मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 394, कुल 804 में से
संदर्भ में पढ़ें३४२ मीमांसादर्शनम् [ सू० यद्वा यथा गाव्यादिशब्दानामवाचकत्वे प्रामाण्यस्यातिप्रसिद्धत्वादनादरे लौकिकानां वाचकावाचकेषु समदृष्टित्वापत्तेस्तत्कथनं साधुशब्दाधिकरणे करिष्यते, तथा बाह्यत्वधर्मा- धर्मनिबन्धनाप्रामाण्यस्याप्यतिप्रसिद्धत्वादनादरेणाकथने लौकिकानां मन्वादिनिबन्धनेषु बाह्येषु च समदृष्टित्वापत्तेस्तत्कथनीयमित्युत्तरशेषः साधर्म्यदृष्टान्तः । यद्वा शोभादिविशेषवशेन कलिकालवशेन वाऽधर्मप्राबल्याद् बाह्येष्वेव श्रद्धाविशेषा- पत्तेः श्रौतस्मार्त्तार्थस्यैव त्यागः प्रसज्येतेत्याह—शोभेति । सन्तु वा लौकिकाः परीक्षकाणा- मपि सम्भवद्वेदसंयोगत्रैवर्णिकप्रणीतत्वाविशेषात्समदृष्टित्वापत्तिरित्याह—ब्राह्मणेति । बाह्य- स्मृत्यप्रामाण्यस्यावश्यप्रतिपाद्यतामुपसंहरति—तेनेति । पूर्वपक्षमाह—महाजनेति । (आदिपदेनानुपलब्धिविरोधपरिहाराय मूलश्रुतेरपि द्वीपा- न्तरवर्तित्वमुपादीयते) ननु विरोधे का गतिरित्याशङ्कयाह—तत्रेति । विरोधेऽप्युक्तेन न्यायेन मूलश्रुत्यनुमानाविघाताद्व्यवस्था विकल्पो वा भविष्यतीत्याशयः । मूलानुमानस्य चानुपलब्धिविरोधः । प्रत्यक्षश्रुतिमूलत्वपक्षे तु विरोधशङ्कव नास्तीत्याह—यैश्चेति । अस्मिन्पक्षे यस्मै यद्रोचते तत्प्रमाणीकुर्यादिति पूर्वोक्तं दूषणं परिहरन्नुपसंहरति-ततश्चेति । सूत्रेण सिद्धान्तमाह—अत आहेति । ननु पारतन्त्र्ये सति विरोधे मूलानुमानासम्भवे- नानपेक्षत्वं स्यात्, वेदवत्तु स्वातन्त्र्यसम्भवे मूलानुमानासम्भवेऽपि न किंचिद् दूष्यतीत्या- शङ्कयाह—पारतन्त्र्यं तावदिति । अतो वेदमूलत्वमात्रं निराकार्यम् । तच्चापसिद्धान्तापत्ते- बौद्धादिभिर्वक्तुं न शक्यत इत्याह—वेदमूलत्वं पुनरिति । यदि तु तावदेकदेशी कश्चिदभ्यु- पगच्छेत् तं प्रत्यनेन सूत्रेण निराकरोति -अन्यच्चेति । वेदविरुद्धस्यापि मन्वादिवाक्यस्य वेद- मूलत्वाभ्युपगमान्न तेन वेदमूलत्वं निराकर्त्तुं शक्यमित्याशङ्क्य समस्तविद्यास्थानविरुद्धत्व- मुक्तम् । ग्रन्थकाराणां वा अनेन सूत्रेण वेदविरोधोऽभिधीयत इत्याह —त्रयीमार्गेति । वेद- विरुद्धाचरणानां तन्मूलोपदेशानुपपत्त्या वेदमूलानुमानस्य बाध इत्याशयः । वेदविरोधिभ्यश्च सम्पर्कं वेदविरोधिनां वेदमूलोपदेशपरिग्रहानुपपत्तेर्वेदमूलानुमानस्य बाधकमित्याह— त्रयी बाह्येभ्यश्चेति । चतुर्थवर्णः शूद्रः । निरवसितः वर्णाश्रमाचाररहितः । परिग्रही- तॄणामपि वेदविरोधो वेदमूलानुमानस्य बाधकोऽनेन ग्रन्थेनोक्तो भवति । आत्मविरुद्धा- चरितृत्वेन च शाक्यादेर्लोकहितैषित्त्वस्य दूरनिरस्तत्वात्तदुपदेशस्य प्रमाणमूलत्वानुमानं न युक्तमित्याह—स्वधर्मेति । एतदेवाभियुक्तवचनेन द्रढयति—उक्तं चेति । मनोस्तु क्षत्रिय- स्यापि प्रवर्त्तकत्वे 'यद्वै किंचिन्मनुरवदत्तद्भेषजमिति वेदानुज्ञातत्वादविरुद्धमित्याशयः । स्वधर्मातिक्रम एवालङ्काराभिमानादत्यन्तमूढत्वं प्रतीयत इत्याह — बुद्धादेः पुनरिति । तद्ग्रन्थपरिग्रहीतॄणामपि' न शूद्राय मतिं दद्यादित्यादिप्रतिषेधातिक्रमसामर्थ्येन ब्राह्मण- निन्दाम् तत्कारित्वेन च शाक्यस्तुतिं कुर्वतामत्यन्तमूढत्वमाह—स किलेति । तद्ग्रन्थ- विहिताचरितॄणां च वेदविरोधो वेदमूलत्वस्य बाधक इत्याह—तदनुशिष्टेति । षट्स्वप्यर्थेषु सूत्रं योजयति—तेनेति । बाह्यग्रन्थजातं वेदविरोधादनपेक्ष्यमिति- प्रथमव्याख्यानेऽर्थः । ग्रन्थकारिणां वेदविरोधात्तत्कृतं ग्रन्थजातमनपेक्ष्यमिति द्वितीये परि-