मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
३२४ मीमांसादर्शनम् [ सू० तेनतैं विषयान्त्यत्वान्न विकल्पोऽवकल्पते । स चोक्तो धर्मपीडाख्यस्तत्र चाह्नामवर्धनम् ॥ २२५ दन्तजातानुजातान्यकृतचूडेषु च क्रमात् । चितिक्रिया त्र्यहैकाहास्तत्र चाह्नामवर्धनम् ॥ २२६ तथा गौतमेनाप्युक्तम्—राज्ञां च कार्याविघातार्थं ब्र'ह्मणानां च स्वाध्याया- निर्वृत्त्यर्थमिति । अथ वाऽन्तर्यदाऽऽशौचं निमित्तं किंचिदापतेत् । तत्र शेषेण या शुद्धिस्तच्छेषोऽयं भविष्यति ॥ २२७ न वर्धयेदथाहानि निमित्तादागतान्यपि । पूर्वस्यैव हि कालस्य प्रसङ्गेन तदङ्गता ॥ २२८ प्रवृत्तोऽनपवृत्तश्च दशरात्रादिकोऽवधिः । अन्तः पतितमाशौचं स व्याप्नोति स्वसंख्यया ॥ २२९ वितत्य दश संख्या हि तान्यहानि व्यवस्थिता । शक्नोत्येव परिच्छेतुमन्तराशौचमागतम् ॥ २३० शुद्धयशुद्धी ह्यदृष्टत्वाद्विजायेते यथाश्रुति । नन्वेवं भोजनस्यास्ति विषयावधिकारणम् ॥ २३१ तत्र दीर्घविधिर्व्यर्थः स्यादलपावध्यनुज्ञया । तस्मादिहापि वैषम्यहेतुर्वाच्योऽवधिद्वये ॥ २३२ अत्राप्यसंभवे तस्य दीक्षिते वा ददत्यपि । तन्नियुक्तकदत्तान्नं भोज्यं सोमक्रये कृते ॥ २३३ आपद्धर्मा यथैवान्ये मुख्यासंभवहेतुकाः । तथैव प्राणपीडायां क्रीतराजकभोजनम् ॥ २३४ हन्तैवमप्रमाणत्वमुक्तमन्यप्रकारकम् । जग्धवानापदि ह्यार्तो विश्वामित्रः श्वजाघनीम् ॥ २३५ उच्यते— एकं विनाऽप्यनुज्ञानात् क्रियते गत्यसंभवात् । क्रियतेऽनुज्ञया त्वन्यद्विशेषश्च तयोर्महान् ॥ २३६ सामान्येनाभ्यनुज्ञानाद्विशेषश्च विशिष्यते । विशेषोऽत्यन्तनिर्दोषः स्तोकदोषेतरक्रिया ॥ २३७ तथा च मनुनाऽप्युक्तमापद्धर्मगतं प्रति । तत्रत्यपापशेषाणामन्ते शौचं भविष्यति ॥ २३८
४ ] प्रथमाध्याये तृतीयपादः ३२५ कर्मणा येन केनेह मृदुना दारुणेन वा । उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ इति । २३९ धर्मश्च प्रथमं तावत्प्रायश्चित्तात्मको भवेत् । ततस्तेन विशुद्धस्य फलार्थोऽन्यो भविष्यति ॥ २४० यत्तु क्रीतराजकभोज्यान्नत्ववचनं तद्गत्यन्तरासंभवे निर्दोषत्वज्ञापनाथमेव ज्ञायते । तत्रापि तु—प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । स नाऽऽप्नोति फलं तस्य परत्रेति विचारितम् ॥ २४१ इति निन्दितत्वान्न संभवद्भोज्यान्तरेणापि लोकयात्रादिवशेन भोक्तव्यम् । यदि वा कालवैषम्यादसत्समविकल्पयोः । अर्थभेदव्यवस्थानादविरोघोऽवधार्यते ॥ २४२ दीक्षितान्नमभोज्यं स्यादक्रीते राजनि ध्रुवम् । क्रीते त्वभोजनं नाम मनःकर्म नियम्यते ॥ २४३ यथैवाश्राद्धभोजित्वं यथा वाऽमांसभक्षणम् । श्रेयसे विहितं धर्म्यं न सर्वत्र निषिध्यते ॥ २४४ श्राद्धमन्तर्दशाहं हि नियोगेन निषिध्यते । एकोद्दिष्टं सदेकेषां न तु पित्र्यं कदाचन ॥ २४५ तत्राश्राद्धभोजितत्वनियमः स्वर्गायेति विज्ञायते । तथा षष्ठ्यष्टमीचतुर्दशी- पञ्चदशीषु मांसभक्षणमैथुनादिक्रियाप्रतिषेधाद् गृहस्थस्यान्यत्र कामचारे प्राप्ते तदकरणनियमः श्रेयसे विहितः । यथाऽऽह । न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ।॥ इति । २४६ ननु च वाक्यद्वयदर्शनात्तत्र संयोगपृथक्त्वं युक्तमिह त्वेकमेव दीक्षितान्नभोजन- प्रतिषेधवाक्यं कथं क्रयात्प्रतिषेधति तदुत्तरकालं च प्रागग्नीषोमीयसमाप्तेर्निः- श्रेयसेन नियच्छतीति । तदुच्यते— स्याद्वाक्यद्वयमेवैतदवधिद्वयकल्पितम् । यः पूर्वः प्रतिषेधोऽत्र संस्थितः क्रीतराजके ॥ २४७ परोऽवधिः पुनस्तस्य नैकत्वादवकल्पते । द्वितीयान्नादनानुज्ञादर्शनात्तेन गम्यते ॥ २४८
३२६ मीमांसादर्शनम् [ सू० अभोजनविधिर्नूनमस्त्यन्योऽप्यान्तरालिकः । न हि पूर्वमनुज्ञाते स्यादनुज्ञान्तरं पुनः ॥ २४९ वरणादभ्यनुज्ञाते निर्वापे किमनुज्ञया ॥ २५० यथाऽध्वर्योर्वरणवेलायामेव सर्वं यजमानेन यज्ञोपयोगि स्वयमनुज्ञातमेवेति निर्वापमन्त्रे प्रसवशब्देन तदानींतनयजमानानुज्ञाप्रकाशनं न क्रियते तथेह क्रीत- राजकावस्थानुज्ञातभोजनानुज्ञावचनमग्नीषोमीयसमाप्तौ पुनरुक्तमित्यवश्यं नियमेन प्रतिषेधान्तरेण वा वारितस्यानुज्ञानार्थमित्यवगम्यते । प्रतिषिद्धाभ्यनुज्ञा च विकल्पेनैव दूष्यते । पर्युदस्ताभ्यनुज्ञानं तस्मादिष्टं व्यवस्थया ॥ २५१ दीक्षितान्नविशिष्टाभोजननियमो हि श्रेयोर्थिभ्यो विधीयते । पाश्चात्यभोजनानुज्ञा नान्यथा ह्युपपद्यते । अदृष्टार्थप्रसङ्गित्वात्न विधिश्चायमिष्यते ॥ २५२ एवं विषयनानात्वादविरोधादबाधनम् । अष्टाचत्वारिंशदिति उदाहरणनिरासः अष्टाचत्वारिंशद्वर्षं वेदब्रह्मचर्यचरणस्यापि स्मृितावेव पक्षान्तरविकल्पापेक्ष- निबन्धनादाश्रमन्तरविषयत्वसंभवाद्वा विरोधाभावः । तथा हि— 'वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् ।' सामर्थ्याश्रमयोग्यत्वमङ्गीकृत्यैतदुच्यते ॥ २५३ गौतमेनापि द्वादशवर्षाण्येकवेदब्रह्मचर्यं चरेदिति प्रथमकल्पमाशु गार्हस्थ्य- प्रतिपत्त्यर्थमुक्तवा, द्वितीयकल्पे द्वादशप्रतिवेदं वा, सर्वेष्वित्यष्टाचत्वारिंशत्परि- ग्रहः कृतः । तत्रैवं शक्यते वक्तुं येऽन्धपङ्गवादयो नराः । गृहस्थत्वं न शक्ष्यन्ति कर्तुं तेषामयं विधिः ॥ २५४ नैष्ठिकब्रह्मचर्यं वा परिव्राजकताऽपि वा । तैरवश्यं ग्रहीतव्या तेनाऽदावेतदुच्यते ॥ २५५ उपकुर्वाणकेनैव याप्यः कालो बहुतस्ततः । संप्राप्य ज्ञानभूयस्त्वं पवित्रैः क्षीणकल्मषैः ॥ २५६ सर्वाश्रमातिरिक्तेन स्वाध्यायेनैव शोधितः । स्तोकेरप्याश्रमाचारैर्गतिमिष्टां गमिष्यति ॥ २५७
सूत्रार्थोऽप्येवं योजयितव्यः—श्रौतस्मार्तविज्ञानविरोधे यदनपेक्षम् अपेक्षा-
४ ] प्रथमाध्याये तृतीयपादः ३२७ प्रसङ्गाद् बादरायणमतस्य निर्देशः द्वैपायनादयश्चाहुः— परिनिष्ठितकार्यस्तु स्वाध्यायेनैव हि द्विजः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ २५८ यानि च प्रतिदिनप्रयुज्यमानर्क्सामयजुर्ब्राह्मणकल्पव्याख्यानादिब्रह्मयज्ञ- निमित्तानि फलानि ऋत्वधिकृतपुरुषेभ्योऽन्यानर्थक्यप्रसङ्गाद्व्यावृत्तानि जपध्यान- मात्राधिकृतब्रह्मचारिपरिव्राजकविषयत्वेनावतिष्ठन्ते तान्यपि स्वाध्यायविज्ञानभूय- स्त्वेन भूयिष्ठानि भविष्यन्तीति प्रतिवेदब्रह्मचर्योपदेशः । यो वा कश्चिन्मेधावितया शीघ्रमेव वेदचतुष्टयमप्यधीत्य यथोपपत्तिकालं तदर्थज्ञानाभियोगमपरित्यजन्ग्रहणान्तं वेत्येतत्पक्षाश्रयणेन गृहस्थो भवेत्तं प्रति द्वादशाष्टाचत्वारिंशद्वर्षपक्षावनेनैव स्मरणेन पूर्वपक्षकृताविति नातीव श्रुतिविरुद्ध- त्वेनोदाहर्तव्यौ । तेन नैव श्रुतिस्मृत्योर्विरोधोऽतीव दृश्यते । श्रुत्योरेव ह्यसौ दृष्टः क्वचिद्द्वा नैव विद्यते ॥ २५९ तेनात्र यदि वा कर्मप्रयोगोऽयं निरूप्यते । यदि वा बाध्यमानत्वमुक्तं बाह्यं स्मृतीः प्रति ॥ २६० अत्र जैमिनिमतस्योपन्यासः एतद्धि जैमिनिनाऽत्यन्तं हितोपदेशिना जिज्ञासुभ्यः प्रतिपाद्यते । यावदेकं श्रुतौ कर्म स्मृतौ वाऽन्यत्प्रतीयते । तावत्तयोरविरुद्धत्वे श्रौतानुष्ठानमिष्यते ॥ २६१ व्रीहियवादिश्वपि तावत्प्रत्यक्षश्रुतिविहितेषु यदि कश्चिद्यावज्जीवमप्येकमेव पक्षमाश्रित्य व्यवहरेन्न स कदाचिदप्युपालम्भास्पदं गच्छेत् । ततश्च तुल्यकक्षाऽपि यदि नाम स्मृतिर्भवेत् । तथाऽपि नैव दोषोऽस्ति श्रुत्यर्थमनुतिष्ठताम् ॥ २६२ यानि स्मृतिवचनान्यर्थमात्रमेव प्रतिपाद्य, मूलभूताः श्रुतीरनुदाहृत्य निवृत्त- व्यापाराणि तेषु श्रुत्यनुमानव्याजसापेक्षप्रामाण्येषु सत्सु वेदवचनमनपेक्षत्वात्प्रमाण- तरत्वेन सुतरां विश्रम्भणीयमिति, श्रद्धाविशेषेण ग्राह्यतरार्थं विज्ञायते । वार्तिकमतेन सूत्रार्थवर्णनम् सूत्रार्थोऽप्येवं योजयितव्यः—श्रौतस्मार्तविज्ञानविरोधे यदनपेक्षम् अपेक्षा- वर्जितम्, यस्य वाऽपेक्षणीयमन्यन्नास्तीत्येवं पाठद्वयेऽपि, पूर्वसूत्रात्प्रमाणशब्दमनु-
