मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 372, कुल 804 में से
संदर्भ में पढ़ें३२० मीमांसादर्शनम् [ सू० सूचितां प्रतिज्ञां व्याकुर्वन् सिद्धान्तमाह-अप्रमाणं वेति । एवेत्यर्थः यथाष्टकादि- स्मृतेः वेदातिरिक्तमूलं न दृश्यते, नैवमत्र, लोभादिमूलत्वदर्शनादिति हेतुभागं व्याचष्टे-स्मृतेरत्रेति । तदेव दर्शयति-लोभादिति । ततः-लोभाचरणात्, तदेवास्या मूलमित्यर्थः । ननु वेदमूलत्वस्यापि संभवात् कथं लोभादिमूलत्वनियम इत्याशङ्क्याह- उपपन्नतरं चेति । दृष्टे सत्यदृष्टकल्पनानुपपत्तेरित्यभिसन्धिः १ ॥ ४ ॥ त० वा०-इतश्च न प्रमाणत्वं मूलहेत्वन्तरेक्षणात् । व्यभिचारे हि नोत्पत्तिरर्थापत्त्यनुमानयोः ॥ १८३ श्रुतिविरोधभग्नप्रसरायां हि स्मृतौ पूर्वोक्तेन न्यायेन श्रुत्यनुमानप्रतिबन्धा- दाकाङ्क्षितमूलान्तरावश्यकल्पयितव्यत्वाच्च । क्वचिद् भ्रान्तिः क्वचिल्लोभः क्वचियुक्तिविकल्पनम् । प्रतिभाकारणत्वेन निराकर्तुं न शक्यते ॥ १८४ स्मृतेश्च श्रुतिमग्नायाः कारणान्तरसंभवः । न तु श्रुतेरतः सैव तद्विरोधे हि बाध्यते ॥ १८५ यथैव वेदमूलत्वमनेकान्तान्न लभ्यते । तथाऽन्यमूलताऽपीति तदाशङ्क्येदमुच्यते ॥ १८६ उपपन्नतरं चैतद्वेदावाक्यानुमानतः । दृष्टे हि सत्यदृष्टस्य कल्पना निष्प्रमाणिका ॥ १८७ भाष्यमतेन विरोधाधिकरणम् । अधिकरणान्तरं वेति । सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम् । पूर्वत्रापरितोषो वा विषयव्याप्तिरेव वा ॥ १८८ अपरितोषस्तावत्प्रथमेनैव श्रुतिविरुद्धत्वहेतुना बलवता सिद्धे बाधे, नान्वा- चयहेतुरतीव प्रयोजनवान् । अधिकरणान्तरे पुनः पूर्वोक्तहेतुनिरपेक्षः पर्याप्त एवैकः स्मृतिबाधनायेति स्वतन्त्रत्वेन प्रदर्शनम् । विरोधेन च व्याप्तायाः स्मृतेरप्रमाण- तद्वचासौ नापवादान्तरोद्भवः । 'वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णाति' इत्यग्नीषोम- प्रणयनार्थं विसर्जनहोमकालसंबन्धियजमानाच्छादनं वासोऽध्वर्युर्हरति मुक्तकमेवैत- दावरणानुमितं स्मरणम् । एवं यूपहस्तिनो दानमाचरन्तीति यूपपरिव्यासशाटकं यूपहस्तिशब्देन निर्दिश्याध्वर्युहर्तव्यतयाऽऽचारानुमितयैव स्मृत्या प्रतिपादयन्ति । १. सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम् । पूर्वत्रापरितोषो वा विषयव्याप्तिरेव वेतिवार्तिकमन्त्रानुसन्धेयम् ।