मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 362, कुल 804 में से
संदर्भ में पढ़ें३१० : मीमांसादर्शनम् [ सू० षोऽभिप्रायः त्रयीप्रतिपादतस्य दीक्षितान्नभोजनप्रतिषेधस्यावव्यपेक्षायामथर्ववेदप्रतिपादि- तस्यावधेर्दू॑रस्थत्वेन विलम्बितत्वात्थर्ववेदप्रतिपादितस्य तु तस्माद्दीक्षितस्याविज्ञातस्या- क्रीतराजकस्याभोज्यं भवतीति प्रतिषेधस्य निर्ज्ञातावधित्वेनावध्यनपेक्षत्वाद्वौर्बल्यमिति । अष्टाचत्वारिंशद्वर्षब्रह्मचर्योदाहरणमयुक्तम् । कृष्णकेशत्वस्यानवस्थितवयोवस्थाविशेष- त्वेनावस्थितवर्षसंख्यारूपकालविशेषत्वेन चोत्तरकालमपि सम्भवात् । न च जातपुत्रोऽग्नी नादधीतेत्युत्तरकालं पुत्रजन्मप्रतीक्षणाद् बहुकालातिक्रमे सति कृष्णकेशत्वापनयः शङ्कनीयः । जातपुत्रस्य पक्षान्तरत्वसम्भवेन समुच्चयस्य संदिग्धत्वादित्याशङ्क्य समर्थयते—कृष्ण- केशत्वं चेति । तथापि व्यक्त एव विरोधो दृश्यत इत्यन्वयः । कथमित्यपेक्षिते स्मरण- प्रकाशितस्यार्थस्य यौवनावस्थारूपस्य जातपुत्रत्वकृष्णकेशत्वाभ्यां बाल्यवार्द्धक्यव्यवच्छेदेन परिग्रहादुपलक्षणादित्युकम् । कृष्णकेशत्वजातपुत्रत्वयोः प्रत्येकमाधानाधिकारिविशेषणत्वेऽष्ट- दोषविकल्पापत्तेर्विशेषणविशेष्यभावाप्रतीतेश्च समुच्चयायोगाद्दारपरिग्रहोत्तरकाले च कृष्ण- केशस्य नियमेनाधानप्राप्तेः पलितकेशव्यावृत्त्यर्थतया कृष्णकेशत्वविशेषणत्वविशेषणस्य परिसंख्यार्थत्वापत्तेरजातपुत्रस्यापि च हरिश्चन्द्रादेः पुत्रार्थयागोपाख्यानेनाहिताग्नित्व- दर्शनेनाजातपुत्रत्वस्य स्वरूपेण विशेषणत्वानुपपत्तेः । स्मृत्यनुसाराच्चोभयोर्यौवनावस्थोप- लक्षणाथंत्वमवसीयत इति । ननु यौवनावस्थायाः किंचिच्छेदेऽपि स्मृत्यनुसारोपपत्तेर्विरोधः स्यादित्याशङ्क्य - अकृतो वेत्युक्तम् । 'शतायुर्वे पुरुष' इति श्रुतेः पञ्चाशद्वर्षंस्याद्धं वयो भवति तावता यौवनावस्थासमाप्तिरित्याशयः । तथापि कथं विरोध इत्याशङ्क्य- अष्टाचत्वारिंशद्वर्षेत्याद्युक्तम् । पञ्चवर्षोपनयनपक्षे सातिरेकाणि द्विपञ्चाशद्वर्षाणि गर्भाष्टम- पक्षे सातिरेकाणि चतुःपञ्चाशदिति । तत्प्रमाणमशक्यत्वादिति पूर्वपक्षसिद्धान्तभाष्ये स्पष्टत्वान्न व्याख्याते । वस्त्रान्तरितोदुम्बरीस्पर्शोऽप्यौदुम्बरीं स्पृष्ट्वेति बुद्धयनपायात् स्पर्शानासर्ववेष्टनयोरविरोध इति कथमशक्यतेत्यविरोधाशङ्काभाष्याभिप्रायं व्याचष्टे—ननु चेति । नौपचारिकशब्द- प्रयोगमात्रेणानुपलब्धिविरोधात् वस्त्रान्तरितोदुम्बरोस्पर्शनानुभवकल्पना युक्तेति स्पर्शन- विधानादित्यादिपरिहारभाष्याभिप्रायं व्याचष्टे—कथमिति । ननु व्यक्तिद्वारेणेव जातेर्वं- स्त्रद्वारेणौदुम्बर्याः स्पर्शो मविष्यतीत्याशङ्कां निराकर्तुमाह—न चेति । जात्योर्व्यक्त्योः स्पर्शयोश्चेति विग्रहः । औपचारिकस्पर्शाङ्गीकरणे तु विधानार्थक्यमित्याह—अथेति । अविरोधवादी स्वाभिप्रायं विवृणोति — नन्विति । बुद्ध्यवैलक्षण्यमेव व्यवहारेण द्रढयति - तथा हीति । परिहर्त्ता व्यवहारमन्यथोपपादयति — सत्यमिति । किं तु चण्डालस्पृष्टवस्त्र- स्पर्शकारितमित्यर्थः । तद्वस्त्रं स्पृश्यमानमित्यध्याहारः । कथं तस्याशुद्धिकारणत्वमित्या- शङ्कयाह—तथा चेति । नन्वशुचिस्पर्शो निषिद्धत्वादशुद्धिकारणं वस्त्रस्य च चाण्डालादिवत् स्वतोऽशुचित्वा- भावान्मनुष्यवच्च निषेधाधिकाराभावेन निषिद्धाचरणनिमित्ताशुचित्वाभावात्-