३२८ मीमांसादर्शनम् [ सू० षङ्गेन संवद्द्य यदनपेक्षं तत्तावत्प्रमाणं स्यादिति तदानींतनव्यवहारमात्रप्रति- पत्त्यर्थमेवोच्यते । ततश्च न तावच्छाखान्तरीयविद्यमानश्रुतिमूलत्वाशङ्कायां सत्यामेवात्यन्त- निराकरणपक्षः परिग्रहीष्यते । न च प्रत्यक्षश्रुत्यर्थानुष्ठानहानिः यदा तु क्वचिच्छाखान्तरे स्मरणमूलं श्रुतिरपि प्रत्यक्षीभविष्यति, तदोभयोस्तुल्यबल- त्वाद्विकल्पो भविष्यत्येव । नन्वनेनैव न्यायेन स्वशाखाविहितविरुद्धं शाखान्तरगतमप्यग्राह्यं स्यात् । सत्यम्— वार्तामात्रेण तद्यावत्तावन्नेव ग्रहीष्यते । यदा तु श्रवणं प्राप्तं तदाऽस्मान्न विशिष्यते ॥ २६३ अतश्चैवं श्रुतिस्मृत्योर्विशेषोऽनेन दर्शयते । नात्यन्तमेव बाध्यत्वं न चाप्यत्यन्ततुल्यता ॥ ५६४ (वार्तिकमतेन बाह्यग्रन्थानामप्रामाण्यनिरूपणम् ।) यद्वा—यान्येतानि त्रयीविद्भिर्न परिगृहीतानि, किंचित्तन्मिश्रधर्मकञ्चुकच्छा यापतितानि लोकोपसंग्रह-लाभ-पूजा-ख्यातिप्रयोजनपराणि त्रयीविपरीता- संबद्धदृष्टशोभादिप्रत्यक्षानुमानोपमानार्थापत्तिप्राययुक्तिमूलोपनिबद्धानि सांख्य- योगपाञ्चरात्रपाशुपतशाक्यग्रन्थपरिगृहीतधर्माधर्मनिबन्धनानि विषचिकित्सा- वशीकरणोच्चाटनोन्मादनादिसमर्थकतिपयमन्त्रौषधिकादाचित्कसिद्धिनिदर्शनबलेना- हिंसासत्यवचनदमादानदयादिश्रुतिस्मृतिसंवादिस्तोकार्थगन्धवासितजीविकाप्राया - र्थन्तरोपदेशीनि, यानि च बाह्यतराणि म्लेच्छाचारमिश्रकभोजनाचरणनिबन्ध- नानि, तेषामेवैतच्छुतिविरोधहेतुदर्शनाभ्यामनपेक्षणीयत्वं प्रतिपाद्यते । न चैतत्क्व- चिदधिकरणान्तरे निरूपितम्, न चावक्तव्यमेव गाव्यादिशब्दवाचकत्वबुद्धिवदति- प्रसिद्धत्वात् । यदि ह्यनादरेणैषां न कल्प्येताप्रमाणता । अशक्यैवेति मत्वाऽन्ये भवेयुः समदृष्टयः ॥ २६५ शोभासौकर्यहेतूक्तिकलिकालवशेन वा । यज्ञोकपशुहिंसादित्यागभ्रान्तिमवाप्नुयुः ॥ २६६ ब्राह्मणक्षत्रियप्रणीतत्वाविशेषेण वा मानवादिवदेव श्रुतिमूलत्वमाश्रित्य सचेतसोऽपि श्रुतिविहितैः सह विकल्पमेव प्रतिपद्येरन् । तेन यद्यपि लभ्येत स्मृतिः काचिद्विरोधिनी । मन्वाद्युक्ता तथाऽप्यस्मिन्नेतदेवोपयुज्यते ॥ २६७
४ ] प्रथमाध्याये तृतीयपादः ३२९ त्रयीमार्गस्य सिद्धस्य ये ह्यात्यन्तविरोधिनः । अनिराकृत्य तान्सर्वान्धर्मशुद्धिर्न लभ्यते ॥ २६८ महाजनगृहीतत्वं पित्राद्यनुगमादि च । तेऽपि द्वीपान्तरापेक्षं वदन्त्येव स्वदर्शने ॥ २६९ तत्र श्रद्धामात्रमेवैकं व्यवस्थानिमित्तं सर्वेषां स्वपितृपितामहादिचरितानुया- यित्वात् । यैश्च मानवादिस्मृतीनामप्युत्सन्नवेदशाखामूलत्वमभ्युपगतम्, तान्प्रति सुतरां शाक्यादिभिरपि शक्यं तन्मूलत्वमेव वक्तुम् । को हि शक्नुयादुत्सन्नानां वाक्यविषयेयत्तानियमं कर्तुम् । ततश्च यावत्किंचित्कियन्तमपि कालं कैश्चिदाद्रिय- माणं प्रसिद्धि गतं तत्प्रत्यक्षशाखाविसंवादेऽप्युत्सन्नशाखामूलत्वावस्थानमनुभव- तुल्यकक्षतया प्रतिभायात् । अत आह—विरोधे त्वनपेक्षं स्यादिति । पारतन्त्र्यं तावदेषां स्मर्यमाणपुरुषविशेषप्रणीतत्वात्तैरेव प्रतिपन्नं शब्दकृतकत्वादिप्रतिपा- दनादराच्च पार्श्वस्थैरपि ज्ञायते । शाक्यादिवचसां प्रायेण श्रुतिस्मृतिविरुद्धत्ववर्णनम् वेदमूलत्वं पुनस्ते तुल्यकक्षमूलत्वाक्षमयैव लज्जया च मातापितृद्वेषिदुष्टपुत्र वन्नाभ्युपगच्छन्ति । अन्यच्च स्मृतिवाक्यमेकमेकेन श्रुतिवचनेन विरुद्ध्येत । शाक्यादिवचनानि तु कतिपयदमदानादिवचनवर्जं सर्वाण्येव समस्तचतुर्दशविद्या- स्थानविरुद्धानि त्रयीमार्गव्युत्थितविरुद्धाचरणैश्च बुद्धादिभिः प्रणीतानि । त्रयी- बाह्येभ्यश्चतुर्थवर्णनिरवसितप्रायेभ्यो व्यामूढेभ्यः समर्पितानीति न वेदमूलत्वेन संभाव्यन्ते । स्वधर्मातिक्रमेण च येन क्षत्रियेण सता प्रवक्तृत्व-प्रतिग्रहौ प्रतिपन्नौ, स धर्ममविप्लुतमुपदेक्ष्यतीति कः समाश्वासः ? । उक्तं च—परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽतिसंधत्ते सोऽन्यस्मै स्यात्कथं हित इति ॥ २७० बुद्धादेः पुनरयमेव व्यतिक्रमोऽलंकारबुद्धौ स्थितः, येनैवमाह— कलिकलुषकृतानि यानि लोके । मयि निपतन्तु विमुच्यतां तु लोकः, इति । स किल लोकहितार्थं क्षत्रियधर्ममतिक्रम्य ब्राह्मणवृत्तं प्रवक्तृत्वं प्रतिपद्य, प्रतिषेधातिक्रमासमर्थैर्ब्राह्मणैरननुशिष्टं धर्मं बाह्यजनाननुशासद्धर्मपीडामप्यात्म- नोऽङ्गीकृत्य परानुग्रहं कृतवानित्येवंविधैरेव गुणैः स्तूयते, तदनुशिष्टानुसारिणश्च सर्व एव श्रुतिस्मृतिविहितधर्मातिक्रमेण व्यवहरन्तो विरुद्धाचारत्वेन ज्ञायन्ते । तेन प्रत्यक्षया श्रुत्या विरोधे ग्रन्थकारिणाम् । ग्रहीत्राचरितॄणां च ग्रन्थप्रामाण्यबाधनम् ॥ २७१
३३० मीमांसादर्शनम् [ सू० न ह्येषां पूर्वोक्तेन न्यायेन श्रुतिप्रतिबद्धानां स्वमूलश्रुत्यनुमानसामर्थ्यमस्ति । न च शाखान्तरोच्छेदः कदाचिदपि विद्यते । प्रागुक्ताद्वेदनित्यत्वान्न चैषां दृष्टमूलता ॥ २७२ न हि यथोपनयनादिस्मृतीनां शाखान्तरदृष्टश्रुतिसंवादः । एवं चैत्यकरण- तद्वन्दनशूद्रसंप्रदानकदानादीनां संवादः संभवति । मूलान्तरकल्पनं च प्रागेव प्रत्याख्यातम् । हेतुदर्शनेन शाक्यमतनिरासः । लोभादिकारणं चात्र बह्वेवान्यत्प्रतीयते । यस्मिन्सन्निहिते दृष्टे नास्ति मूलान्तरानुमा ॥ २७३ शाक्यादयश्च सर्वत्र कुर्वाणा धर्मदेशनाम् । हेतुजालविनिर्मुक्तां न कदाचन कुर्वते ॥ २७४ न च तैर्वेदमूलत्वमुच्यते गौतमादिवत् । हेतवश्चाभिधीयन्ते ये धर्मा दूरतः स्थिताः ॥ २७५ एत एव च ते येषां वाङ्मात्रेणापि नार्चनम् । पाखण्डिनो विकर्मस्था हैतुकाश्चैत एव हि ॥ २७६ एतदीया ग्रन्था एव च मन्वादिभि परिहार्यत्वेनोक्ताः । 'या वेदबाह्याः स्मृतयो याश्च काश्चित्कुदृष्टयः । सर्वास्ता निष्फलाः प्रोक्तास्तमोनिष्ठा हि ताः स्मृता ॥ इति । २७७ तस्माद्धर्मं प्रति त्रयीबाह्यमेवंजातीयकं प्रामाण्येनानपेक्ष्यं स्यादिति सिद्धम् ॥ ४ ॥ न्या० सु०—सूत्रव्याख्यानार्थं लोभादित्यादिभाष्यं सर्ववेष्टनादिस्मृतीनां लोमकृन्त- पुंसकत्वप्रच्छादनप्रयोजनमूलत्वे प्रमाणाभावादयुक्तमाशङ्क्य श्रुत्यतिरिक्तसम्भवे, मूल- मात्रोपलक्षणार्थतया व्याचष्टे—इतश्चेति । विरोधो व्यभिचारशब्देनोक्तः । श्लोकं व्याचष्टे- श्रुतीति । ननु सत्यपि विरोधे भ्रान्त्यादिमूलत्वं विना बाध्यत्वायोगाद् बाध्यत्वेनैव भ्रान्त्यादिमूलकल्पनायामितरेतराश्रयं स्यात्, इत्याशङ्क्याह—स्मृतेश्चेति । विरोधपरि- हारायाऽवश्याङ्गीकार्येऽन्यतरस्य बाध्यत्वे स्मृतेरेव भ्रान्त्यादिमूलत्वनिश्चयापत्तेरितरेतरा- श्रयापत्तिरित्यशयः । उपपन्नतरं चैतदिति वक्ष्यमाणवर्णकभाष्यमिहापि योज्यमिति सूचयितुमाशङ्कोत्तर- त्वेन व्याचष्टे—यथैवेति । भाष्यकृतास्यैव सूत्रस्याधिकरणान्तरविषयत्वेन वर्णकान्तरं कृतम्, तत् पूर्वापरितोषविषयव्याप्तिव्यतिरेकेण क्वचिद्वर्णकान्तरस्य प्रयोजनान्तरा- दर्शनात्तयोश्चापरितोषकारणविषयान्तरादर्शनेनासम्भवादयुक्तमित्याक्षिपति—सर्वेति । न
