मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 391, कुल 804 में से
संदर्भ में पढ़ें४] प्रथमाध्याये तृतीयपादः ३३२ उपसंहरति-दीक्षितान्नेति । ननु माभूदनुज्ञाग्नीषोमीयोत्तरकालं दीक्षितान्नभोजनस्य विधिरयं भविष्यतीत्याशङ्क्य, दृष्टार्थस्यादृष्टार्थत्वयोगाद्विशिष्टविधौ च गौरवापत्तेः फला- श्रवणात्प्रकृताश्रयालाभादनेकगुणोपादानाच्च फले गुणविध्ययोगाद्विधित्वं न युक्तमित्याह- अदृष्टार्थेति । 'न दीक्षितस्याश्नीयादित्यस्य त्वदृष्टार्थतोभयसाधारण्याददूषणम् । द्वितीया- नुपपत्त्या च पर्युदासत्वं न्याय्यमेवेति भावः । कोऽनयोः पक्षयोर्मध्ये सम्मत इत्यपेक्षाया- मापद्विषयत्वेऽनुकल्पत्वेन स्वरसावगततुल्यकल्पत्वबाधापत्तेरयंवैदिकस्य च निषेधस्यावध्य- नपेक्षत्वेन तस्माद्दीक्षितस्य विज्ञातस्य क्रीतराजकस्य भोज्यं भवतीत्यस्यावधिसमर्थकत्वा- योगाच्छ्रेयोऽर्थमयं यजते न प्रायश्चित्तार्थमित्येवं विज्ञातस्य क्रीतराजकस्यानमदुष्टमेवेत्यव- ध्यन्तरदर्शनजनितदोषशङ्कानिराकरणार्थत्वप्रतीतेर्द्वितीयस्य पक्षस्य सम्मतत्वं दर्शयितु- माह- एवमिति । ऐतरेयब्राह्मणगतस्य त्वशितव्यं वपायां हुतायामित्यस्याग्निषोमीयसंस्था- वधिवाक्यवत्पर्युदस्तदीक्षितान्नभोजनानुज्ञानार्थत्वेऽपि बह्वल्पफलगुरुलघुकल्पत्वेनावधिद्वय- व्यवस्थानादविरोध इत्येवंशब्देन सूचितम् । पर्युदस्तानुज्ञानार्थत्वसाम्येन चैतदवधिद्वयमेकी- कृत्यावधिद्वयोपन्यासः । अष्टाचत्वारिंशद्वर्षं ब्रह्मचर्यंस्मृत्युदाहरणमपि दूषयति- अष्टेति । स्मार्त्तत्वेन तुल्यत्वाद्विकल्पेनाविरोधं वक्तुं - स्मृतावित्येत्युक्तम् । स्मार्त्तत्वाविशेषेऽपि पक्षाणामसाम्याद्वि- कल्पानुपपत्तेरपरितोषाद्विषयव्यवस्थां वक्तुमाश्रयान्तरेत्युक्तमिति विवेकः । कीदृशानि पक्षान्तराणीत्यपेक्षिते मनुवचनं तावदुदाहरति - तथा हीति । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेदित्युत्तराद्धंम् । तत्र द्वेधा विषयव्यवस्थामाह-सामर्थ्येति । योऽल्पेन कालेन बहून्वेदानध्येतुं समर्थः तं प्रति बहुवेदपक्षः, असमर्थं प्रत्यल्पवेदपक्ष इति सामर्थ्यमङ्गी- कृत्यागार्हस्थ्याश्रमायोग्यं प्रति बहुवेदपक्षः तद्योग्यं प्रत्यल्पवेदपक्ष इत्याश्रमयोग्यत्वमङ्गो कृत्यापेक्ष्यैतन्मनुनोच्यत इत्यर्थः । 'इह षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् । तदर्द्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥' इति मनुनेवोक्तत्वात् ग्रहणान्तिकपक्षे सामर्थ्यापेक्षा । वर्षसंख्यापक्षे त्वाश्रमयोग्यत्वा- पेक्षेति विवेकोऽवसीयते । अष्टाचत्वारिंशद्वर्षब्रह्मचर्यंस्मर्त्रा गौतमेनापि पक्षान्तरमुक्तमित्याह- गौतमे- नापीति । तत्राप्यष्टाचत्वारिंशत्पक्षो गार्हस्थ्याश्रमायोग्यविषय इत्याह - तत्रैवमिति । नन्वाश्रमान्तरं तान्प्रति कस्मान्न विधीयत इत्याशङ्क्य, तेषां बहुक्लेशत्वादविरक्तानधिकारा- च्चाल्पक्लेशबहुफलोपकुर्वाणकत्वेनैव बहुकालक्षपणायैतद्विधानमित्याह-नैष्ठिकेति । उपकुर्वाणकः-अध्ययनार्थं गुरुकुलवासी ब्रह्मचारिविशेषः । गमिष्यतीत्येतदुच्यत इत्यन्वयः । स्वाध्यायमात्रेणेष्टगतिप्राप्त्युपपादनाथं द्वैपायनवचनमुदाहरति-द्वैपायनादयश्चाहुरिति । ब्रह्मयज्ञफलातिशयोपयोगितापि स्वाध्यायतदर्थज्ञानभूयस्त्वस्यास्तीत्याह-यानि चेति ।