मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 380, कुल 804 में से
संदर्भ में पढ़ें३२८ मीमांसादर्शनम् [ सू० षङ्गेन संवद्द्य यदनपेक्षं तत्तावत्प्रमाणं स्यादिति तदानींतनव्यवहारमात्रप्रति- पत्त्यर्थमेवोच्यते । ततश्च न तावच्छाखान्तरीयविद्यमानश्रुतिमूलत्वाशङ्कायां सत्यामेवात्यन्त- निराकरणपक्षः परिग्रहीष्यते । न च प्रत्यक्षश्रुत्यर्थानुष्ठानहानिः यदा तु क्वचिच्छाखान्तरे स्मरणमूलं श्रुतिरपि प्रत्यक्षीभविष्यति, तदोभयोस्तुल्यबल- त्वाद्विकल्पो भविष्यत्येव । नन्वनेनैव न्यायेन स्वशाखाविहितविरुद्धं शाखान्तरगतमप्यग्राह्यं स्यात् । सत्यम्— वार्तामात्रेण तद्यावत्तावन्नेव ग्रहीष्यते । यदा तु श्रवणं प्राप्तं तदाऽस्मान्न विशिष्यते ॥ २६३ अतश्चैवं श्रुतिस्मृत्योर्विशेषोऽनेन दर्शयते । नात्यन्तमेव बाध्यत्वं न चाप्यत्यन्ततुल्यता ॥ ५६४ (वार्तिकमतेन बाह्यग्रन्थानामप्रामाण्यनिरूपणम् ।) यद्वा—यान्येतानि त्रयीविद्भिर्न परिगृहीतानि, किंचित्तन्मिश्रधर्मकञ्चुकच्छा यापतितानि लोकोपसंग्रह-लाभ-पूजा-ख्यातिप्रयोजनपराणि त्रयीविपरीता- संबद्धदृष्टशोभादिप्रत्यक्षानुमानोपमानार्थापत्तिप्राययुक्तिमूलोपनिबद्धानि सांख्य- योगपाञ्चरात्रपाशुपतशाक्यग्रन्थपरिगृहीतधर्माधर्मनिबन्धनानि विषचिकित्सा- वशीकरणोच्चाटनोन्मादनादिसमर्थकतिपयमन्त्रौषधिकादाचित्कसिद्धिनिदर्शनबलेना- हिंसासत्यवचनदमादानदयादिश्रुतिस्मृतिसंवादिस्तोकार्थगन्धवासितजीविकाप्राया - र्थन्तरोपदेशीनि, यानि च बाह्यतराणि म्लेच्छाचारमिश्रकभोजनाचरणनिबन्ध- नानि, तेषामेवैतच्छुतिविरोधहेतुदर्शनाभ्यामनपेक्षणीयत्वं प्रतिपाद्यते । न चैतत्क्व- चिदधिकरणान्तरे निरूपितम्, न चावक्तव्यमेव गाव्यादिशब्दवाचकत्वबुद्धिवदति- प्रसिद्धत्वात् । यदि ह्यनादरेणैषां न कल्प्येताप्रमाणता । अशक्यैवेति मत्वाऽन्ये भवेयुः समदृष्टयः ॥ २६५ शोभासौकर्यहेतूक्तिकलिकालवशेन वा । यज्ञोकपशुहिंसादित्यागभ्रान्तिमवाप्नुयुः ॥ २६६ ब्राह्मणक्षत्रियप्रणीतत्वाविशेषेण वा मानवादिवदेव श्रुतिमूलत्वमाश्रित्य सचेतसोऽपि श्रुतिविहितैः सह विकल्पमेव प्रतिपद्येरन् । तेन यद्यपि लभ्येत स्मृतिः काचिद्विरोधिनी । मन्वाद्युक्ता तथाऽप्यस्मिन्नेतदेवोपयुज्यते ॥ २६७