४.] प्रथमाध्याये तृतीयपादः ३३१ च तयोर्मध्येऽन्तरदप्यत्रास्तीति शेषः । समाधातुमपरितोषकारणं तावन्मन्दप्रयोजनत्वमाह — अपरितोषस्तावदिति । विषयव्याप्तिरप्यत्राविरुद्धस्मृतिविषयत्वादस्तीत्याह — विरोधेन चेति । सत्यप्यस्याविरुद्धस्मृतिविषयत्वे कारणान्तरेणापि केनचिदपवादान्तरोपपत्तेः कथं विषयव्याप्तिरित्याशङ्क्य, कारणान्तरासम्भवान्नापवादान्तरोद्भव इत्युक्तम् । वैसर्जनहोमीयमित्यादिविषयप्रदर्शनार्थं भाष्यं व्याचष्टे—वैसर्जनहोमीयमिति । श्रुत्य- विरुद्धानामपि स्मृतीनां लोभादिमूलत्वसम्भवेनाप्रामाण्याङ्गीकरणे दायधर्मादिस्मृतीनामप्य- प्रामाण्यं स्यादित्याशङ्क्य, मन्वादिमहर्षिनिबन्धनस्य वेदमूलत्वकल्पनाहेतोरविरोघे कल्पकत्वप्रतिबन्धाभावान्मूलान्तरकल्पनानुपपत्तावप्यविरुद्धानामाचारानुमितानामर्वाचीन - मनुष्यस्मृतीनां दृष्टमूलासम्भवेनैव वेदमूलत्वस्यापि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् १-३-७ इत्यत्र वक्ष्यमाणत्वात् सम्भवेऽपवादविषयत्वोपपादनार्थं मुक्तकमेवैतदित्युकम् । तत्कर्तृसामान्यादिति पूर्वपक्षसिद्धान्तभाष्यद्वयमेकहेलया व्याचष्टे—तत्रापीति । इदानीं धर्मबुद्ध्यानुष्ठानेऽपि पूर्वप्रवृत्तिकाले लोभादिमूलत्वसम्भवप्रदर्शनार्थं पूर्वग्रहणम् । लोमस्य मूलत्वसम्भवः पूर्वं कालान्तरे यस्मिन्कर्तृसामान्ये, तस्मादिति हेतुगर्भं विशेषणम् । लोभमूलत्वसम्भवमुपपादयति—ऋत्विजो हीति । आशङ्काशब्देन लोभमूलत्वानिश्चयेऽपि, वेदमूलत्वनिश्चयस्तावन्नास्तीति सूचितम् । ननु वेदमूलत्वस्यापि सम्भवात्कथमप्रामाण्य- निश्चय इत्याशङ्क्य, निराकरणार्थमुपपन्नतरं चेदिति भाष्यं व्याचष्टे—पूर्ववच्चेति । ननु वेदमूलत्वाभावनिश्चयाभिधानपरत्वेऽस्य भाष्यस्य पूर्वंलोभमूलत्वनिश्चयाभिधान- परत्वेन योजनमयुक्तं स्यादित्याशङ्क्याह—इदं चेति । दृष्टे सम्भवत्यदृष्टकल्पनमयुक्तमिति न्यायस्य वेदमूलत्वाभावान्यमूलत्वयोर्निश्चयकारणस्य तुल्यत्वादुभयत्रापि योजितमित्यर्थः । भाष्यकारीयाधिकरणक्षः यथाभाष्यमधिकरणद्वयं व्याख्याय दूषयितुं प्रतिजानीते—एतावत्स्विति । सर्ववेष्टन- स्मरणस्य लोभमूलत्वनिराकरणेन तुल्यन्यायतया यूपहस्तिदानादिस्मरणस्यालोभमूलत्व- निराकरणाद्धर्मबुद्ध्या चेदानीमनुष्ठीयमानानां दृष्टमूलत्वकल्पनासम्भवाद्—अधिकरण- द्वयेऽपीत्युक्तम् । प्रत्यक्षश्रुतिविरोधे हि स्मृतिमूलश्रुत्यभावः साधकाभावाद्वा स्याद् बाधक- सद्भावाद्वा तत्र त्रैवर्णिकदृढपरिग्रहादरस्य स्मृतिमूलश्रुतिसाधकस्य विरोधेऽप्यनपायात्साधका- भावस्तावन्नास्तीत्याह—स्मृतीनामिति । यत्तु जिज्ञासां विना प्रमाणप्रवृत्तेः साधकाभाव इत्युक्तम् । तत् एवं परिहर्त्तव्यम्, यद्यपि परिच्छिन्ने प्रमेये तत्परिच्छेदार्थं श्रुत्यनुमानं न प्रवर्त्तते, तथापि किमियं स्मृतिः प्रमाणमप्रमाणं वेति जिज्ञासायां तत्परिच्छेदार्थं श्रुत्यनुमानप्रवृत्तिर्न वारयितुं शक्यते । प्रमाणान्तरपरिच्छिन्नेऽपि शङ्खशौक्ल्ये शङ्कितपित्तोपघातस्य किं मे चक्षुर्दुष्टमदुष्टं वेति जिज्ञासया चक्षुर्विस्फुरणदर्शनात् परमाण्वादौ च कदाचिदनुपलब्धत्वाद्व्यवहारानानुपयोगित्वाच्च जिज्ञासितेऽप्युपलब्धस्थूलादिकार्यानुपपत्तिपरिहारार्थं प्रमाणप्रवृत्तिदर्शनाच्च जिज्ञासादरः ।
३३२ मीमांसादर्शनम् [ सू० किं च स्मृतेर्मूलप्रमाणोपस्थापनमात्रेण कृतार्थत्वान्नौदुम्बरी प्रमेया, तत्प्रमेयायाः श्रुतेः प्रत्यक्षश्रुत्यविषयत्वेन तया परिच्छेत्तुमशक्यत्वान्नानुमानप्रतिबन्धो युक्त इति । बाधकं तु स्मृतिमूलश्रुत्यभावव्याप्तं लिङ्गं विरुद्धश्रुतिदर्शनस्यानैकान्तिकत्वप्रतिपादनेन पूर्वपक्षवेलायामेव निरस्तम् । अनुपलब्धिस्त्वस्मदादीनां विप्रकीर्णशाखान्तरगतश्रुत्युप- लब्धाशक्तेः स्मर्तृप्रत्यक्षस्य च स्मृत्यधिकरणसाधितत्वेनेदानींतनपुरुपान्तरप्रत्यक्षत्वस्य चोपनयादिस्मृतिमूलश्रुतिदृष्टान्तेनानुमानोपपत्तेः, सर्वानप्रत्यसिद्धत्वान्नाभावसाधनायाऽल- मित्याह-शाखान्तरेति । न च स्मर्तृपुरुषाधीनप्रत्ययत्वमात्रेणानुमेयश्रुतिष्वनाश्वासः अध्यापक- पुरुषाधीनप्रत्यक्षत्वेनेतरास्वप्यनाश्वासापत्तेरित्याह-तत्रेति । नन्वग्निहोत्रादिश्रुतीनां प्रत्यक्षत्वान्न तास्वनाश्वासापत्तिरित्याशङ्क्य वर्णस्वरूपस्य प्रत्यक्षत्वेऽप्यनादिसम्प्रदायागतत्वस्य पुरुषाधीनत्वात्तुल्यतामाह-वेदो हीति । न च स्मरणार्थत्वेन पूर्वदृष्टघटादिवन्नित्यत्वानवधारणं शङ्कनीयमग्निहोत्रादिश्रुतिष्वप्यविशेषादि- त्याह-अनुच्चारणकालेति । उपसंहरति-तेनेति । ननु वेदविरोधेन स्मर्तुरनाप्तत्वान्न मूलश्रुत्यनुमानं सम्भवतीत्याशङ्क्य, प्रत्यक्ष- वेदमूलोपनयनादिस्मृतिप्रणेतृत्वेनावधारितत्वात्तदभावस्य सत्त्वादेरेकदेशविरोधेऽप्यनाप्तत्व- कल्पनं न युक्तमित्याह-स्मृतीति । किं च निष्ठानुमेयाया श्रुतेर्न्यायेन बाधो युज्येतापि, शाखान्तरपठितश्रुतिबाधे तु प्रत्यक्षविरोधाशङ्का दुःपरिहरेत्याह बाधिता चेति । उपरिष्टात्ते इति शब्ददर्शनात्तय्या न्यायविदा भूत्वेत्यध्याहारेण योज्यम् । न चिरादित्य- व्यानव्येऽपि नञो विभाषाधिकारे नञ्समासस्मरणान्न होतारं वृणीते इतिवदसमानान्न- लोपाभावो न दोषः । प्रत्यक्षविरोधाशङ्काया च त्वदुक्तस्य न्यायस्य सम्यक्त्वानवधारणा- न्यायाभासेन मूलश्रुत्यनुमानबाधाङ्गीकरणे मर्यादातिक्रमादिसर्वं पूर्वोक्तमपरिहार्यं स्यादित्याह-बाधेति । न्यायं दूषयित्वोदाहरणानि दूषयन्नाद्यं तावदुदाहरणं 'तामूर्ध्वदशेन' वा ससा परिवेष्ट- यन्तीति प्रत्यक्षश्रुतिमूलत्वाद् दूषयति-यच्चैतदिति । एतच्छान्दोग्यानुपपदे जैमिनिकृते सूत्रग्रन्थे जैमिनिनौदुम्बरीप्रकरणे चेत्यादिना दर्शयतीत्यन्तेन स्वग्रन्थेन शाट्यायनिब्राह्मण- गतश्रुतिमूलत्वेनान्वाख्यातमित्यन्वयः । शाट्यायनिनां शाखिनामौदुम्बरीप्रकरणे तामूर्ध्व- दशेनेति श्रुतिरुभयत्र विष्टुत्यामौदुम्बर्य्यां च वाससी दर्शयतीति जैमिनिग्रन्थस्यार्थः । उभयत्र शब्दः किं विषय इत्यपेक्षायां वैष्टुत इत्याद्युक्तं स्तोत्रीयपरिगणनार्थनामौदुम्बरीणां प्रादेश- मात्राणां कुशानां विष्टुतिशब्दवाच्यानां स्थापनार्थं वासो वैष्टुतमुच्यते । तस्मिन् शौर्वं वासः श्रीः सामेत्यर्थवादपुरःसरं प्रत्यक्षश्रुतिमूलत्वेन दर्शिते तत्प्रसङ्गेनौदुम्बरीवेष्टनवाससाऽपि प्रकाशश्रुतिमूलत्वमेवान्वाख्यातं तामूर्ध्वदेशेनेति प्रकृतौदुम्बरीपरामर्शप्रतीकोपन्यासेनेत्यर्थं । उपसंहरति-ततश्चेति । अविरोधादपीदं नोदाहरणं युक्तमित्याह-विरुद्धत्वे चेति । औदुम्बरी परिवेष्टयितव्येत्येतावन्मात्रं सूत्रकारेणोक्तम्, न सर्वेति तत्र ययोपनेष्यमाणमहतेन
