मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 379, कुल 804 में से
संदर्भ में पढ़ें४ ] प्रथमाध्याये तृतीयपादः ३२७ प्रसङ्गाद् बादरायणमतस्य निर्देशः द्वैपायनादयश्चाहुः— परिनिष्ठितकार्यस्तु स्वाध्यायेनैव हि द्विजः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ २५८ यानि च प्रतिदिनप्रयुज्यमानर्क्सामयजुर्ब्राह्मणकल्पव्याख्यानादिब्रह्मयज्ञ- निमित्तानि फलानि ऋत्वधिकृतपुरुषेभ्योऽन्यानर्थक्यप्रसङ्गाद्व्यावृत्तानि जपध्यान- मात्राधिकृतब्रह्मचारिपरिव्राजकविषयत्वेनावतिष्ठन्ते तान्यपि स्वाध्यायविज्ञानभूय- स्त्वेन भूयिष्ठानि भविष्यन्तीति प्रतिवेदब्रह्मचर्योपदेशः । यो वा कश्चिन्मेधावितया शीघ्रमेव वेदचतुष्टयमप्यधीत्य यथोपपत्तिकालं तदर्थज्ञानाभियोगमपरित्यजन्ग्रहणान्तं वेत्येतत्पक्षाश्रयणेन गृहस्थो भवेत्तं प्रति द्वादशाष्टाचत्वारिंशद्वर्षपक्षावनेनैव स्मरणेन पूर्वपक्षकृताविति नातीव श्रुतिविरुद्ध- त्वेनोदाहर्तव्यौ । तेन नैव श्रुतिस्मृत्योर्विरोधोऽतीव दृश्यते । श्रुत्योरेव ह्यसौ दृष्टः क्वचिद्द्वा नैव विद्यते ॥ २५९ तेनात्र यदि वा कर्मप्रयोगोऽयं निरूप्यते । यदि वा बाध्यमानत्वमुक्तं बाह्यं स्मृतीः प्रति ॥ २६० अत्र जैमिनिमतस्योपन्यासः एतद्धि जैमिनिनाऽत्यन्तं हितोपदेशिना जिज्ञासुभ्यः प्रतिपाद्यते । यावदेकं श्रुतौ कर्म स्मृतौ वाऽन्यत्प्रतीयते । तावत्तयोरविरुद्धत्वे श्रौतानुष्ठानमिष्यते ॥ २६१ व्रीहियवादिश्वपि तावत्प्रत्यक्षश्रुतिविहितेषु यदि कश्चिद्यावज्जीवमप्येकमेव पक्षमाश्रित्य व्यवहरेन्न स कदाचिदप्युपालम्भास्पदं गच्छेत् । ततश्च तुल्यकक्षाऽपि यदि नाम स्मृतिर्भवेत् । तथाऽपि नैव दोषोऽस्ति श्रुत्यर्थमनुतिष्ठताम् ॥ २६२ यानि स्मृतिवचनान्यर्थमात्रमेव प्रतिपाद्य, मूलभूताः श्रुतीरनुदाहृत्य निवृत्त- व्यापाराणि तेषु श्रुत्यनुमानव्याजसापेक्षप्रामाण्येषु सत्सु वेदवचनमनपेक्षत्वात्प्रमाण- तरत्वेन सुतरां विश्रम्भणीयमिति, श्रद्धाविशेषेण ग्राह्यतरार्थं विज्ञायते । वार्तिकमतेन सूत्रार्थवर्णनम् सूत्रार्थोऽप्येवं योजयितव्यः—श्रौतस्मार्तविज्ञानविरोधे यदनपेक्षम् अपेक्षा- वर्जितम्, यस्य वाऽपेक्षणीयमन्यन्नास्तीत्येवं पाठद्वयेऽपि, पूर्वसूत्रात्प्रमाणशब्दमनु-