ १३६ स्वशाखाविहितैश्चापि शाखान्तरगतान्विधीन् । कल्पकारा निबध्नन्ति सर्व एव विकल्पितान् ॥ १३७ सर्वशाखोपसंहारो जैमिनेश्चापि संमतः । न तु पूर्वावबुद्धोऽर्थो बाधतेवोत्तरं विधिम् ॥ १३८ तस्मात्पौर्वापर्यश्रवणमनाश्रित्य 'न चैकं प्रति शिष्यत' इत्यनेन न्यायेन सर्वपुरुषान्प्रति नित्यावस्थितसमस्तपठ्यमानस्मर्यमाणवेदशास्त्रायत्तज्ञानेर्जिज्ञासुभि- रात्मीयशक्तिमात्रकारितपूर्वापरग्रहणविभागरेकभाष्यगतपूर्वोत्तरवर्णपदबद्धलाबल - मनपेक्ष्य मातापितृप्रणीतोपदेशवन्निर्विचिकित्समेव प्रामाण्यमभ्युपगन्तव्यम् । अन्यथा हि— पूर्वप्राप्तौ प्रमाणत्वं परत्वेनाप्रमाणताम् । प्रसज्यमानिकामेवं कोऽध्यवस्येत्सचेतनः ॥ १३९ इत्थं च भ्रान्तिमूलत्वप्रसङ्गे कल्पिते स्मृतेः । अविरोधेऽपि हि श्रुत्या प्रामाण्यं दुर्लभं भवेत् ॥ १४० सर्वैव श्रुतिमूलास्तः सर्वा वा भ्रान्तिमूलिका । स्मृतेरेवं निरूप्येत न तु स्यान्मूलसङ्करः ॥ १४१ उच्यते । यद्यपि पूर्वोपलब्धया स्मृत्या श्रुतिमनुपलभमानस्य प्रतिबन्धर- हितश्रुत्यनुमानं क्रियेत तथाऽपि कालान्तरे श्रुतिं श्रुत्वा तत्प्रतिपक्षस्मृतेर्बाधाध्यव सानादवश्यंभाविश्रुतिमूलत्वविच्छेदवशेन मूलान्तरसञ्चरणम् । ततश्च पूर्वविज्ञानं मिथ्यैतदिति चिन्तयन् । आदावेवाप्रमाणत्वं स्मृतेरित्यध्यवस्यति ॥ १४२ यो हि कूटकार्षापणेन कंचित्कालमज्ञो लोकमध्ये व्यवहरति न तेन विवे- कज्ञानजनितव्युत्पत्तिनाऽपि तथैव व्यवहर्तव्यम् । न चास्य तदानींतनज्ञानमात्रात् बाधबुद्धिर्भवति । समानविषयत्वाद्धि पूर्वेषामपि बाधनम् । न हि तेषाममिथ्यात्वे मिथ्येदानींतनं भवेत् ॥ १४३ ननु च प्रागवस्थायां श्रुतिर्यैवानुमीयते । सैवेदानीं विरुद्धेति गम्यते न पुनः स्मृतिः ॥ १४४ नैतदेवम् । प्रतिप्रयोगं प्रमाणपर्यालोचनात् । यदि ह्येकप्रयोगमात्रालोचनेनैव प्रयोगान्तराण्यप्यनुतिष्ठेयुः ततो येन व्रीहिशास्त्रमंप्रमाणीकृत्य यवाः परिगृह्येरन्, स यावज्जीवं तैरेव यजेतेति, नेव प्रतिपुरुषमुभाभ्यां विकल्प्यमानाभ्यां व्यवहारः