४ ] प्रथमाध्याये तृतीयपादः ३३३ वाससा छादयन्तीति चक्षुर्मुखानाच्छेदनेऽपि शास्त्रार्थसम्पत्तिः प्रसिद्धा, तथात्रापि भवतीत्याशयः । ननु सर्वशब्दाभावेऽपि परिशब्देनापि सर्वशब्दार्थसम्पत्तेर्विरोध इत्याशङ्क्याह— यदीति । औदुम्बर्याद्युत्तरदेशे पृष्ठेन तां स्पृशतोदङ्मुखेनोपविष्टेनोद्गातव्यं तेन चौदुम्बरी- मध्यस्योत्तरभागे द्वित्राङ्गुलमात्रं स्पृश्यते तदनुरोधेन चोत्तरभागतो मध्ये द्वित्राङ्गुलं विमुच्यते, सर्ववेष्टनेऽपि परिशब्दार्थसम्पत्तेरविरोध इत्यर्थः । एतदेव श्लोकद्वयं यथाक्रमं श्लोकद्वयेन विवृणोति — सर्वेति । भाष्यकारेण गौरवात्कस्मिंश्चित्सूत्रे, कल्पे वा सर्वशब्दो भविष्यतीति कल्पनां निराकर्त्तुम्—न हीत्युक्तम् । सर्ववेष्टनवचने हि कर्णयोर्वेष्टनं कृत्वा वंशो निधेयः, मूलं च वेष्टयित्वा निखातव्यं स्यात्, न चैवं याज्ञिकाः कुर्वन्ति । परिशब्दस्तु समन्तार्थः सर्वतो देशवेष्टनं ब्रूते । न कृत्स्नाया इत्यौदुम्बरीमध्योत्तरभागा द्वित्राङ्गुलवर्ज्जित- सर्वौदुम्बरीवेष्टनेऽप्यर्थवानित्यर्थः । हेतुदर्शनोदाहरणत्वमप्यस्य न सम्भवतीत्याह — लोभमूलं चेति । यदि तर्हि शब्दार्थ- योर्यत्तदित्यव्यये मूलाग्रयोश्च वंशाधारयोः कर्णयोः परिधाने वेष्टने दीर्घवासोलाभाल्लोभमूले तदनुष्ठाने याज्ञिकाचारविरोधः स्यादित्यर्थः । अयं चापरोऽचारविरोधो लोभमूलत्वे प्रसज्येतेत्याह—अन्तरीयेति । पूर्वापरकाययो- रन्तरस्य, मध्यस्य परिधानार्थमधोवासो नान्तरीयकदेशस्य कल्पयित्वान्तरीयतामाचामे- दिति, प्रयोगदर्शनादन्तरीयशब्देनोच्यते । अधरीयोत्तरीय इत्यपि पाठे तदेवोक्तम् । कोशे- यस्य गुणाभावात्कार्पासस्य गुणराहित्यम् । लोभमूलत्वे च कुशवेष्टनपूर्वकत्वोर्ध्वदेशत्वनियमौ न स्यातामित्याह—प्राक्चेति । उदाहरणान्तरमपि दूषयति — किं चेति । अष्टाचत्वारिंशद्वर्षंब्रह्मचर्यंस्यचाष्टाचत्वारिंशद्वर्षं सर्वं वेदब्रह्मचर्यमित्यादि । अथ सर्वं वैदिकविहितत्वादनादाहरणता चकारसूचिता । पूर्वोक्त- बलाबलविशेषं निराकरोति—यदीति । किं तदर्थान्तरमित्यपेक्षायामाह—शान्तीति । न चास्यानारभ्याधीतन्यायेन दौर्बल्यम् । तस्य कल्प्यक्रतुसम्बन्धमनारभ्याधीतम्, कॢप्तं क्रतुसम्बन्धात्प्रकरणाधीताद् दुर्बलम्, क्रतुसम्बन्धविप्रकर्षादित्येवंरूपस्य क्रत्वङ्गविषयत्वादस्य च क्रत्वङ्गविषयत्वाभावादित्याह—न चेति । एतदेवोपपादयति—न हीति । विरोधपरि- हारस्तर्हि कथमित्यपेक्षयामाह—वाक्यान्तरैरिति । दशाहं शावमाशौचं सपिण्डेषु विधीयते । अर्वाक्सञ्चयनादस्थ्नां त्र्यहमेकाहमेव च ॥ इत्याशौचच्छेदकालानां यथा व्यवस्थितो विकल्पः, तथेहापि भविष्यतीति व्यवस्थित- विकल्पसूचनाय दृष्टान्ताभिधानपरत्वादाशौचकालानाम् । 'एकाहाच्छुद्ध्यते विप्रो योऽग्निवेदसमन्वितः । त्र्यहात्केवलवेदस्तु द्विहीनो दशभिर्दिनैः ॥' इति वचनान्तरेण ।
१३४ मीमांसादर्शनम् [ सू० (दन्तजातपदेन वर्द्धमानोपलक्षकः कुमारादनुजातपदेन वध्वोपलक्षकः, कृतचूडपदेन वर्षत्रयोपलक्षकः ।) 'दन्तजातेऽनुजाते च कृतचूडे च संस्थिते । अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥' इत्युपक्रमानुसारेण वा व्यवस्थावगमान्न तद्दृष्टान्तेनेह विकल्पाङ्गीकरणं युक्तमित्य- गृहीताभिप्रायः शङ्कते—ननु चेति । अग्निवेदसमन्वितस्य दशाहाशौचानुवृत्तावुभयसाध्य- होमजपादिलोपाद् भूयसी धर्मपीडा स्यात्केवलवेदस्य तन्मात्रसाध्यजपादिलोपादल्पाद्विहीन- स्याल्पतरेति धर्मपीडाल्पत्वमहत्वापेक्षया आदिशब्दाज्जातदन्ताद्यपेक्षया चाशौचकालोऽपि व्यवस्थितविषय इत्यध्याहारेण योज्यम् । उभयत्र समविकल्पनाभ्रयणे कारणं पक्षयोरसाम्यं तावदाह - यस्य हीति । यस्तु विरोधं चापरं विकल्पानाश्रयणे कारणं दृष्टान्ते तावदाह— एकरात्र इति । दाष्ट्रान्तिकेऽप्याह—एवमिति । ननु योऽल्पेन कालेनाहं शुद्धः स्यामिति सङ्कल्पयति, तस्याल्पेन कालेन शुद्धिः बहुकालसङ्कल्पे तु बहुनेति परिग्रहव्यवस्थयाऽशौच- कालानामविरोधः । यश्चाहमक्रीतराजकस्य दीक्षितस्यान्नं न भोक्ष्य इति सङ्कल्पयति, तं प्रति तावत्कालम- भोज्यान्नता । पशुसंस्थावधिसङ्कल्पे तावत्कालीनेत्युभयत्रापि वस्तुविरोधपरिहारमाशङ्कते— स्यादेतदिति । यथा यः प्रागुदये-सूर्योदयोत्तरकालेऽग्निहोत्रं होष्यामीति सङ्कल्पयति, तं प्रत्युदयोत्तरकालोऽग्निहोत्राङ्गम् । यस्तूर्ध्वोदये सूर्योदयात्प्राक्काले होष्यामीति सङ्कल्पयति, तं प्रत्यसाविति परिग्राह्यव्यवस्थाय्रा प्रागूर्ध्वोदयोःकालयोरविरोधः तथैहापीत्यर्थः । प्रागूर्ध्वं चोदयो याभ्यामिति विग्रहः । सर्वेष्वपि वैकल्पिकेषु व्रीहियवादिषु परिग्रहव्यवस्थायै वाऽविरोध इति समविकल्पत्वाविघातः । आशङ्किता विकल्पे इमं परिहारं दूषयति—युक्तमिति । परिग्रहव्यवस्थया वस्तु- विरोधपरिहारो वाऽभिप्रेतः । अनुष्ठानविरोधपरिहारो वा । तत्र वस्तुस्वरूपस्य पुरुषेच्छा- धीनत्वान्न तद्वशेन वस्तुविरोधपरिहारः सम्भवति उदितानुदितहोमयोस्त्वनुष्ठानात्मकत्वा- द्वस्तुविरोधो नास्त्येनेन श्लोकेनोक्तम् । अथानुष्ठानविरोधपरिहारः परिग्रहव्यवस्थयानेन दृष्टान्तेनोच्यते । तदप्ययुक्तम् । पक्षद्वयस्य हि साम्ये सति पुरुषेच्छावशाद्विकल्पेनोभयानुष्ठानं युज्येत । दृष्टान्ते च पक्षद्वयसाम्यात्तद्युक्तमित्याह—न चेति । क्लेशः=शरीरायासः । क्षयो= न्यूनद्रव्यत्वम्, व्ययः=अत्यन्तनाशः । आदिशब्दात्तत्कालीनलौकिककार्यान्तरबाधः । दाष्ट्रान्तिके तु सिद्धे वस्तुनि सदसत्त्वविरोधस्यापरिहार्यत्वाद्विकल्पो—न सम्भवतीत्युक्तम् । न च दीर्घकालस्य परिग्रहः सम्भवत्याशौचावृद्धेर्निषिद्धत्वादित्याह—इह त्विति । न केवलं सदसत्त्वविरोधान्निवार्यते, किं त्वनेनापि मनुवचनेनेत्यपिशब्दार्थः । ननु दीक्षि- तान्नभोज्यत्वस्य दीर्घकालत्वनिषेधाभावात्परिग्रहव्यवस्थयाऽनुष्ठानविरोधपरिहारो भविष्य- तीत्याशङ्क्योभयत्राप्यल्पकालनिरोधेन कृतार्थस्य बहुकालनिरोधे प्रवृत्त्यसम्भवादीर्घकाल-
