भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 346, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 346

२९४ मीमांसादर्शनम् [ सू० तथा च तद्वियुक्तेऽपि वस्त्रे तत्स्पर्शदूषिते । स्पृश्यमाने भवेत्येव दोषः संयुक्तवस्त्रवत् ॥ १६० कथं पुनरयं धर्मशास्त्रेष्वनुपनिबद्धोऽपि चण्डालस्पृष्टवस्त्रस्पर्शननिमित्तो दोषोऽ- ध्यवसीयते । कथं वा नेष्यते दोषः काष्ठलोष्टतृणादिषु । तत्स्पृष्टस्पृश्यमानेषु न क्रमन्तेऽत्र युक्तयः ॥ १६१ तदुच्यते--तथा काष्ठतृणादीनां मारुतादेव शुद्धता । स्मर्यंते वाससो नैवं तोयप्रक्षालनाद्विना ॥ १६२ नन्वमेध्येन लिप्तस्य सा शुद्धिरभिधीयते । न लिप्तग्रहणं तत्र पाठेऽस्ति तु चिरंतने ॥ १६३ अमेध्यस्यैवं यस्मात्पठन्ति । चण्डालस्पृष्टवाससश्चास्त्येवामेध्यता । तस्मादस्ति सलिलादिशुद्धिः । ननु च मनुष्यस्यैव चण्डालस्पर्श निमित्तप्रायश्चित्तविधानादशुद्धिरूपममेध्य- त्वं गम्यते न द्रव्यान्तरस्य गवाश्वादेः । ततश्च वस्त्रं किं गवाश्वादिवददुष्टमुत पुरुष- वद् दुष्टमिति सन्देहे गवाश्वादितुल्यमेवावधारयितुं युक्तम् । उच्यते—पुरुषस्य सचेलस्य स्नानं यस्माद्विधीयते । तस्मात्पुरुषवद्वस्त्रं न गवाश्वादिवन्मतम् ॥ १६४ यदाऽपि हि शुद्धेनैव हस्तादिना चण्डालः स्पृश्यते, गवादीनां तु चण्डाला- दिस्पृष्टानां स्नानप्रक्षालनविध्यभावाच्छुद्धिर्विज्ञायत इति, न तन्मध्यपातित्वम् । अतश्च नानेन प्रकारेणौदुम्बरीसंबद्धवस्त्रस्पर्शनात्तत्स्पर्शनज्ञानोपपत्तिः । यदा तु तयैवोद्गाता स्पृष्ट उद्गायेदिति विधिरस्तदाऽवश्यमेवौदुम्बरीत्वं चोद्गातृशरीरं प्राप्तव्यम् । अपाश्रयणाभ्युपगमपक्षोऽपि च स्पृष्ट्वापरित्यागेनैव स्थित इति, न समस्ताच्छादितायामवकल्पते । पराश्रितमपि च वस्त्रमुद्गातुराश्रयत्वं प्रतिपद्यते । तेनैवौदुम्बर्याश्रितेनोद्गायेत् । तस्मादस्ति सर्ववेष्टनस्पर्शनयोर्विरोध इति युक्तं बाध्यबाधकव्यवस्थापनम् । अथ किमर्थं नेमौ विधी विकल्प्येते इति । स्मृतेरविधायकत्वात्स्वयमतुल्य- बलत्वाच्च तदनुमितशाखान्तरपठितविधिपरिग्रहाभिप्रायेणोक्तम् । न नासति व्यामोहविज्ञान इति । पूर्वोक्तेनैव मार्गेण व्यामोहैकान्तकल्पनाम् । विकल्पेऽवश्यमापन्नां स्मृतावेव नियच्छति ॥ १६५ व्यामोहविज्ञानं च ज्ञानान्तर्गतव्यामोहत्वावधारणम्, तद्विज्ञानगतव्यामोह- रूपं वा विवक्ष्यते । तेन षष्ठीसमासः कर्मधारयो वा योज्यः । विकल्पं तु वद-