मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 366, कुल 804 में से
संदर्भ में पढ़ें३१४ मीमांसादर्शनम् [ सू० लोके नियतलिङ्गत्वत्वावधारणात्, करणसाधनत्वेऽपि ज्ञानशब्दवत्सामान्यविवक्षया नपुंसक- लिङ्गत्वात् भावे ल्युट् चेति ल्युट्प्रत्ययस्मरणात्तदाश्रयणेन नपुंसकलिङ्गत्वसमर्थनार्थं वेदाः प्रमाणमितिदर्शनम् । ज्ञानसामानाधिकरण्येनेति च तस्य ज्ञानमुपदेश इति करणव्युत्पन्न- स्यापि ज्ञानशब्दस्य नपुंसकलिङ्गत्वदर्शनाद्यदेव ज्ञानशब्दस्याधिकरणमभिधेयम्, नपुंस- कलिङ्गं तदेवास्यापीति व्याख्येयम् । ज्ञानशब्दस्य विषयाव्यभिचारिबुद्धिविशेषवाचिद- वयंवार्यप्रत्यभिज्ञानेन च च रूढित्वायोगाद् बुद्धिवोधादिसामानाधिकरण्याविशेषेण चानेक- लिङ्गतापत्तेरव्युत्पन्नस्यैव प्रमाणशब्दस्य ज्ञानशब्दपर्यायत्वाभिप्रायं समानाधिकरण्य- व्याख्यानं कथं निर्वहतीति न विद्मः । भावव्युत्पत्तौ तु स्मृतिजन्यसंवेष्टनज्ञानलक्षण्या स्मृतिशब्दस्य प्रमाणशब्दसामानाधिकरण्यं द्रष्टव्यम् । करणविशेषविविक्षायां वेति विशेष- शब्देन पूर्वं सामान्यविवक्षा द्योतिता । समर्थनं प्रतिजानीते—तन्मिममिति । समर्थयते—प्रमाणमिति । मूलप्रमाणाश्रितायाः स्मृतेः श्रुत्या सह स्पर्द्धा भवति, न स्वतन्त्राया इति प्रतिपादयितुं प्रमाणशब्दात्परात्रअय- गतावित्येष धातुर्भाष्यकृता प्रयुक्तः । न शुद्धः प्रमाणशब्दः ततश्च प्रमाणमयनायां गच्छन्त्यां प्रमाणायां स्मृतौ स्पर्शनं व्यामोहो न तन्निरपेक्षायामिति भाष्यार्थो भवतीत्या- शयः । योजना चैवम् । यतः स्मृतिः प्रमाणमयते तस्मात्प्रमाणोच्यते धात्वन्तरेण यतिधात्व- र्थव्याख्यानार्थम्—यातीत्युक्तम् । किं तत्प्रमाणमित्यपेक्षिते—मूलभूतां श्रुतिमित्युक्तम् । नन्वयतेर्यकारान्तरत्वात्कथं प्रमाणेति रूपसिद्धिरित्याशङ्क्य, क्विपो बलादित्वेन लोपो व्योर्वलीति यकारलोपे सत्येतरूपसिद्धिरिति सूचनार्थं—क्विवन्तादयतेरित्युक्तम् । ननु कृताकृतप्रसङ्गितया नित्यत्वेन क्विपो लोपस्य प्राथम्यात् वलः परभूतस्याभावे सति कथं यकारलोपः स्यादित्याशङ्क्य वल्प्रत्ययपरत्वनिमित्तयकारलोपाभ्युपगमेनैव तावत्परि- हरति—तत्रेति । प्रत्ययलोपे प्रत्ययलक्षणमितिज्मरणात्प्रथमं क्विपो लोपेऽपि तत्कार्यं- सिद्धिरिति भावः । नन्विदं वल्ग्रहणं वर्णविषयम् । तथा सति गोधाया अपत्यमित्यस्मिन्नर्थे गोधाया ढूगिति विहित ढक्छूत्ययादिभूतढकारस्यायनेयीनियियः फढखच्छघां प्रत्ययादीना- मित्ययादेशे कृते लोपोव्योर्वलीति यलोपाद् गोधेर इति रूपं सिद्ध्यति । प्रत्ययविषयत्वे तु प्रत्ययमध्यगतस्य वलो रेफमात्रस्य प्रत्ययत्वाभावात्प्रत्ययमध्यगतयकारलोपनिमित्तत्वाभावेन न रूपसिद्धिः स्यादित्याशङ्कयाह—न चेति । वल्ग्रहणस्य वर्णविषयत्वेन, प्रत्ययविषयत्वेन च द्वेधा वैयाकरणैर्व्याख्यानादिह लक्ष्यानुसारेण प्रत्ययविषयत्वाभ्युपगमेन वलादिपत्यय- निमत्तोऽत्र यलोपः प्रत्ययलोपलक्षणेन युक्त इति भावः । मामूद्वा वल्प्रत्ययपरत्वनिमित्तो यकारलोपः, तथापि यदि वा कानिचिदन्यान्यपि वर्णाश्रयाणि कार्याणि प्रत्यययलोपलक्षणेन भवन्ति तद्वदिदमपि भविष्यतीत्युक्त्वाऽथ वैवं वक्ष्यामि लोपोव्योर्वलिं ततः वेव्यंन्तस्य व्योर्लोपो भवतीति भाष्ये पतञ्जलिना वेरपृक्त- स्येति योगविभागाभिधानाद्विमक्तस्य वेदिति सूत्रस्य येनविधिरतदन्तस्येति स्मरणेन व्यन्तस्ये- त्यर्थावगतेः कृताकृतप्रसङ्गित्त्वेन च नित्यत्वेऽपि विलोपस्य प्रथमकरणे व्यन्तशब्दाभावेन