४ ] प्रथमाध्याये तृतीयपादः ३३५ वाक्ययोरानर्थक्यमेवापद्येतेत्याह — श्लेषेति । उभयत्रापि समविकल्पासम्भवमुपसंहरति — तेनेति । वस्तुविरोधात्पक्षयोश्चासाम्याद्विषयान्यत्वमेव विरोधपरिहाराय वाच्यं न तु विकल्पो युक्त इत्यर्थः । स चान्यो विषयो दृष्टान्ते दर्शित इत्याह — स चेति । ननु यस्यापि धर्मपीडा नास्ति, तस्याप्याशौचाद्वृद्धेर्निषिद्धत्वान्नेयं विषयव्यवस्था युक्तेत्याशङ्क्य, निषेधोऽपि तद्विषय एवेत्याह — तत्र चेति । धर्मपीडाद्यपेक्षयेत्यादिशब्दसूचितमाशौचकालानां व्यवस्थान्तरमाह — दन्तेति । आहि- ताग्न्यादिपाठाज्जातशब्दस्य परनिपातः । मानवीयानुजातपदस्यानुपश्चाज्जातमपत्यं यस्मादिति व्याख्यानार्थोऽन्यशब्दप्रक्षेपः । चितिक्रियाशब्दश्चतुरहोपलक्षणार्थः । चितिक्रियात्र्यहैकाहा ये विहिताः ते दन्तजातादिविषया इत्यर्थः । पारिशेष्याद्दशाहं कृतचूड़े चेति चकारसूचितो- पनीतविषयो ज्ञायते । कथमेषा व्यवस्था प्रतीयत इत्यपेक्षायां — क्रमादित्युकम् । दन्तजाता- दिषु संस्थितेष्वशुद्धा बान्धवा इत्युक्ते कस्मिन्संस्थिते कियन्तं कालमशुद्धेत्यपेक्षायां दशाहादीनामुक्तत्वात्स्मृत्यन्तरपर्यालोचनया प्रातिलोम्यक्रमेणेयं व्यवस्था प्रतीयत इत्यर्थः । अस्मिंश्च पक्षे वृद्धिनिषेधोऽप्येकशास्त्रगतत्वादेतद्विषय एवेत्याह — तत्र चेति । नन्वस्तु प्रातिलोम्यक्रमेणैकाहादीनां दन्तजातादिविषयत्वम्, धर्मपीडाल्पत्वविषयत्वे तु किं कारणं दक्षवचनाच्चाग्निवेदसमन्वितादिमात्रविषयत्वं प्रतीयते, न चाग्निवेदसमन्वितत्वं धर्मभूयिष्ठत्वेन नियतम् । दाम्भिकादौ व्यभिचारदर्शनादित्याशङ्क्य दक्षवचनस्य धर्मपीडा- विषयत्वद्योतनार्थं गौतमवचनमुदाहरति — तथेति । कार्यशब्दस्य धर्मविषयत्वात् तत्साह- चर्य्येण च स्वाध्यायशब्दस्यापि स्वाध्यायसाध्यजपादिधर्मविषयत्वप्रतीतेः तद्विघातार्थं सद्यः शौचं विदधताऽल्पाशौचस्य धर्मपीडापरिहारार्थत्वद्योतनान्महत्यामापद्यग्निवेदसाध्यकर्मा- नुष्ठानं विना प्रतीकारासम्भवेऽनुष्ठान्तराभावे वा तत्प्रतीकारार्थकर्मानुष्ठानमात्रविषया- शौचाभावप्रतिपादनपरम् 'एकाहाच्छुद्धयते विप्र' इति दक्षवचनं व्याख्येयमिति भावः । यथा अस्माभिर्दक्षवचनस्य धर्मपीडापरिहारार्थत्वाङ्गीकरणेनाल्पाशौचकालानां — तद्विष- यत्वमुक्तम् । गौतमेनापि तथोक्तं द्योतितमित्यर्थः । नन्वेवं सति तत्कालमात्राशौचाभावप्रतिपादनपरत्वेनोत्तरकालानुवृत्तेरनुज्ञातत्वाज्जा- तदन्तादिविषयाणां चाशौचकालानां भिन्नविषयत्वेन वृद्धेरप्रसक्तत्वान्निषेधो न युक्त इत्याशङ्क्य विषयान्तरमाह — अथ वेति । अन्तर्दशाहात्स्यातां चेत्पुनर्मरणजन्मनी । तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥ इति पूर्वाशौचसमाप्तावाशौचान्तरनिमित्तसन्निपात्ते पूर्वाशौचकालशेषेण मनुना शुद्धिमुक्त्वा, निमित्तावृतौ नैमित्तिकाशौचानावृत्तिर्न्यायेत्याशङ्कानिराकरणार्थं पूर्वाशौच- परिच्छेदार्थंप्रवृत्तेन दशाहादिना प्रसङ्गेनान्तः पतितस्याशौचान्तरस्यापि परिच्छेतुं शक्य- त्वादाशौचानावृत्तेर्न्याय्यत्वं न वर्द्धयेदघाहा नीतिनेनोक्तमिति भावः ।
३३६ मीमांसादर्शनम् [ सू०
एतदेव विवृणोति—न वर्द्धयेदिति । प्रसङ्गन्यायमात्रं योजयति—प्रवृत्त इति । नन्वसमासेनापि दशरात्राद्यवधिना शौचान्तरस्यैकदेशवर्तिनः कथं व्याप्तिरित्याशङ्क्याह— वितत्येति । नात्राशौचाशौचपरिच्छेदकत्वं किं तु संख्यायाः । तस्याश्च व्यासज्यवृत्तित्वेना- न्येऽहन्युपजायमानायास्तत्कालवर्तित्वाविशेषात्पूर्वोपरिभूतानेकाशौचापरिच्छेदकत्वमवि - रुद्धमित्याशयः । नन्वेवं तर्हि पूर्वाशौचकालशेषेण तदन्तःपात्याशौचान्तरनिवृत्तेर्न्यायसिद्धत्वाद्द्वचनान्तरा- दर्थक्यं स्यादित्याशङ्क्याह—शुद्धीति । अयमाशयः । शब्दैकसमधिगम्योऽर्थो न स न्यायस्य विषयः तथा सत्यपेक्षाबुद्धिहेतुकत्वेनैकत्वातिरिक्तसंख्यायाः संख्येयाहर्विशेषसमूहापेक्षत्वात्तस्य च जातमृतबन्धुभेदेन जन्ममरणावधिभेदेन भेदाज्जन्ममरणसामान्यविविक्षायां शावेन सूतिशुद्धेरसम्भवादाशौचनिमित्तसामान्यविवक्षायां सूत्यापि शावशुद्ध्यापत्तेः । यत्तु न वर्द्धयेदघाहानीत्यनेन शेषाद्दः शुद्धेर्न्यायमूलत्वदर्शनं तच्छुद्धिप्रतीक्षि जातेष्टि- मासिकादिमात्रविषयशेषमुद्धृत्यभिधानशङ्कानिवृत्त्यर्थमिति । नन्वेवं तर्ह्याशौचकालवृद्धौ दीक्षि- तान्नकालयोरपि व्यवस्थैवास्तु, व्यवस्थितः कल्पो-द्विकल्प इति तु व्युत्पत्त्या व्यवस्थामेव विकल्पशब्देनाभिप्रेत्याशौचच्छेदकालवदित्युक्तमित्याशङ्क्याह—नन्वेवमिति । अस्मिन्विषये अयमवधिरिति विषयव्यवस्थितोऽवधिर्विषयावधिरिति मध्यमपदलोपी समासः । तस्य कारणं विषयविशेषावधिव्यवस्थापकं कारणं भोजनान्वयेऽप्यवधेर्नित्यमव्यसापेक्षत्वात्कारणशब्द- समासाविघातः । तस्माद्दार्ष्टान्तिके विकल्पव्यवस्थयोर्द्वयोरप्यसम्भवाद्विरोधपरिहाराशक्ते- र्दीर्घावधेश्चात्रावधिबाधं विनात्मलाभायोगादल्पावधेर्वाध इत्याशङ्किता स्वाभिप्रेतसिद्धमु- पसंहरति - तत्रेति । एवमाशङ्किते विरोधपरिहारवादी स्वाभिप्रायं प्रकटयति — तस्मादिति । यस्मादल्पा- वधेरपि वैदिकत्वात् बाधो न युक्तः । तस्मादशौचच्छेदकालवदिहापि भोजनावधिद्वये वैषम्यस्य व्यवस्थाया हेतुर्विषयभेदो वाच्यः, न तु कस्यचिद् बाध इत्यर्थः । कीदृशो विषय- भेदे इत्यपेक्षायामाह — अत्रापीति । अनापद्यपि वा दीक्षितनियुक्तपुरुषान्तरदत्तान्नस्य राजक्रयोत्तरकालं भोज्यत्वमिति परिहारान्तरम् दीक्षिते वेत्युक्तम् । अत्र सत्रिणो हि अन्यैः प्रदापयेदन्नं भोज्यं तद्द्विजसत्तमैरिति स्मृतिपर्यालोचनया सूतकादसन्निपात- भयान्मासादपर्याप्तं ब्राह्मणभोजनार्थमन्नमङ्गकल्प्य, अन्यमन्नं दानाय नियुञ्जते । अग्नीषोमी- योत्तरकालं तु दीक्षितदत्तान्नभोजनमप्यदुष्टमित्याशयः । एतच्च परिहारान्तरं दीक्षितो न ददातीति निषेधेन अग्नीषोमीयोत्तरकालमपि दीक्षितस्यान्नदानायोगादापातप्रतिभानमात्रेणा- पारमार्थिकमेवोक्तमित्यपिशब्देन सूचितम् । नन्वन्नान्तरासम्भवेऽपि निषिद्धान्नभोजनं न कार्यमित्याशङ्क्याह—आपद्धर्मइति । ननु करिष्यमाणप्रायश्चित्तबलेनापत्कालेऽप्यनुष्ठितस्य निषिद्धस्य निर्दोषत्वाभावादनुज्ञाशास्त्रमप्रमाणमित्याशङ्कते—हन्तैवमिति । आपद्यपि निषिद्धानुष्ठानस्य दोषत्वोपपादनायेतिहासमुदाहरति—जग्धवानिति । स च प्राप्तवानिति-
४ ] प्रथमाध्याये तृतीयपादः ३३७ शेषः। श्वमांसभक्षणस्याननुज्ञानात्स दोषत्वं क्रीतराजकान्नभोजनस्य त्वनुज्ञानान्निर्दोषत्वमिति परिहरति—उच्यतइति । विशेषरूपेणानुज्ञानस्यात्यन्तनिर्दोषत्वसूचनार्थम्—महानित्युक्तम् । नन्वापत्काले निषिद्धान्नभोजनस्य । जीवनात्ययमापन्नो योऽन्नमत्ति यतस्ततः । आकाश इव पङ्केन न स पापेन लिप्यते ॥ इति सामान्येन मनुनानुज्ञातत्वाद्दिशेषानुज्ञानार्थिकेत्याशङ्कयाह—सामान्येनेति । अनुज्ञासाफल्यप्रदर्शनार्थः स्तोकशब्दः । सामान्यानुज्ञातानुष्ठानस्य अल्पदोषत्वं कथमव- गम्यत इत्यपेक्षायामाह—तथा चेति । विशेषानुज्ञातादन्येषां निषिद्धानां पापत्वेऽपि तानि शेषान्यल्पानीति, अल्पवाची शेषशब्दः । अन्ते शौचं भविष्यतीत्यापद्धर्मगतं प्रत्युक्त- मितीतिकरणाध्याहारेण योज्यम् । मनुवचनमुदाहरति—कर्मणेति । ननु कथं धर्ममाचरे- दित्यस्य शौचविधानार्थताऽवसीयत इत्यपेक्षायामाह—धर्मश्चेति । फलार्थस्य धर्मस्य वाक्यान्तरविहितत्वेन विध्यानर्थक्यात्, आपत्कालीनस्य वा कार्यकारणस्य निर्दोषत्वे धर्माधिकारनिवर्तकत्वायोगात्प्रतिप्रसवार्थमपि विध्यनुपपत्तेः, सदोषत्वे वा प्रायश्चित्तं विना धर्माधिकाराभावात्प्रायश्चित्तविधानार्थमेवेदं वचनमिति भावः । अतो विशेषानु- ज्ञानस्यात्यन्तनिर्दोषत्वज्ञापनार्थत्वान्नानर्थक्यमित्युपसंहरति—यत्त्विति । ननु क्रीतराजकान्न- भोजनस्यात्यन्तनिर्दोषत्वे द्वितीयोऽवधिरनर्थकः स्यादित्याशङ्कयानापदि सदोषत्वात्त- द्विषयोऽसाविति दर्शयितुमाह—तत्रापि त्विति । एवमाशौचच्छेदकालवदापदनपद्विषय- त्वेनावधिद्वयस्य व्यवस्थामुपपाद्याऽशौचकालानां जातदन्तादिविषयत्वपक्षे तत्साम्यार्थम्, अन्यथा व्यवस्थामाह—यदि वेति । कालवैषम्यातसमविकल्पत्वाभावेऽप्यविरोधोऽवधार्यते इति अपि शब्दाध्याहारेण योज्यम् । कथमित्यपेक्षायाम्—अर्थभेदव्यवस्थानादित्युक्तम् । तस्मा- द्दीक्षितस्याविज्ञातस्य क्रीतराजकस्याभोज्यं भवतीत्याथर्वणैदिकस्य दीक्षितान्नभोजननिषेधोऽर्थः तस्य तस्माद्दीक्षितस्य विज्ञातस्य क्रीतराजकस्य भोज्यं भवतीत्याथर्वणैदिकोऽवधिर्न दीक्षि- तस्याश्नीयादिति त्रयीगतस्याभोजनसङ्कल्पविधिरर्थः । तस्य त्रयीगतोऽवधिरिति त्रय्यथर्व- वेदगतयोर्वाक्ययोरर्थभेदेन तद्विषयतया विधिद्वयस्य व्यवस्थानादविरोध इत्यर्थः । अर्थभेदं दर्शयति—दीक्षितान्नमिति । नित्यत्वप्रदर्शनार्थम्—ध्रुवमित्युक्तम् । न भोक्ष्य इति भोजन- विषयो मनोव्यापारः सङ्कल्पो विधीयत इत्यर्थः । नन्वभोजननियमस्यापि भोजननिषेधार्थत्वात्तत्करणे दोषापत्तेः क्रीतराजकस्याप्य- भोज्यान्नत्वं स्यादित्याशङ्क्य, फलार्थं वर्जनीयस्यानुष्ठानं न दोषापादकमिति दर्शयितुं दृष्टान्तद्वयमाह—यथैवेति । श्राद्धभोजन-मांसभक्षणयोरपि निषिद्धत्वेन दोषवत्त्वात्साध्य- विकलत्वाशङ्कानिराकरणार्थम्—न सर्वत्र निषिध्यत इत्युक्तम् । क्व निषिद्धता, क्व वा नेति विवेकापेक्षायामाह—श्राद्धमिति । सदेति सपिण्डीकरणात्प्रागूर्ध्वं चेत्यर्थः । सपिण्डीकरणो- त्तरकालमप्येकोद्दिष्टमप्यन्येषां स्मर्तॄणां मतेनानिषिद्धमिति द्योतनाय—एकेषामित्युक्तम् । २३
१५८ : मीमांसादर्शनम् [ १० प्रेतत्वनिवृत्त्या पितृत्वप्राप्त्यर्थात्सपिण्डीकरणात्प्राक् पार्वणस्याविधानेन सपिण्डीकरणा- न्तरभाविपार्वणश्राद्धस्यैत्यादिप्रेतश्राद्धस्यामावास्यापितृयज्ञशब्देनाभिधानम् । मांसभक्षणेऽपि विवेकमाह—तथेति । एतदेव मनुवचनेन द्रढयति—यथाहति । श्राद्धभोजनमांसभक्षणाभ्यां दीक्षितान्नभोजनस्य वैषम्यमाशङ्कते—ननु चेति । निःश्रेयसेन कारणेन प्रयोजनेनेति चतुर्थ्यर्थे तृतीया—निःश्रेयसार्थं नियमयतीत्यर्थः । 'न दीक्षितस्या- श्नीयादि'त्यस्यान्यैवैदिकवच्छ्रुतशब्दसामानाधिकरण्यविकल्पप्रसक्तिरूपपर्युदासकारणाभा- न्निषेधार्थत्वप्रतीत्यविशेषेण स्वरूपभेदेऽप्यर्थकत्वमभिप्रेत्य वाक्यैकत्वाभिधानम् । अन्यत्राव्युत्पादितमप्यवधिद्वयान्यथानुपपत्तेः पर्युदासकारणत्वं न्यायोपेतत्वादिहाङ्गी- कार्यमित्यभिप्रायेण परिहरति—स्यादिति । प्रत्यक्षस्यापि वाक्यद्वयस्याभिन्नार्थत्वं न्याय- कल्पमभिप्रेत्य—कल्पितमित्युक्तम् । कथमवधिद्वयेन भिन्नार्थकत्वकल्पनेत्यपेक्षायामाह— यः पूर्व इति । यः प्रतिषेधः, स क्रीतराजके स्थितो निवृत्तः । कथं निवृत्ततावसीयत इत्यपेक्षिते—पूर्वं इत्युक्तम् । अक्रीतराजकस्येति । क्रयप्राग्भावावगममात्रप्रतिषेधस्योत्तरकालं व्यापाराभाव इत्यर्थः । ततश्च तस्य केवलप्राग्भावित्वेनैकरूपत्वाद्वितीयोऽवधिर्नविकल्पत इत्येकत्वादित्यनेनोक्तम् । यदि ह्यसौ प्रतिषेधो राजक्रयात्प्रागुत्तरकालं च व्याप्रियेत ततस्तस्यैवापदनाद्विषययत्वेनाऽवधिद्वयमवकल्पेत । अतोऽन्यथानुपपत्त्यायंवैदिकादन्यस्य त्रयीगतस्य पर्युदासार्थत्वं कल्पनीयमित्याह - द्वितीयेति । नन्वभोजनविधित्वेऽपि तत्र काल- विशेषाश्रवणात् क्रीते त्वभोजनं नामेति निष्प्रमाणमित्याशङ्क्य—अथान्तरालिक इत्युक्तम् । निषेधेनैव प्राग्वर्जनसिद्धेः पर्युदासानर्थक्याद्राजक्रयाग्नीषोमीयान्तरालकालविशेषवत्त्वमपि निश्चीयत इति भावः । दृष्टान्तं विवृणोति—यथेति । "देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ता- भ्यामग्नये जुष्टं निर्वपामी"ति निर्वापमन्त्रे सवित्रादिपूषशब्दानामसभवेतदेवताप्रकाशनार्थ- त्वायोगादन्यदेवत्यायां विकृतावन्नूहे प्रतिपादिते, किमर्थंस्तर्हि सवित्रादिशब्दप्रयोग इत्याशङ्क्य सवित्रादिशब्दानां यजमानपरत्वात्प्रसवशब्दस्य चानुज्ञार्थत्वाद्यजमानानुज्ञाप्रकाशनार्थत्वे- ऽभिहिते, यजमानबहुत्वे तर्ह्यूहो भविष्यतीत्याशङ्क्य पूर्वानुज्ञातत्वेनेदानीं तत्प्रकाशनार्थं- क्यान्निर्वापस्तुत्यर्थत्वेन तत्प्रकाशनस्य परार्थ्याद्यज्ञपतिशब्दवदनूह इति निगमसिद्धो दृष्टान्तः । ननु निर्वापकालेऽपि यजमानहविर्निर्वप्स्यामीत्याध्वर्युणानुज्ञायां पृष्टायामों निर्वपेति यजमानेनानुज्ञानात्तदनुसन्धानार्थं निर्वापमन्त्रे प्रकाशनं भविष्यतीत्याशङ्का- निरासार्थं—तदानीन्तनेत्युक्तम् । पूर्वमेवानुज्ञातत्वान्न निर्वापस्तुत्यर्थमिति भावः । दार्ष्टान्तिके योजयति—तथेहेति । उभयथापि सम्भवे तर्हि कथं पर्युदासत्वावधारणेत्या- शङ्क्य 'न होतारं वृणीत' इति तद्विकल्पप्रसक्त्यैव पर्युदासत्वावधारणमाह—प्रति- षिद्धेति । क्रयोत्तरकालमर्थप्राप्तदीक्षितान्नभोजनप्रतिषेधे पूर्वं प्रतिषेधगतस्याक्रीतराजकस्येति विशेषणस्यानर्थक्यापत्तेः शास्त्रानुज्ञातप्रतिषेधस्याभ्युपगमनीयत्वाद्विकल्पप्रसक्तिरित्यर्थः ।
४] प्रथमाध्याये तृतीयपादः ३३२ उपसंहरति-दीक्षितान्नेति । ननु माभूदनुज्ञाग्नीषोमीयोत्तरकालं दीक्षितान्नभोजनस्य विधिरयं भविष्यतीत्याशङ्क्य, दृष्टार्थस्यादृष्टार्थत्वयोगाद्विशिष्टविधौ च गौरवापत्तेः फला- श्रवणात्प्रकृताश्रयालाभादनेकगुणोपादानाच्च फले गुणविध्ययोगाद्विधित्वं न युक्तमित्याह- अदृष्टार्थेति । 'न दीक्षितस्याश्नीयादित्यस्य त्वदृष्टार्थतोभयसाधारण्याददूषणम् । द्वितीया- नुपपत्त्या च पर्युदासत्वं न्याय्यमेवेति भावः । कोऽनयोः पक्षयोर्मध्ये सम्मत इत्यपेक्षाया- मापद्विषयत्वेऽनुकल्पत्वेन स्वरसावगततुल्यकल्पत्वबाधापत्तेरयंवैदिकस्य च निषेधस्यावध्य- नपेक्षत्वेन तस्माद्दीक्षितस्य विज्ञातस्य क्रीतराजकस्य भोज्यं भवतीत्यस्यावधिसमर्थकत्वा- योगाच्छ्रेयोऽर्थमयं यजते न प्रायश्चित्तार्थमित्येवं विज्ञातस्य क्रीतराजकस्यानमदुष्टमेवेत्यव- ध्यन्तरदर्शनजनितदोषशङ्कानिराकरणार्थत्वप्रतीतेर्द्वितीयस्य पक्षस्य सम्मतत्वं दर्शयितु- माह- एवमिति । ऐतरेयब्राह्मणगतस्य त्वशितव्यं वपायां हुतायामित्यस्याग्निषोमीयसंस्था- वधिवाक्यवत्पर्युदस्तदीक्षितान्नभोजनानुज्ञानार्थत्वेऽपि बह्वल्पफलगुरुलघुकल्पत्वेनावधिद्वय- व्यवस्थानादविरोध इत्येवंशब्देन सूचितम् । पर्युदस्तानुज्ञानार्थत्वसाम्येन चैतदवधिद्वयमेकी- कृत्यावधिद्वयोपन्यासः । अष्टाचत्वारिंशद्वर्षं ब्रह्मचर्यंस्मृत्युदाहरणमपि दूषयति- अष्टेति । स्मार्त्तत्वेन तुल्यत्वाद्विकल्पेनाविरोधं वक्तुं - स्मृतावित्येत्युक्तम् । स्मार्त्तत्वाविशेषेऽपि पक्षाणामसाम्याद्वि- कल्पानुपपत्तेरपरितोषाद्विषयव्यवस्थां वक्तुमाश्रयान्तरेत्युक्तमिति विवेकः । कीदृशानि पक्षान्तराणीत्यपेक्षिते मनुवचनं तावदुदाहरति - तथा हीति । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेदित्युत्तराद्धंम् । तत्र द्वेधा विषयव्यवस्थामाह-सामर्थ्येति । योऽल्पेन कालेन बहून्वेदानध्येतुं समर्थः तं प्रति बहुवेदपक्षः, असमर्थं प्रत्यल्पवेदपक्ष इति सामर्थ्यमङ्गी- कृत्यागार्हस्थ्याश्रमायोग्यं प्रति बहुवेदपक्षः तद्योग्यं प्रत्यल्पवेदपक्ष इत्याश्रमयोग्यत्वमङ्गो कृत्यापेक्ष्यैतन्मनुनोच्यत इत्यर्थः । 