मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 350, कुल 804 में से
संदर्भ में पढ़ें२९८ मीमांसादर्शनम् [ सू० राजक्रयादूर्ध्वं विधेयस्याभोजनसङ्कल्पस्य प्रतिषेध्यस्य च राजक्रयात्प्राग्भोजनस्य विरोधाभावेनैकस्मिन्नपि दीक्षिताङ्गरूपे विषये समुच्चयसम्भवादित्यर्थः । स्पर्श- वेष्टनयोः कृष्णकेशाधानाष्टाचत्वारिंशद्वर्षब्रह्मचर्ययोरप्येकविधानेनार्थान्तरप्रतिषेधम- भिप्रेत्य वेष्टिताया अपि स्पर्शसम्भवात् कृष्णकेशत्वस्य चानवस्थितवयोऽवस्थां कालविशेष- त्वेनाष्टाचत्वारिंशद्वर्षब्रह्मचर्योत्तरकालमपि कस्मिंश्चित्पुरुषे सम्भवाद्विरोधपरिहारो वक्तुं शक्यते । सति वा तुल्यमूल इत्येतद्व्याख्यातुम्—एकप्रयोगेत्याद्युक्तम् । विकल्पाश्रयणेऽप्यु- भयप्रामाण्यमुपपत्स्यत इत्युक्ते विरोधिनोः समावेशायोगात्कथमुभयप्रामाण्यमित्याशङ्क्य— अत्यन्तविरोधाभावादित्युक्तम् । कथं विरोधाभाव इत्याशङ्क्योभयोः प्रामाण्याङ्गीकरणे- नेत्युक्तम् । प्रामाण्यशब्देनात्रानुष्ठानलक्षणफलानपहारोऽभिप्रेतः । समुच्चय एव तर्हि कस्मा- न्नेष्यत इत्याशङ्क्यैकप्रयोगगतत्वासम्भवादित्युक्तम् । कथं तर्हि फलानपहार इत्याशङ्क्य प्रयोगान्तरे चोभयानुग्रहः स्यादित्युक्तम् । प्रत्यक्षानुमेयश्रुत्योस्तुल्यबलत्वाद्विकल्पासम्भव- माशङ्क्य—प्रत्येत्याद्युक्तम् । समस्तफक्किकायोजनं त्वेवं-यद्याशङ्कितविरोधयोरपि भिन्नविषयत्वेन व्यवस्था सिद्ध- येद्यदि वैकस्मिन्नपि विषये विधेयप्रतिषेध्ययोर्विरोधाभावेन समुच्चयसम्भवादुभयप्रामाण्य- मुपपत्स्यते, एकप्रयोगगतत्वासम्भवाद्विकल्पाश्रयणेऽपि, यद्युभयप्रामाण्यमुपपत्स्यते, ततो विरोधविषयेऽपि स्मृतिप्रामाण्यमादत्तंथमिति सिद्धान्तसम्भवाभिधानार्थं बाधो वा तद्विपर्य- यादिति, यदुक्तम्—तद्विवृणोति । अथ द्विवेति । महान् बलाबलविशेष इति, महच्छब्देन प्रत्यक्षश्रुतिविरुद्धया श्रुतेरनुमानमेव नास्तीति सूचितम् । लौकिकप्रत्यक्षानुमानवदिति दृष्टान्तेन चैतदेव प्रकटितं प्रत्यक्षविरोधे त्वनुमानस्योत्पत्तिरेव प्रतिबद्ध्यते । यथोक्तं मूले तस्य ह्यनुत्पन्नपूर्वेण विषयो हत इति । पूर्वपक्षमारभते—किं तावदिति । अन्यथा ह्यविरोधेऽप्यप्रामाण्यप्रसङ्गे सत्यप्रामाण्येन विरोधमर्यादातिक्रमात्पूर्वाधिकरणसिद्धान्तः प्रत्युद्धूयेतेत्यर्थः एतदेवोपपादयति—अना- शङ्कितेति । अतिप्रसक्तिप्रदर्शनार्थं हेतुदर्शनाद्युपन्यासः । आदिशब्देन पूर्वानुभवपारतन्त्र्य- मभिप्रेतम् । खिलानि-परिशिष्टानि । शाखाश्च खिलानि-प्रकरणानि वा । आदिशब्दोक्तानि काण्डानि । तेषां ये बहवो भेदाः तैर्मिश्रे त्विति विग्रहः लिङ्गादीत्यादिशब्देन समस्तोपदेश- प्रामाण्याभिधानम् । नामादीत्यादिशब्देनातिदेशकवचनाभिधानम् । श्रुतिलिङ्गाद्यात्मकश्चो- पदेशो नामादिद्वाराश्चातिदेशः तदात्मका विचित्राः प्रमाणभागा येषां वेदानामिति विग्रहः । ननु विरोधाशङ्कानिराकरणेनाऽन्यत्र प्रामाण्यस्याध्यवसातुं शक्यत्वात्कथं सर्वत्र प्रामा- ण्यप्रतिघातापत्तिरित्याशङ्कयाह—तथा हीति । ननु त्वत्पक्षे कथं भ्रान्त्यादिमूलत्ववारण- मत आह -- एकेति । एवं तावत् (स्थिततदुपेक्षणे एकमूलव्यवस्थोपेक्षणे अप्रामाण्यनिवृत्त्यर्थं मूलान्तरनिरा- क्रिया न शक्येत्यन्वयः । सिद्धान्तिमते स्मृत्यधिकरणसिद्धान्तः) । सिद्धान्तहानिभयाद्वि- रोधेऽपि, वेदमूलत्वं न निराकार्यमित्युक्तम् । इदानीं विरोधो मूलभूतवेदनिरकरणं कर्तु-