मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 365, कुल 804 में से
संदर्भ में पढ़ें३ ] प्रथमाध्याये तृतीयपादः ३१३ तु पाठे विकल्पेऽङ्गीक्रियमाणे पाक्षिकत्वमेवात्यन्ताप्रामाण्यहेतुरिति व्याचष्टे—पाक्षिकं चेति । ततश्चाव्यामोहे तस्मिन्स्पर्शनविज्ञाने पक्षान्तरेऽपीत्यध्याहृत्य भाष्यं योज्यम् । ननु पक्षान्तरे स्पर्शनश्रुतेर्व्यामोहत्वात्स्मृतिमूलश्रुतिकल्पनं भविष्यतीत्याशङ्कानिवृत्त्यर्थं न चासावितिभाष्यं व्याचष्टे — एकदापि चेति । यदेव हीत्यादिभाष्यं श्रुत्यपाक्षिकत्वो- पपादनार्थतया व्याचष्टे — इति समर्थयमान इति । तस्याव्यामोहत्वस्य निरपेक्षप्रमाजनकत्वं मूलम्, तदपाक्षिकत्वात्तद्वशेनैव च स्मृतिब्यामोहत्वस्यापाक्षिकत्वात्सर्वदा निर्विचिकित्स- श्रुतिप्रामाण्यसिद्धिरिति भाष्यार्थः । ननु पक्षान्तरे प्रमादपाठत्वान्निरपेक्षप्रमाजनकत्वं न सम्भवतीत्याशङ्कानिरासार्थं नासाविति भाष्यं व्याचष्टे—न हीति । स्मृतेः श्रुत्यादिमूलत्वं वैधर्म्यदृष्टान्तत्वेनोक्तम् । तेनेति भाष्यं श्रुत्यपाक्षिकं चोपसंहारार्थत्वेन ताथद्वयाचष्टे—तेनेति । व्यामोहादिति हेतौ पञ्चमीत्यर्थः । अन्यपर्यायान्तरशब्दयोगनिमित्तपञ्चम्यङ्गीकरणेन वा तेन श्रुतिविरोध- परिहारासम्भवेन नैतत्स्मार्त्तंविज्ञानं व्यामोहपक्षात्प्रामाण्यरूपं पक्षान्तरं संक्रान्तम्, किं तु दुःश्रुततादिविज्ञानं सर्वदा तस्य मूलमित्येवमेतद् भाष्यं योजयमित्याह—यद्वेति । दुःश्रुत- स्वप्नादिमूलत्वेनैकदाङ्गीकृतेन सर्वदापन्नेन हेतुना पक्षान्तरं न संक्रान्तमित्यर्थः । ननु सत्यपि विरोधे शिष्टत्रैवर्णिकदृढपरिग्रहस्य श्रुतिकल्पनहेतोर्भावात्किमिति श्रुतिनं कल्प्यत इत्याशङ्क्य, प्रमित्सानिरपेक्षपरोक्षार्थविषयप्रमाणानुत्पत्तैनं विरोधे श्रुतिकल्पनं युक्तमिति प्रतिपादनार्थं 'न हीति' भाष्यं किं कर्त्तव्यमिदानीं चेत्यनेन पूर्वमेव व्याख्यात- प्रायत्वान्न व्याख्यातम् । तस्मादित्यपसंहारभाष्ये तुल्यकारणत्वं व्याचष्टे—श्रुतीति । विषमशिष्टत्वादपि विकल्पो न युक्त इति प्रतिपादनार्थमपि चेति भाष्यम् । प्रमाणायां स्मृता- वित्यत्रोभयं प्रामाण्यविरोधविवरणदर्शनाद्युक्तमाशङ्क्य विरोधप्रतिपादनपरतयैव ताव- द्वयाचष्टे – अपि चेति । इतरस्मृतिप्रामाण्यं श्रुतिप्रामाण्यं चेतरच्छ्रुतिप्रामाण्यं स्मृति- प्रामाण्यं वा नाश्रयतीति नञ्समासो । नन्वयमकारो दीर्घ इत्याशयः । अन्यतो बलाबल- परिच्छेदाभावे तुल्यबलत्वावगत्या विकल्पः स्यात्सति तु तस्मिन्नष्टदोषविकल्पाङ्गीकरणं न युक्तमिति भाष्याभिप्रायः । क्व पुनरितरेतराश्रयविरोधेऽन्यतः परिच्छेदोदृष्ट इत्या- शङ्क्याह—परस्परेति । प्रतिज्ञा यत्र बाध्यत पूर्वोक्तैयंस्य बाधकैः । तत्पराजयतः कार्यो निर्णयो बाधवजर्नात् ॥ —श्लो० वा० अनु०, ९३-९४ इत्यत्रोक्तो विरुद्धाद् व्यभिचारिणो विरोधे, अन्यतः परिच्छेदो दृष्टान्तितः । प्रमाणशब्दमाक्षिपति—प्रमाणशब्दस्येति । प्रमाणशब्दस्य स्मृतिसामानाधिकरण्य- प्रयोगेण ज्ञानसमानाधिकरण्याभावात् स्मृतेश्चाप्रमितित्वेन भावोत्पन्नल्युडन्तत्वायोगानानेन कारणद्वयेन नपुंसकलिङ्गत्वसिद्धिरित्याशङ्क्य प्रमाणशब्दस्य वेदाः प्रमाणमित्यादिप्रयोगेण