मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 352, कुल 804 में से
संदर्भ में पढ़ें३०० मीमांसादर्शनम् [ सू० दानमशेषमेव धर्ममार्गं नाशयेदित्याह—तेभ्यश्चेह इति । ईषदर्थे नामशब्दः । एतदेव दृष्टान्तत्वेनोपपादयति—प्रसरन्निति । ननु विरोधहेतुदर्शनकारणकमप्रामाण्यमुच्यमानं तदभावे कथं चार्वाकैरापाद्यते, अत आह—क्वचिदिति । धाम-स्थानम् । तस्मात्तेभ्योऽवकाशो न क्वचिद्देय इत्याह— तस्मादिति । लोकायतं नास्तिकशास्त्रम् । तत्र तिष्ठन्तीति लोकायतस्थाश्चार्वाकाः । धर्मो नाश्यते येन युक्तिजालेन तत्संपन्नाः । 'पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ इति च निषिद्धत्वात्, स्मृतिप्रामाण्ये विचिकित्सा न कार्येत्याह—यच्चादाविति । राजाद्याज्ञाया यत्कार्यत्वेन सिद्धम्—निश्चितम्, तद्वेदे विचारितमाज्ञासिद्धमुच्यते । आज्ञा- सिद्धं प्रमाणत्वं यस्य पुराणादिचतुष्टयस्य, तत्तथोक्तं कथमविचारितसिद्धतेत्यपेक्षायामादौ न्यायनिरूपणात्प्रागनादिकालमहाजनपरिग्रहदाढ्यंप्रसक्तया श्रद्धया पुराणादिचतुष्टयमाज्ञासिद्ध- प्रमाणत्वरूपेण सिद्धमित्युक्तम् । न चैतावता न्यायशून्यत्वं शङ्कनीयमिति दर्शयितुं— पुनर्न्यायेन साधितमित्युक्तम् । विचिकित्सायां को दोषः स्यादित्यपेक्षयामाह—सर्वमिति । पराभवभयादपि नान्तरा श्लथयितव्यमित्याह—पक्ष इति । एवं तावदुत्प्रेक्षामात्रकल्पितं दृष्टार्थत्वं न वेदमूलत्वनिराकरणयालमित्युक्तम् । इमिदानीं वास्तवमपि दृष्टार्थत्वम् । विरोधवदनैकान्तिकत्वान्न तन्निराकरणयाल- मित्याह—वेदश्चेति । श्रूयमाणविरोधी वेतीवार्थे समुद्रो वा महासत्त्वैत्व इति । यद्वाशब्दः । अनैकान्तिकत्वं दर्शयति—यद्वा त्विति । ननु पुरुषार्थसाधनत्वलक्षणं दृष्टार्थत्वमिह हेतुः न चावघातादीनां तदस्ति क्रत्वर्थपुरोडाशनिष्पत्तौ तण्डुलीभावादिसाधनत्वादित्याशङ्क्यो- दाहरणान्तरमाह—ऋत्विग्भ्य इति । ऋत्विगमभिमतदक्षिणालाभहेतुत्वेन दानस्य पुरुषार्थताप्यि वक्तुं शक्यतेति सूचयितुम्—ऋत्विग्भ्य इत्युक्तम् । तानूनत्रं परस्परमृत्विजां यजमानस्य चाव्यभिचारार्थं कर्मारम्भे शपथकर्म । अतश्च सिद्धमनैकान्तिकत्वात् दृष्टार्थत्वस्यासाधकत्वमित्याह—यदा चेति । तस्माद्वि- रोधहेतुदर्शनाभ्यां न वेदमूलत्वं निराकर्तुं शक्यमित्युपसंहरति—तेनेति । वेदमूलत्वा- निराकरणाच्च न प्रामाण्यं निराकर्तुं शक्यमित्याह—तस्मादिति । पूर्वपक्षमुपसंहरति— अविशिष्टमिति । ईदृशं मूलश्रुत्यनुमानद्वारमविशिष्टं सामान्यतः सर्वासामं स्मृतीनाम्, यत्पूर्व- न्यायेन प्रमाणत्वं प्राप्तं तदधुना विरुद्धश्रुत्यन्तरपर्यालोचनकाले सत्यपि विरोधे युक्तमित्यर्थः । साध्याहरं सूत्रं योजयत्सिद्धान्तमारभते--सिद्धान्तः—एवमिति । निर्मूलस्मृत्य- योगाद्वेदमूलत्वाभावे किमन्यमूलं स्यादित्याशङ्क्याह—या त्विति । स्पष्टग्रहणेनान्यपर- श्रुतिमूलत्वेऽप्यप्रामाण्योपपत्तेस्तात्पर्यमात्रापवादोऽयमिति दर्शितम् । न च सत्यपि वेदमूलत्वे