मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 351, कुल 804 में से
संदर्भ में पढ़ें३ ] प्रथमाध्याये तृतीयपादः २१९ मपि न शक्नोत्यनैकान्तिकत्वादित्याह—किं चेति । श्लोकं व्याचष्टे—यदा त्विति । कल्पितस्यापि वचनस्य शाखान्तरीयत्वेनानादराशङ्का निराकर्त्तुं सर्वशाखाप्रत्ययकर्म- व्यवहारिणामिति । यदुक्तं यद्व्याचष्टे--न चेति । न च प्रमाणाभावेनाकल्पनामिति यद् दृढस्मरणोपस्थापितशब्देनोक्तम्, तदुपपादयति—अध्ययनवच्चेति । न शोभत इत्यनेनोभ- योरपि पञ्चम्योरन्वयः । एतदेवोपसंहरति--तस्मादिति । अर्द्धवैशसापत्तेरपि नेह श्रुति- मूलत्वं निराकार्यमित्याह—किं चेति । एकस्यां धर्मसंहितायामर्द्धमस्यार्थान्तरेण वैशसं विरोध इत्यर्थः । अतिक्रियालक्षणश्चास्मिन्पक्षे दोषः स्यादित्याह—मूलान्तरमिति । उचितां क्रियामतिक्रम्य क्रियाऽतिक्रिया, का पुनरुचिता क्रियेत्यपेक्षायामाह—तेनेति । एकस्मिंश्च धर्मशास्त्रे क्वचित्प्रामाण्यसिद्धयर्थं भ्रान्त्यादिमूलानामसम्भवः, क्वचिच्च बाधसिद्धयर्थं सम्भवोऽङ्गीकार्य इति विरुद्धसम्भवासम्भवापादकत्वादपि स्मृतिबाधो न युक्त इत्याह—किं चेति । विरोधपक्षे बाधो बाधपक्षः पक्षे चेद् बाधो न युज्यते किन्तर्हि युज्यते ? अत आह—तेनेति । केनचित्पाशुपतेन सर्वंजरत्या योषितोऽनुपभोग्यत्वात् सर्वंत- रुण्याश्च वृद्धेऽप्यरुचिप्रसङ्गादर्द्धंजरत्यानयने दूतः प्रेषित इति लोकप्रवादोऽर्द्धजरतीयशब्दे- नात्रोपमानत्वेनोक्तः । अस्तु तर्ह्यैकरूप्याय सर्वासामप्रामाण्यमत आह—विरुद्धत्वं चेति । विशिष्टपुरुष- प्रणीतत्वं प्रामाण्यकारणत्वेनोक्तम्, विरोधेऽपि निराकर्त्तुमशक्यमित्याशयः । यच्चात्र हेतुदर्शनं स्मृत्यप्रामाण्यकारणमुच्यते, तदपि स्थितसिद्धान्तहान्यापादकत्वादयुक्तमित्याह— गृह्यमाणेति । उत्प्रेक्षणीयो हेतुर्यस्य धर्मशास्त्रस्य, तत्तथोक्तो लोभादेः सर्ववेष्टनादिस्मृति- हेतुत्वं न केनचित्प्रमाणेनावगतं किं तूत्प्रेक्षामात्रेणोच्यते । सा चाष्टकादावपि शक्या कर्तुमित्याशयः । एतदेव प्रपञ्चयति—रागेति । रागः प्रीतिर्द्वेषोऽप्रीतिः । मदो—गर्वः उन्मादो-ग्रहावेशः, प्रमादालस्ये त्वन्यासक्तधनासक्त्यर्थे व्याख्याते, लुब्धता लिप्सातिशयः । प्रत्युत प्रामाण्य- हेतुकल्पनमेव सुलभमित्याह—अदुष्टे न हीति । जिज्ञासुचित्तेन मन्वादिष्वदुष्टेन निरा- शङ्केनेत्यर्थः । यदि चोत्प्रेक्षामात्रकल्पितेन हेतुना, प्रत्यक्षश्रुतिविरोधेन वा प्रामाण्यमपहू- नूयेत, ततो वेदस्यापि सर्वस्याप्रामाण्यं प्रसज्येतेत्याह—का चेति । न चेयमुत्प्रेक्षास्माभिरेव श्रूयते किन्त्वन्यैरेव सर्वाप्रामाण्यवादिभिः कृतेत्याह—लोकायतिकैरिति । उत्प्रेक्षाभिनिवेशे तेषां मूर्खत्वं मुग्धत्वं भ्रान्तत्वाख्यं कारणत्वेनोक्तम् । कर्मव्यवहारः कस्मादन्यदपेक्ष्यते यावत्किंचिदित्यादिना सार्द्धश्लोकेन तद्दर्शितम् । अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविकेयं बृहस्पतिः ॥ इत्यग्निहोत्रादीनां दृष्टार्थत्वं नास्तिकैरुक्तम् । अग्नीषोमीयादिहिंसाविधेश्च न हिंस्या- त्सर्वभूतानीति निषेधेन विरोधो योजितः । अथश्चैवंस्वभावानां लोकायतिकानामवकाश-