मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 364, कुल 804 में से
संदर्भ में पढ़ें३१२ मीमांसादर्शनम् [ सू० ननु संयुक्तस्यापि वस्त्रस्य पतनप्रतिबन्धकत्वायोगात्संयुक्तसंयोगो नास्पृष्ट्वाप्यौदुम्बर्येवाश्रयो मविष्यतीत्याशङ्कयाह — परेति । संयुक्तसंयोगमात्रेणाश्रयत्वाङ्गीकरणेऽविन्ध्यसंयुक्ताकाश- संयुक्तस्य हिमवतोऽपि विन्ध्याश्रयत्वापत्तेर्वस्त्रस्यैवोदुम्बरीसंयोगलब्धस्थैर्यस्य पतनप्रति- बन्धकत्वं प्रसज्येतेत्यपाश्रयणस्पर्शयोर्विरोधोऽस्तीत्याशयः । ननु सत्यपि विरोधे सर्वशब्दस्य कतिपयवेष्टनेऽत्यन्तवाधानापत्तेः । स्पर्शश्रुतेश्वौदुम्बरी- सम्बद्धवस्तुस्पर्शेऽप्यौपचारिकत्वेनोत्पत्तेः कथंचिद् बाधमात्रेण चानुपपत्तिपरिहार- सम्भवेऽत्यन्ताबाधायोगान्न सर्ववेष्टनस्मृतेर्व्यामोहत्वं युक्तमित्याशङ्क्य कथंचिद् बाधोऽपि श्रुतेः कारणाभावादयुक्त इति तामुद्गायतेतिभाष्येणोक्ताः सर्वैत्यनेन स्मृतेर्वाधिकारिकत्व- माशङ्क्य, नन्वित्यनेन निर्मूलत्वान्निराकृत्य वैदिकमित्यनेन श्रुतिमूलत्वामाशङ्क्य भवेदित्यादिना प्रत्यक्षश्रुतिविरोधान्मूलश्रुतिकल्पनासम्भवमुक्त्वा, कथं न हीत्यनेन किं तर्हि मूलमिति पृष्ट्वा व्यामोहादित्युत्तरे दत्ते कथमित्यनेन व्यामोहमूलत्वे किं प्रमाणमिति पृष्ट्वा श्रोतेत्यनेन विरुद्धश्रुत्यवगता यथार्थत्वान्यथानुपपत्तिः प्रमाणमित्युक्तम्, तत्सर्वं संक्षेपेण तात्पर्यतो व्याचष्टे — इति युक्तमिति । पूर्वोक्तबलाबलहेतुपरामर्शोऽय- मितिकरणः । अथेत्याशङ्काभाष्यं श्रुतिमूलत्वस्य निराकृतत्वात्स्वातन्त्र्येण चाप्रामाण्याद्विधि- त्वाच्चायुक्तमाशङ्क्य, विकल्पाङ्गीकरणेन विरोधपरिहारसम्भवाच्छ्रुतिकल्पनोपपत्ति- मङ्गीकृत्यैतदुक्तमिति व्याचष्टे — अथेति । नास्तीत्यादितुल्यकारणत्वादित्यन्तं भाष्यं तात्पर्यतस्तावद्व्याचष्टे — नास्तीति । (हसे हसने मृङ् प्राणत्यागे, गृ निगरणे, इण् गतौ, वा गतिगन्धनयोः, अम गतौ, दम उपशमे, लूञ् छेदने, पूञ् पवने, धुर्वी हिंसायाम्, हस्तः करनक्षत्रयोः । मतंः, 'भूर्लोकः । गर्तः अवटः' । एतः-लबुर्बरः । वातो-वायुः, रोगश्च । अन्तः-अन्तेऽन्तिके च । दन्तःदशनम् । लोतः-अश्रुवह्नयोः । पोतः-बालवह्नियोः । धूर्त्तः शठः) । औणादिके तन्प्रत्यये कृते गम्यतेऽसावित्यस्मिन्नर्थेऽयमन्तशब्दः । एकेनाम्यते गम्यते प्राप्यते योऽसावैकान्तो व्यामोहाश्वासावैकान्तश्चेति तृतीयासमासगर्भः कर्मधारयः । विकल्पेऽङ्गी- क्रियमाणे पूर्वोक्तेनैव तुल्यकक्षकविकल्पोऽपीत्यादिना मार्गेण व्यामोहस्यैकविज्ञानगतस्य कल्पना- मवश्यमापन्नां पूर्वोक्तेनैव द्वितीयेन प्रकारेणेत्यादिना मार्गेण स्मृताबेव नियच्छतीति प्रथमपादावृत्त्या योज्यम् । एतदेव भाष्यमवयवशो व्याचिख्यासुर्व्यामोहविज्ञानसमासं द्वेधा विगृह्णाति — व्यामो- हेति । विकल्पं त्विति भाष्ये न पाक्षिकीयपाक्षिकत्वाभिधानमेकस्मिन्प्रयोगेऽङ्गीकृत- प्रामाण्याया अपि स्पर्शश्रुतेः प्रयोगान्तरे व्रीह्यादिश्रुतिवदप्रमाण्याङ्गीकरणोपपत्तेरयुक्त- माशङ्क्योपपादयति — विकल्पं त्विति । अपाक्षिकं चेति पाठे सर्ववेष्टनस्मरणं चेति भिन्नक्रमश्चाकारः । पक्षे तावदित्यादिपाक्षिकत्वोपपादनार्थमिति व्याचष्टे — एवमिति । यथा श्रुतिरपाक्षिकी तथा स्मरणमपीत्येवं शब्देनाभिधानाद्भिन्नक्रमत्वं सूचितम् । पाक्षिकं चेति