मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 357, कुल 804 में से
संदर्भ में पढ़ें३ ] प्रथमाध्याये तृतीयपादः ३०५ रित्यर्थः । क्वचिद्विपरीतपाठः । तत्र प्रमीयत इति भावे लकारः । यावत् स्मृत्या श्रुत्यनु- मानेन प्रमाणीभूयते-मवितुमारभ्यते तावच्छ्रुत्यर्थ एव प्रतीयत इत्यर्थः । नन्वर्थपरिच्छेदाय प्रवृत्ता स्मृतिः पश्चादपि तावदर्थपरिच्छेदं करिष्यतीति किमिति विकल्पो न स्यादित्याशङ्क्य, अपवादसिद्धयर्थं जिज्ञासाविरहेणैकप्रमाणपरिच्छिन्नेऽर्थे प्रमाणान्तराप्रवृत्तिं पूर्वोक्तामेव विकल्पनिरासार्थं स्मारयति—विरुद्धेति । प्रमेयाकाङ्क्षा- निराकरणेन प्रमात्रा आकाङ्क्षैव निराकृता ताद्रूप्यपरिच्छिन्नेऽपि मन्थरं न प्रवर्तते, किमुत वैपरीत्यपरिच्छिन्न इत्याह—न चेति । ननु श्रुत्यर्थपरिच्छेदकाले यद्यपि स्मृत्यार्थो न परिच्छिद्यते, तथापि श्रुतिस्तावदनुमीयते, ततश्चानुमितायाः श्रुतेः प्रत्यक्षया सहाविशेषा- त्किमिति विकल्पो न स्यादित्याशङ्क्याह — स्मृत्या चेति । स्मार्त्तार्थपरामर्शमात्रं तदोत्पद्यते न श्रुत्यनुमानमित्यर्थः । नन्वन्यतः परिच्छिन्नोऽप्यर्थो सत्यामपि जिज्ञासायां स्वसामर्थ्यं स्मृत्यापि पश्चाच्छेत्स्यतेऽत आह—किं कर्त्तव्यमिति । यदि चैवमभविष्यत्ततः सन्निकर्ष- विकर्षविशेषाभावाद् बलाबलव्यवस्था नामविष्यदित्याह—युगपदिति । यदि च श्रुत्यर्थपरिच्छेदसमकालमेव स्मृत्या स्वमूलं स्मृतिरनुमीयेत, ततोऽर्थ- विप्रकर्षेऽपि श्रुत्यवष्टम्भात् वलावलव्यवस्था न स्यात् न त्वेतदस्तीत्याह—यद्वेति । तस्मिन्नेव क्षणे मूलं यदि कल्पयेदिति, यदिशब्दोऽध्याहार्यः, यद्वेति वा यच्छब्द एव यदिब्दार्थे व्याख्येयः' । यतस्तु स्मृत्या गृहीतेऽप्यर्थे मूलान्तरनिषेधयुक्तिपर्यालोचनापेक्षत्वाच्चिरेण श्रुतिकल्पनेति तुशब्दाध्याहारेण व्याख्येयः । ननु श्रुत्यनुमानासम्भवेऽपि स्वतन्त्रेव स्मृतिः प्रतिष्ठास्यतीति विकल्पोऽपरिहार्य इत्याशङ्क्याह—स्मृतिरिति । अतोऽस्ति श्रुतिस्मृत्योरेक- रूपत्वे व्यवस्थितं चिह्नमित्युपसंहरति—तदपेक्षेति । ततश्चेत्यस्मिन्नर्थे पुनः शब्दः । एवं विकल्पस्याष्टदोषत्वान्न तावत्साभ्युपेयतेति पूर्वार्द्धं व्याख्याय, पाक्षिके चाप्रमाणत्वे स्मृतयः सुनिराकरा इत्युत्तरार्धं व्याख्यास्यन्विवेकार्थं पूर्वोक्तं बाधप्रकारमुपसंहरति— एष तावदिति । उत्तरार्द्धं व्याचष्टे—द्वितीयेनेति । विकल्पपदवीं गतायाः स्मृतेरत्यन्तबाध इति द्वितीयः प्रकार इत्यर्थः । कथमित्यपेक्षायामापन्नापाक्षिकं बाधमित्युक्तम् । अत्रैवार्थेऽ- नारब्धव्याख्यानमपि भाष्यं प्रसङ्गाद्विवेक्तुं योजयति—तद्दर्शयतीति । नासति व्यामोह- विज्ञाने इत्यादिभाष्येणैको बाधप्रकार उक्तः । विकल्पं त्वियादिना द्वितीय इति विवेकः । पाक्षिकबाधापत्तावपि कथमात्यन्तिको बाध त्याशङ्क्याह—तदा चेति । भाष्योक्तः श्रुति- प्रमाणपक्षस्तदाशब्देन परामृष्टः । किं तु तदानीं स्मृत्यप्रामाण्यकल्पनावॆलायां सा स्मृतिर- श्रुतिमूलावधार्यते । यतस्तस्याः प्रमाणत्वं श्रुतिमूलत्वकारितमित्यन्वयः । ननु श्रुतिमूलत्वा- भावेऽपि स्वातन्त्र्येण प्रामाण्यसम्भवात्कथमत्यन्तबाध इत्याशङ्क्याह—श्रुतीति । विप्र- लम्भादेर्निराकृतत्वात्कथमापत्तिरित्याशङ्क्य निराकृतेत्युक्तम् । स्वातन्त्र्यनिरासायाविगा- नेत्युक्तम् । नित्यत्वद्वारेत्यनेन नित्यत्वं बिना स्वातन्त्र्यं न सम्भवतीत्युक्तम् । नन्वेवमपि प्रमाणान्तरमूलतया प्रामाण्यं भविष्यतीत्यत आह—श्रुतिमिति । स्मृतेर- तीन्द्रियार्थविषयत्वात्प्रमाणान्तरं मूलं न सम्भवतीत्याशयः । श्रुतेरेवेति पूर्वोपन्यस्तं २०