'इह षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् । तदर्द्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥' इति मनुनेवोक्तत्वात् ग्रहणान्तिकपक्षे सामर्थ्यापेक्षा । वर्षसंख्यापक्षे त्वाश्रमयोग्यत्वा- पेक्षेति विवेकोऽवसीयते । अष्टाचत्वारिंशद्वर्षब्रह्मचर्यंस्मर्त्रा गौतमेनापि पक्षान्तरमुक्तमित्याह- गौतमे- नापीति । तत्राप्यष्टाचत्वारिंशत्पक्षो गार्हस्थ्याश्रमायोग्यविषय इत्याह - तत्रैवमिति । नन्वाश्रमान्तरं तान्प्रति कस्मान्न विधीयत इत्याशङ्क्य, तेषां बहुक्लेशत्वादविरक्तानधिकारा- च्चाल्पक्लेशबहुफलोपकुर्वाणकत्वेनैव बहुकालक्षपणायैतद्विधानमित्याह-नैष्ठिकेति । उपकुर्वाणकः-अध्ययनार्थं गुरुकुलवासी ब्रह्मचारिविशेषः । गमिष्यतीत्येतदुच्यत इत्यन्वयः । स्वाध्यायमात्रेणेष्टगतिप्राप्त्युपपादनाथं द्वैपायनवचनमुदाहरति-द्वैपायनादयश्चाहुरिति । ब्रह्मयज्ञफलातिशयोपयोगितापि स्वाध्यायतदर्थज्ञानभूयस्त्वस्यास्तीत्याह-यानि चेति ।
३४० मीमांसादर्शनम् [ सू० प्रतिदिनं प्रतिदिनं प्रयुज्यमानैर्ऋगादिभिर्यो ब्रह्मयज्ञः तन्निमित्तानि यानि यं यं क्रतुमधीयते तस्य तस्याप्नुयात्फलमिति क्रतुसाध्यानि फलानि क्रत्वधिकृतेभ्यो गृहस्थवानप्रस्थेभ्यो निवृत्तत्वादनधिकृतविषयत्वेनावतिष्ठन्त इत्यर्थः । ब्रह्मयज्ञस्याग्निहोत्रादिवन्नित्यकाम्योभय- रूपत्वाद्यथायोगं व्यवस्था न विरुद्धेत्याशयः । द्वादशवर्षपक्षोऽपि गौतमीयेनैव शीघ्रवेदग्रहणसमर्थविषयेण ग्रहणान्तं वेति पक्षान्तर- स्मरणेन स्वविषयाद्ब्यावर्त्तितत्वान्न सर्वगृहस्थविषय इत्याह-यो वेति । वाशब्दोऽष्टा- चत्वारिंशत्पक्षविषयः । पूर्वपक्षीकृतौ स्वविषयाद्व्यावर्त्तितावित्यर्थः । उपसंहरति - इतीति । भाष्यमङ्गमुपसंहरति-तेनेति । स्वयं द्वेधा सूत्रद्वयं व्याचष्टे - तेनात्रेति । ननु न्यायनिष्ठत्वान्मीमांसायाः प्रयोगनिरूपणमयुक्तमित्याशङ्क्य प्रयोगार्थत्वादाश्रयस्य तत्साम्येऽपि, यत्र प्रयोगवैषम्यम्, तत्र तन्निरूपणीयमित्याह - एतद्धीति । किं प्रतिपाद्यत इत्यपेक्षयामाह- यावदिति । ननूभयोः प्रामाण्ये, कथं नियमेनैकार्थानुष्ठानमित्याशङ्कयाह - व्रीहीति । व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेत यवेभ्यो यवैरिष्ट्वा यवैरेव यजेत व्रीहिभ्य इत्याग्रयणेऽवधि- व्यवस्थया व्रीहियवव्यवस्थाविधानदग्निहोत्री वै नानादयित्वात्तस्याः पयसा जुहुयादित्येतत्पक्षा- श्रयणाविषयोऽन्ययो यावज्जीवशब्द इति प्रागेवोपपादितम् । श्रुत्या सह तुल्या कक्षा यस्याः सा तथोक्ता । अनुष्ठाननियमे कारणमाह - यानीति । वेदवचनस्य विश्रम्भणीयत्वं वदता स्मृतेर्यथाश्रुतमूलानिश्चयेनाविश्रम्भणीयताऽर्थादुक्ता । कथमस्मिन्नर्थे सूत्रं योज्यमित्याशङ्कयाह - सूत्रार्थोऽपि चेति । यकाररहितः पूर्वपाठः । तत्सहितो द्वितीयः तावच्छब्दाध्याहारे कारणमाह-तदानीन्तनेति । तावत्कालीनव्यवहार- प्रतिपादनार्थत्वाङ्गीकरणे प्रयोजनमाह -ततश्चेति । आशङ्काशब्दो यथाश्रुतमूलानिश्चया- भिप्रायः । मात्रशब्दव्यावर्त्यमाह - यदा त्विति । ननु प्रामाण्यस्य तुल्यत्वेऽपि केनचिद्विशेषेणैकार्थादरे भिन्नशाखागतयोरुदितादिश्रुत्योरपि पठितत्वविशेषेणैकार्थादरापत्तेः एव प्रातरूपोदयम्, व्युषिते, उदिते वेत्याश्वलायनस्य समवि- कल्पाभिधानं विरुद्धयेतेत्याशङ्कते- नन्विति । स्मृतेर्विध्याक्षेपकमन्त्रार्थवादमूलत्वस्यापि सम्भवान् नैकस्यै बहवः सह पतय इत्यर्थवादाक्षिप्तस्य च निषेधविधेर्नेका बहून्पतीन्विन्देतेति श्रुतिनिषेधविध्यनुसारेणाविवक्षितसाहित्यनानेकपतिमात्रनिषेधपरतया व्याख्यानदर्शनादुच्चा दिवि दक्षिणावन्तो अस्त्वर्ये अश्वदाः सहते सूर्येणेति मन्त्राक्षिप्तस्य चाश्वदानफलविधेर्न केसरिणो ददातीति श्रुतनिषेधानुसारेण साक्षाद्विहिताश्वदानविषयत्वेन व्याख्यानदर्शनात्तन्मू- लानां स्मृतीनां प्रत्यक्षश्रुत्यनुसारेणान्यथाव्याख्यानसम्भवात्प्रत्यक्षमूलादर्शने यथाश्रुतमूलानि- श्चयादनादरो न वैलक्षण्यमात्रमित्यभिप्रायेण परिहरति-सत्यमिति । अभिप्रायं विवृणोति -- अतश्चेति । विप्रलम्भमूलत्वाभावावान्नात्यन्तबाध्यत्वं यथाश्रुतमूलानिश्चयाच्च नात्यन्ततुल्य- तेत्यर्थः । एवं च वदता यथाश्रुतमूलानिश्चयाभिप्रायेणाऽसति ह्यनुमानमिति सूत्रावयवस्य हेतुदर्शनसूत्रस्य च यथाश्रुतमूलत्वनिश्चयानिश्चयरूपविशेषस्यात्यन्तातुल्यत्वहेतोर्दर्शनादित्येवं
४ ] प्रथमाध्याये तृतीयपादः ३४१ व्याख्या सूचिता । भाष्यं च यथाश्रुतार्थप्रामाण्याभावाभिप्रायत्वेन समाहितम् । उदाहरण- भाष्यमप्यदृष्टमूलाव्यस्थास्मृतिविषयत्वेन नेतव्यमिति सर्वमदुष्टम् । इति वार्तिकमतेन प्रथमाधिकरणाशयः अथ द्वितीयव्याख्यानम् द्वितीयव्याख्यानं प्रपञ्चयति—यद्वेति । यान्येतानि सांख्यादिपरिगृहीतानि तैर्विपरीत- गृहीतयोर्धर्माधर्मयोर्निबन्धनानि यानि च बाह्यान्तराणि म्लेच्छाचारस्य बहुसमाहृतैकदेश- मिश्रान्नभोजनाचरणस्य निबन्धनानि तेषामेवैतदनपेक्षणीयत्वं प्रतिपाद्यत इत्यन्वयः । न च तदप्रामण्याङ्गीकरणे पूर्वोक्तमर्यादातिक्रमादिदोषापत्तिः, शिष्टत्रैवर्णिकपरिग्रहादरस्य स्मृति- प्रामाण्यहेतोस्तेष्वसम्भवादिति त्रयीविद्विद्नं परिगृहीतानीत्यनेनोक्तम् । त्रयीवित्परिग्रहा- भावेऽप्यहिंसासत्यवचनादिवाक्येषु वेदमूलत्वदर्शनेन वाक्यान्तरेष्वपि वेदमूलत्वानुमानसम्भ- वात्कथमप्रामाण्यमित्याशङ्क्य किञ्चित्रयीमिश्रस्य धर्मकञ्चुकस्य छायायां पतितानीत्युक्तम् । यथा नर्त्तकी स्वाङ्गवैकल्यं कञ्चुकेन छादयति, तथा लोकवञ्चनार्थं चैत्यवन्दनादिवाक्यानां मिथ्यात्वं छादयितुं क्वचिद्वेदमूलार्थाभिधानं न सर्वत्र तथात्वानुमानायालमित्याशयः । किं तेषां लोकवचनं प्रयोजनमित्यपेक्षायां लोकोपसंग्रहादिप्रयोजनपरत्वमुक्तम् । कस्मात्पुनः क्व- चिद्वेदमूलत्वदर्शनेनान्यत्र तथात्वानुमानं न सम्भवतीत्याशङ्कानिराकरणार्थं—त्रयीत्युक्तम् । त्रय्यप्रामाण्यापादकत्वात्तद्विपरीतेनात एवात्मूलत्वात्तदसम्बद्धेन दृष्टशोभाभिप्रायेण तत्प्रधानेन तन्मूलेनोपनिबद्धानीत्यर्थः, प्रत्यक्षादिमूलत्वस्य प्रागेव निरस्तत्वात् प्रत्यक्षाभा- मासेष्वेव परमिमानात्प्रत्यक्षादिशब्दप्रयोगः । एवं तर्हि प्रामाण्याशङ्कानुपपत्तेस्तन्निराकरणमयुक्तमित्याशङ्क्य—विषचिकित्सेति । पूर्वपक्षबोजमुक्तम् विषचिकित्सादिसमर्थानां कतिपयमन्त्रौषधीनां या कादाचित्कासिद्धिः तन्निदर्शनबलेन जीविकाप्रधानस्यार्थान्तरस्योपदेशकानीत्यर्थः । ननु विषचिकित्सादिदृष्टान्तेन प्रामाण्याध्यवसाने जीविकाप्राधान्याच्चानुष्ठानादरे सत्यपि धर्मत्वाध्यवसाने किं कारण- मित्याशङ्क्य—अहिंसादिस्तोकार्थगन्धवासितत्वमुक्तम् । ननु प्रत्यक्षादीनां धर्मप्रामाण्य- निराकरणेन प्रत्यक्षसूत्र एव तन्मूलानां बाह्यस्मृतीनां प्रामाण्यस्य निराकृतत्वात्पुनरुक्त- मेतत्स्यानित्याशङ्क्याह—न चैतावंत । वेदमूलत्वं पूर्वमनिराकृतम् । इह निराकार्य- मित्याशयः । ननु वेदमूलत्वस्य परेनानङ्गीकृतत्वेन तन्निराकरणमतिप्रसिद्धत्वान्न कार्यमित्या- शङ्कयाह—न चेति । मीमांसकातिरिक्तेः सामवायिकार्थप्रतीत्यभ्युपगमेन कस्मिंश्चिच्छब्दे वाचकत्वानङ्गोकरणाद् गव्यादिशब्दवाचकत्वस्य परैरनङ्गीकृतस्यापि निराकरणं लोके वाचकविवेकस्याप्रसिद्धत्वादथाद्युक्तम्; नैवं बाह्यस्मृतीनां वेदमूलत्वनिराकरणं युक्तमति- प्रसिद्धत्वादिति वैधम्यं दृष्टान्तः ।
