भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 345, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 345

३ ] प्रथमाध्याये तृतीयपादः २९३ तस्मात्कारणवैषम्यान्नोभयत्रैकरूपता । सिध्येन्मूलव्यवस्था हि प्रतिपक्षानुसारिणी ॥ १५४ ततश्चार्धवैशसप्रसङ्गन्निवृत्तिः । यथा—प्रमाणत्वाप्रमाणत्वे लिङ्गादीनां व्यवस्थिते । पूर्वैः सह विरुद्धत्वाविरुद्धत्वनिबन्धने ॥ १५५ तथेहापि व्यवस्थेष्टा न परस्परसङ्करः । प्रतिबन्धाभ्यनुज्ञाभ्यां श्रुत्या नास्त्येकरूपता ॥ १५६ यद्यप्यौदुम्बरीसर्ववेष्टनं धर्मशास्त्राध्येतृस्मृतिविलक्षणप्रत्यक्षश्रुत्यर्थोपसंहार- परसूत्रकारोपनिबद्धम्, तथाऽप्युपरिष्टाद्वक्ष्यमाणाल्पान्तरत्वाभिप्रायेण पुरुषोपदिष्ट- त्वाविशेषाच्च स्मृतिवदेवोदाहृतम् । क्रीतराजकभोज्यान्नत्ववचनं यद्यप्यथर्ववेदेऽस्ति, तथाऽपि तस्याऽऽहवनीय- संबद्धयज्ञकर्मोपकाराभावात्तदधिकृतत्रयीप्रतिपादिताग्नीषोमीयसंस्थावधिभोजनप्र- तिषेधविरोधात् “प्रकरणविशेषाद्विकृतौ विरोधि स्यात्” इत्यनेन न्यायेनाविकृता- नधिकृतबलाबलविशेषाभिप्रायेण स्मृतिपक्षनिक्षेपाद्भाष्यकारेणोदाह्रियते । कृष्णकेशत्वं च यद्यप्यनवस्थितवयोवस्थाकालविशेषं जातपुत्रत्वपक्षे संदिग्ध- समावेशं च, तथाऽपि 'युवैव धर्ममन्विच्छेदि'त्येवमादिस्मरणप्रकाशितार्थं यौवना- वस्थापरिग्रहादन्ततो वा वयोर्द्धानतिक्रमाश्रयणादष्टाचत्वारिंशद्वर्षब्रह्मचर्यप्रागुप- नयनसंबद्धकालस्य च वयसः सातिरेकद्विपञ्चाशच्चतुष्पञ्चाशन्मात्रसंवत्सरपरिमि- तत्वेनापरिहार्यवयोर्द्धानातिक्रमावश्यंभावित्वाद् व्यक्त एव विरोधो दृश्यते । ननु च पूर्वकृतसर्ववेष्टनोत्तरकालविहितवेष्टिताया एव स्पर्शनं संभवतीत्य- विरोधः । कथमविरोधो ? यदा स्पर्शनं नाम त्वगिन्द्रियद्वारं स्पृश्य संवेदनम् । न च वस्त्रान्तरिताया औदुम्बर्याः स्पर्शो गृह्यते । न च वस्त्रे स्पृश्यमान औदुम्बरी स्पृष्टा भवति । वस्त्रौदुम्बरीजातिव्यक्तिस्पर्शनामत्यन्तभेदात् । अथ संबन्धिसंस्पर्शात्स्पृष्टैवेत्यभिधीयते । भूमिस्पर्शेन तत्सिद्धेर्वृथा स्पर्शविधिर्भवेत् ॥ १५७ ननु भूमावौदुम्बरीबुद्ध्यभावाद्द्वस्त्रान्तरितायां च तद्बुद्ध्यव्यतिरेकाद् दृष्टा- न्तवैषम्यम् । तथा हि—वस्त्रान्तरितचाण्डालस्पर्शेऽप्यापतिते क्वचित् । साक्षात्स्पृष्टवदेवेष्टा सचेलस्नानशुद्धता ॥ १५८ सत्यं तत्रेष्यते स्नानं तद्वस्त्रस्पर्शकारितम् । अशुद्धिकारणं तद्धि चण्डालस्पर्शवन्मतम् ॥ १५९