मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 393, कुल 804 में से
संदर्भ में पढ़ें४ ] प्रथमाध्याये तृतीयपादः ३४१ व्याख्या सूचिता । भाष्यं च यथाश्रुतार्थप्रामाण्याभावाभिप्रायत्वेन समाहितम् । उदाहरण- भाष्यमप्यदृष्टमूलाव्यस्थास्मृतिविषयत्वेन नेतव्यमिति सर्वमदुष्टम् । इति वार्तिकमतेन प्रथमाधिकरणाशयः अथ द्वितीयव्याख्यानम् द्वितीयव्याख्यानं प्रपञ्चयति—यद्वेति । यान्येतानि सांख्यादिपरिगृहीतानि तैर्विपरीत- गृहीतयोर्धर्माधर्मयोर्निबन्धनानि यानि च बाह्यान्तराणि म्लेच्छाचारस्य बहुसमाहृतैकदेश- मिश्रान्नभोजनाचरणस्य निबन्धनानि तेषामेवैतदनपेक्षणीयत्वं प्रतिपाद्यत इत्यन्वयः । न च तदप्रामण्याङ्गीकरणे पूर्वोक्तमर्यादातिक्रमादिदोषापत्तिः, शिष्टत्रैवर्णिकपरिग्रहादरस्य स्मृति- प्रामाण्यहेतोस्तेष्वसम्भवादिति त्रयीविद्विद्नं परिगृहीतानीत्यनेनोक्तम् । त्रयीवित्परिग्रहा- भावेऽप्यहिंसासत्यवचनादिवाक्येषु वेदमूलत्वदर्शनेन वाक्यान्तरेष्वपि वेदमूलत्वानुमानसम्भ- वात्कथमप्रामाण्यमित्याशङ्क्य किञ्चित्रयीमिश्रस्य धर्मकञ्चुकस्य छायायां पतितानीत्युक्तम् । यथा नर्त्तकी स्वाङ्गवैकल्यं कञ्चुकेन छादयति, तथा लोकवञ्चनार्थं चैत्यवन्दनादिवाक्यानां मिथ्यात्वं छादयितुं क्वचिद्वेदमूलार्थाभिधानं न सर्वत्र तथात्वानुमानायालमित्याशयः । किं तेषां लोकवचनं प्रयोजनमित्यपेक्षायां लोकोपसंग्रहादिप्रयोजनपरत्वमुक्तम् । कस्मात्पुनः क्व- चिद्वेदमूलत्वदर्शनेनान्यत्र तथात्वानुमानं न सम्भवतीत्याशङ्कानिराकरणार्थं—त्रयीत्युक्तम् । त्रय्यप्रामाण्यापादकत्वात्तद्विपरीतेनात एवात्मूलत्वात्तदसम्बद्धेन दृष्टशोभाभिप्रायेण तत्प्रधानेन तन्मूलेनोपनिबद्धानीत्यर्थः, प्रत्यक्षादिमूलत्वस्य प्रागेव निरस्तत्वात् प्रत्यक्षाभा- मासेष्वेव परमिमानात्प्रत्यक्षादिशब्दप्रयोगः । एवं तर्हि प्रामाण्याशङ्कानुपपत्तेस्तन्निराकरणमयुक्तमित्याशङ्क्य—विषचिकित्सेति । पूर्वपक्षबोजमुक्तम् विषचिकित्सादिसमर्थानां कतिपयमन्त्रौषधीनां या कादाचित्कासिद्धिः तन्निदर्शनबलेन जीविकाप्रधानस्यार्थान्तरस्योपदेशकानीत्यर्थः । ननु विषचिकित्सादिदृष्टान्तेन प्रामाण्याध्यवसाने जीविकाप्राधान्याच्चानुष्ठानादरे सत्यपि धर्मत्वाध्यवसाने किं कारण- मित्याशङ्क्य—अहिंसादिस्तोकार्थगन्धवासितत्वमुक्तम् । ननु प्रत्यक्षादीनां धर्मप्रामाण्य- निराकरणेन प्रत्यक्षसूत्र एव तन्मूलानां बाह्यस्मृतीनां प्रामाण्यस्य निराकृतत्वात्पुनरुक्त- मेतत्स्यानित्याशङ्क्याह—न चैतावंत । वेदमूलत्वं पूर्वमनिराकृतम् । इह निराकार्य- मित्याशयः । ननु वेदमूलत्वस्य परेनानङ्गीकृतत्वेन तन्निराकरणमतिप्रसिद्धत्वान्न कार्यमित्या- शङ्कयाह—न चेति । मीमांसकातिरिक्तेः सामवायिकार्थप्रतीत्यभ्युपगमेन कस्मिंश्चिच्छब्दे वाचकत्वानङ्गोकरणाद् गव्यादिशब्दवाचकत्वस्य परैरनङ्गीकृतस्यापि निराकरणं लोके वाचकविवेकस्याप्रसिद्धत्वादथाद्युक्तम्; नैवं बाह्यस्मृतीनां वेदमूलत्वनिराकरणं युक्तमति- प्रसिद्धत्वादिति वैधम्यं दृष्टान्तः ।