सूत्रेण सिद्धान्तमाह—अत आहेति । ननु पारतन्त्र्ये सति विरोधे मूलानुमानासम्भवे-
३४२ मीमांसादर्शनम् [ सू० यद्वा यथा गाव्यादिशब्दानामवाचकत्वे प्रामाण्यस्यातिप्रसिद्धत्वादनादरे लौकिकानां वाचकावाचकेषु समदृष्टित्वापत्तेस्तत्कथनं साधुशब्दाधिकरणे करिष्यते, तथा बाह्यत्वधर्मा- धर्मनिबन्धनाप्रामाण्यस्याप्यतिप्रसिद्धत्वादनादरेणाकथने लौकिकानां मन्वादिनिबन्धनेषु बाह्येषु च समदृष्टित्वापत्तेस्तत्कथनीयमित्युत्तरशेषः साधर्म्यदृष्टान्तः । यद्वा शोभादिविशेषवशेन कलिकालवशेन वाऽधर्मप्राबल्याद् बाह्येष्वेव श्रद्धाविशेषा- पत्तेः श्रौतस्मार्त्तार्थस्यैव त्यागः प्रसज्येतेत्याह—शोभेति । सन्तु वा लौकिकाः परीक्षकाणा- मपि सम्भवद्वेदसंयोगत्रैवर्णिकप्रणीतत्वाविशेषात्समदृष्टित्वापत्तिरित्याह—ब्राह्मणेति । बाह्य- स्मृत्यप्रामाण्यस्यावश्यप्रतिपाद्यतामुपसंहरति—तेनेति । पूर्वपक्षमाह—महाजनेति । (आदिपदेनानुपलब्धिविरोधपरिहाराय मूलश्रुतेरपि द्वीपा- न्तरवर्तित्वमुपादीयते) ननु विरोधे का गतिरित्याशङ्कयाह—तत्रेति । विरोधेऽप्युक्तेन न्यायेन मूलश्रुत्यनुमानाविघाताद्व्यवस्था विकल्पो वा भविष्यतीत्याशयः । मूलानुमानस्य चानुपलब्धिविरोधः । प्रत्यक्षश्रुतिमूलत्वपक्षे तु विरोधशङ्कव नास्तीत्याह—यैश्चेति । अस्मिन्पक्षे यस्मै यद्रोचते तत्प्रमाणीकुर्यादिति पूर्वोक्तं दूषणं परिहरन्नुपसंहरति-ततश्चेति । सूत्रेण सिद्धान्तमाह—अत आहेति । ननु पारतन्त्र्ये सति विरोधे मूलानुमानासम्भवे- नानपेक्षत्वं स्यात्, वेदवत्तु स्वातन्त्र्यसम्भवे मूलानुमानासम्भवेऽपि न किंचिद् दूष्यतीत्या- शङ्कयाह—पारतन्त्र्यं तावदिति । अतो वेदमूलत्वमात्रं निराकार्यम् । तच्चापसिद्धान्तापत्ते- बौद्धादिभिर्वक्तुं न शक्यत इत्याह—वेदमूलत्वं पुनरिति । यदि तु तावदेकदेशी कश्चिदभ्यु- पगच्छेत् तं प्रत्यनेन सूत्रेण निराकरोति -अन्यच्चेति । वेदविरुद्धस्यापि मन्वादिवाक्यस्य वेद- मूलत्वाभ्युपगमान्न तेन वेदमूलत्वं निराकर्त्तुं शक्यमित्याशङ्क्य समस्तविद्यास्थानविरुद्धत्व- मुक्तम् । ग्रन्थकाराणां वा अनेन सूत्रेण वेदविरोधोऽभिधीयत इत्याह —त्रयीमार्गेति । वेद- विरुद्धाचरणानां तन्मूलोपदेशानुपपत्त्या वेदमूलानुमानस्य बाध इत्याशयः । वेदविरोधिभ्यश्च सम्पर्कं वेदविरोधिनां वेदमूलोपदेशपरिग्रहानुपपत्तेर्वेदमूलानुमानस्य बाधकमित्याह— त्रयी बाह्येभ्यश्चेति । चतुर्थवर्णः शूद्रः । निरवसितः वर्णाश्रमाचाररहितः । परिग्रही- तॄणामपि वेदविरोधो वेदमूलानुमानस्य बाधकोऽनेन ग्रन्थेनोक्तो भवति । आत्मविरुद्धा- चरितृत्वेन च शाक्यादेर्लोकहितैषित्त्वस्य दूरनिरस्तत्वात्तदुपदेशस्य प्रमाणमूलत्वानुमानं न युक्तमित्याह—स्वधर्मेति । एतदेवाभियुक्तवचनेन द्रढयति—उक्तं चेति । मनोस्तु क्षत्रिय- स्यापि प्रवर्त्तकत्वे 'यद्वै किंचिन्मनुरवदत्तद्भेषजमिति वेदानुज्ञातत्वादविरुद्धमित्याशयः । स्वधर्मातिक्रम एवालङ्काराभिमानादत्यन्तमूढत्वं प्रतीयत इत्याह — बुद्धादेः पुनरिति । तद्ग्रन्थपरिग्रहीतॄणामपि' न शूद्राय मतिं दद्यादित्यादिप्रतिषेधातिक्रमसामर्थ्येन ब्राह्मण- निन्दाम् तत्कारित्वेन च शाक्यस्तुतिं कुर्वतामत्यन्तमूढत्वमाह—स किलेति । तद्ग्रन्थ- विहिताचरितॄणां च वेदविरोधो वेदमूलत्वस्य बाधक इत्याह—तदनुशिष्टेति । षट्स्वप्यर्थेषु सूत्रं योजयति—तेनेति । बाह्यग्रन्थजातं वेदविरोधादनपेक्ष्यमिति- प्रथमव्याख्यानेऽर्थः । ग्रन्थकारिणां वेदविरोधात्तत्कृतं ग्रन्थजातमनपेक्ष्यमिति द्वितीये परि-
४ | प्रथमाध्याये तृतीयपादः १४३ ग्रहीतॄणां वेदविरोधात्तेभ्यः समर्पकाणां ग्रन्थकारिणां सम्बन्धिग्रन्थजातमपेक्ष्यमिति तृतीये परिग्रहीतॄणां वेदविरोधात्त्परिगृहीतं ग्रन्थजातमनपेक्ष्यमित्यर्थोक्ते चतुर्थे । ग्रन्थकारिणा- मात्मविरुद्धाचरितृत्वात्तत्कृतं ग्रन्थजातमनपेक्ष्यमिति पञ्चमे । आचरितॄणां वेदविरोधात्त- दनुस्मृतं ग्रन्थजातमनपेक्ष्यमिति षष्ठे । वेदविरोधाभावेऽप्यनुपलब्धिविरोधेन पठितश्रुत्यनुमानायोगान्नित्यत्वबाधापत्तेश्च प्रलीन- शाखागतश्रुत्यनुमानायोगाद् बाह्यग्रन्थप्रामाण्यबाधमित्याह—न चेति । ननु मन्वादिस्मृति- वद्विप्रकीर्णशाखागतश्रुतिमूलत्वेनानुपलब्धिविरोधपरिहारो भविष्यतीत्याशङ्क्य तासां क्वचित्संवाददर्शनात् तद्दृष्टान्तेनान्यत्रापि वेदमूलत्वानुमानं युक्तमिति, इह तु क्वचिदपि संवादाभावाद्दैषम्यमित्याह—न हीति । अहिंसादिवचनस्यापि विषयविशेषानवच्छिन्नस्य विहितव्यतिरिक्तविषयहिंसादिनिषेधश्रुत्या संवादो नास्तीत्याशयः । ननु श्रुतिमूलत्वासम्भवेऽपि प्रमाणान्तरमूलत्वेन प्रामाण्योपपत्तेर्ग्रन्थप्रामाण्यबाधनं न युक्तमित्याशङ्क्याह—मूलान्तरेति । अत्रैव हेतुदर्शनाच्चेतिसूत्रं योजयति—लोभादीति । किञ्चात्रोत्प्रेक्षणीयलोभादिविषयतया हेतुशब्दव्याख्यानेन युक्त एव हेतुशब्दाभिधेया धर्मा- धर्मोपदेशमूलत्वेन तैरुपन्यस्ताः प्रत्यक्षं दृश्यन्ते इत्याह शाक्यादयश्चेति । ननु याज्ञ- वल्क्यादिभिरपि । 'यदुच्यते द्विजातीनां शूद्राद्यारोपसंग्रहः । न तन्मम मतं यस्मात्तत्रात्मा जायते स्वयम् ।।' या० स्मृ० अ० ५६ तेन पुनरित्यादिहेतुदर्शनपूर्वकं धर्माधर्मोपदेशनान्न तन्मात्रेण वेदमूलत्वनिराकरणं युक्तमित्याशङ्क्य वेद एव द्विजातीनां निःश्रेयसकरः परः इत्यादिना तैः प्राधान्येन वेद- मूलत्वाद्यभिधानात् तेन ह्यन्नं क्रियत इति वदर्थवादार्थं हेत्वभिधानं विज्ञायते । ननु शाक्यादिभिर्वेदमूलत्वं क्वचिदुक्तमित्याह—न चेति । हेतुमूलत्वेनैव तर्हि प्रामाण्यं भविष्यत्यत आह—हेतवश्चेति । हेत्वाभासाः-ते, न सम्यग्हेतव इति भावः । हेतुकत्वेन वा शाक्यादीनामनपेक्ष्यत्वप्रतिपादनायैतत्सूत्रमित्यर्थान्तरन्यासेनाह—एत एव चेति । पाषण्डिनो विकर्मस्थान्वैडालव्रतिकांश्छठान् । हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ।। मनु० अ० श्लो० इति स्मरणाद्वाङ्मात्रेणापि येषामर्चनं न कार्यं ते शाक्यादय एवेत्यर्थः । पाखण्डित्वम्, विकर्मस्थत्वं च प्रसङ्गादुक्तम्, हेतुदर्शनाच्चेति चकारसूचितं वा । अस्यैव सूत्रस्यान- पेक्ष्यत्वहेतोर्वेदबाह्यत्वस्य कुदृष्टित्वस्य च दर्शनादिति चतुर्थं व्याख्यानमाह—एतदीयेति । स्वामिप्रेतं सिद्धान्तमुपसंहरति तस्मादिति । ।। इति वार्तिकमतेन द्वितीयं बाह्यमताप्रामाण्यम् ।। ४ ।। मा० प्र०—औदुम्बरीस्तम्भ के सम्पूर्ण वेष्टन को कहने वाली स्मृति का आशय प्रदर्शन करते हुए सूत्रकार ने कहा कि सम्पूर्ण औदुम्बरी के वेष्टन करने पर बड़ा वस्त्र