मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 376, कुल 804 में से
संदर्भ में पढ़ें३२४ मीमांसादर्शनम् [ सू० तेनतैं विषयान्त्यत्वान्न विकल्पोऽवकल्पते । स चोक्तो धर्मपीडाख्यस्तत्र चाह्नामवर्धनम् ॥ २२५ दन्तजातानुजातान्यकृतचूडेषु च क्रमात् । चितिक्रिया त्र्यहैकाहास्तत्र चाह्नामवर्धनम् ॥ २२६ तथा गौतमेनाप्युक्तम्—राज्ञां च कार्याविघातार्थं ब्र'ह्मणानां च स्वाध्याया- निर्वृत्त्यर्थमिति । अथ वाऽन्तर्यदाऽऽशौचं निमित्तं किंचिदापतेत् । तत्र शेषेण या शुद्धिस्तच्छेषोऽयं भविष्यति ॥ २२७ न वर्धयेदथाहानि निमित्तादागतान्यपि । पूर्वस्यैव हि कालस्य प्रसङ्गेन तदङ्गता ॥ २२८ प्रवृत्तोऽनपवृत्तश्च दशरात्रादिकोऽवधिः । अन्तः पतितमाशौचं स व्याप्नोति स्वसंख्यया ॥ २२९ वितत्य दश संख्या हि तान्यहानि व्यवस्थिता । शक्नोत्येव परिच्छेतुमन्तराशौचमागतम् ॥ २३० शुद्धयशुद्धी ह्यदृष्टत्वाद्विजायेते यथाश्रुति । नन्वेवं भोजनस्यास्ति विषयावधिकारणम् ॥ २३१ तत्र दीर्घविधिर्व्यर्थः स्यादलपावध्यनुज्ञया । तस्मादिहापि वैषम्यहेतुर्वाच्योऽवधिद्वये ॥ २३२ अत्राप्यसंभवे तस्य दीक्षिते वा ददत्यपि । तन्नियुक्तकदत्तान्नं भोज्यं सोमक्रये कृते ॥ २३३ आपद्धर्मा यथैवान्ये मुख्यासंभवहेतुकाः । तथैव प्राणपीडायां क्रीतराजकभोजनम् ॥ २३४ हन्तैवमप्रमाणत्वमुक्तमन्यप्रकारकम् । जग्धवानापदि ह्यार्तो विश्वामित्रः श्वजाघनीम् ॥ २३५ उच्यते— एकं विनाऽप्यनुज्ञानात् क्रियते गत्यसंभवात् । क्रियतेऽनुज्ञया त्वन्यद्विशेषश्च तयोर्महान् ॥ २३६ सामान्येनाभ्यनुज्ञानाद्विशेषश्च विशिष्यते । विशेषोऽत्यन्तनिर्दोषः स्तोकदोषेतरक्रिया ॥ २३७ तथा च मनुनाऽप्युक्तमापद्धर्मगतं प्रति । तत्रत्यपापशेषाणामन्ते शौचं भविष्यति ॥ २३८