मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 361, कुल 804 में से
संदर्भ में पढ़ें३ ] प्रथमाध्याये तृतीयपादः ३०५ केषांचित्तु प्रथमश्रुतिग्राहिणां स्मृतिमूलश्रुत्यभावावधारणे सत्येकस्याः श्रुतेः सदसत्त्व- विरोधात्पुरुषान्तरगतमपि श्रुत्यनुमानं मिथ्येति निश्चीयत इत्याशयः । सर्वदा तावतां पुंसामभावात् न स्मृतिरप्रामाण्येन मुच्यत इत्याकारप्रश्लेषेणान्वयः । कर्त्तरीयं तृतीया । अप्रामाण्यं स्मृतिमात्मनः सकाशान्न मुञ्चतीत्यर्थः । प्रामाण्येनेति तु पाठे यदि सर्वदा तावतां भावः स्यात्ततो न प्रामाण्येन मुच्यते । न त्वेतदस्ति । प्रथमश्रुतिग्राहिणामपि केषां चिद्भावादिति व्यवधारणकल्पनया योज्यम् । अभ्युपगमवादमात्रं चैतत् । परमार्थतस्तु सर्वेषामपि प्रथमश्रुतिग्रहणे पश्चात्तन विरुद्धश्रुतिदर्शनेन पूर्वोत्पन्नस्मृति- मूलश्रुत्यनुमानमिथ्यात्वनिश्चयाद्विकल्पो न युक्त इत्याह—अप्रामाण्यपदं चेति । पारतन्त्र्यम् अप्रामाणपदम् । ननु सत्यपि विरुद्धश्रुतिदर्शने विकल्पेनोभयप्रामाण्यसम्भवात्किमिति स्मृत्यनुमितायाः श्रुतेरभावोऽङ्गीक्रियत इत्याशङ्क्याह—अध्यारोप्येतेति । गत्यन्तरसम्भवे- ऽष्टदोषदुष्टविकल्पापादकश्रुत्यनुमानस्यायुक्तत्वात् स्मृत्यप्रामाण्यकल्पनमेव न्याय्य- मित्याशयः । एतदेव विवृणोति—विरुद्धयोर्हीति । एवं च सति श्रुतिविरोधेऽत्यन्तदुष्टविकल्पपरिहा- रार्थं भ्रान्त्यादिमूलत्वकल्पनया स्मृत्यप्रामाण्याङ्गीकरणस्य न्याय्यत्वेनाद्वैवैशसानापाद- कत्वान्न तत्परिहार्थमविरोधेऽप्यप्रामाण्यमापादनीयमित्याह – नन्विति । यत्तु सर्वत्रैकरूप्यो- त्प्रेक्षणं युक्तेत्युक्तम् । तद्विरोधाविरोधाभ्यां सर्वत्र व्यवस्थादर्शनादयुक्तमित्याह—यथेति । नास्त्येकरूपतेत्यतः शब्दादध्याहारेणोपसंहारः । अधिकरणार्थं व्याख्याय भाष्यमनुसन्दधान- स्तत्र यथेत्युदाहरणभाष्यं पूर्वाधिकरणप्रतिपादितश्रुत्यनुमानद्वारस्मृतिप्रामाण्यापवादार्थे- ऽस्मिन्नधिकरणे प्रत्यक्षश्रुत्यर्थोपसंहारपरकल्पे सूत्रकारवचनस्यानुदाहार्यत्वादयुक्तमित्याशङ्क्य समर्थयते—यद्यपीति । कल्पसूत्राधिकरणे स्वातन्त्र्यस्य निषेत्स्यमानत्वात्पौरुषेयत्वेन च वस्तुतोऽप्यनुपपत्तेः कल्पसूत्रमूलभूतानामपि श्रुतीनां शाखान्तराधीतानामनुमेयत्वाविशेषा- त्प्रत्यक्षश्रुत्यर्थोपसंहारपरत्वलक्षणस्य वैलक्षण्यात्मकस्यान्तरस्याव्यापकत्वेनाल्पत्वादयुक्तमु- दाहरणत्वमित्याशयः । सर्ववेष्टनस्मृतेर्जैमिनिदृष्टशाट्यायनिब्राह्मणगतश्रुतिमूलत्वेऽप्यस्मदादीनां मूलादर्शनादस्तूदाहरणत्वम् । क्रीतराजकभोज्यान्नतवस्मृतिमूलस्य तु तस्माद्दीक्षितस्य विज्ञातस्य क्रीतराजकस्य भोज्यं भवतीत्यथर्ववेदे पठ्यमानस्यास्मदादिप्रत्यक्षत्वेन निराकर्त्तुमशक्यत्वात् क्रीतराजको भोज्यान्न इत्युदाहरणभाष्यमयुक्तमाशङ्क्य समर्थयते—क्रीतेति । बाध्यत्वासम्भवशङ्कानिरा- ससाम्याद्व्युत्क्रमो न दोषः । तथापि स्मृतिपक्षे बाध्यत्वे निक्षेपादुदाह्रियत इत्यन्वयः । अग्निषोमीयसंस्थावधिभोजनप्रतिषेधविरोधादिति बोध्यत्वे हेतुः । विरोधेऽपि कथं बाध इत्याशङ्क्य—अधिकृतानधिकृतेत्युक्तम् । अधिकृतानधिकृतविवेकार्थं तस्येत्याद्युक्तम् । कथमधिकृतानधिकृतयोर्बलावलविशेष इत्याशङ्क्य प्रकरणविशेषादिति प्रकरणाधीतसामि- धेनीपाञ्चदश्याना रभ्याधीतसप्तदश्यबलन्यायायोदाहरणं दीक्षितान्नभोजनस्यायज्ञाङ्गत्वेन यज्ञाङ्गगोचरन्यायाविषयत्वात्स्वा संमतिसूचनाथम्—भाष्यकारेणेत्युक्तम् । भाष्यकृतश्चै-