मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 383, कुल 804 में से
संदर्भ में पढ़ें४.] प्रथमाध्याये तृतीयपादः ३३१ च तयोर्मध्येऽन्तरदप्यत्रास्तीति शेषः । समाधातुमपरितोषकारणं तावन्मन्दप्रयोजनत्वमाह — अपरितोषस्तावदिति । विषयव्याप्तिरप्यत्राविरुद्धस्मृतिविषयत्वादस्तीत्याह — विरोधेन चेति । सत्यप्यस्याविरुद्धस्मृतिविषयत्वे कारणान्तरेणापि केनचिदपवादान्तरोपपत्तेः कथं विषयव्याप्तिरित्याशङ्क्य, कारणान्तरासम्भवान्नापवादान्तरोद्भव इत्युक्तम् । वैसर्जनहोमीयमित्यादिविषयप्रदर्शनार्थं भाष्यं व्याचष्टे—वैसर्जनहोमीयमिति । श्रुत्य- विरुद्धानामपि स्मृतीनां लोभादिमूलत्वसम्भवेनाप्रामाण्याङ्गीकरणे दायधर्मादिस्मृतीनामप्य- प्रामाण्यं स्यादित्याशङ्क्य, मन्वादिमहर्षिनिबन्धनस्य वेदमूलत्वकल्पनाहेतोरविरोघे कल्पकत्वप्रतिबन्धाभावान्मूलान्तरकल्पनानुपपत्तावप्यविरुद्धानामाचारानुमितानामर्वाचीन - मनुष्यस्मृतीनां दृष्टमूलासम्भवेनैव वेदमूलत्वस्यापि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् १-३-७ इत्यत्र वक्ष्यमाणत्वात् सम्भवेऽपवादविषयत्वोपपादनार्थं मुक्तकमेवैतदित्युकम् । तत्कर्तृसामान्यादिति पूर्वपक्षसिद्धान्तभाष्यद्वयमेकहेलया व्याचष्टे—तत्रापीति । इदानीं धर्मबुद्ध्यानुष्ठानेऽपि पूर्वप्रवृत्तिकाले लोभादिमूलत्वसम्भवप्रदर्शनार्थं पूर्वग्रहणम् । लोमस्य मूलत्वसम्भवः पूर्वं कालान्तरे यस्मिन्कर्तृसामान्ये, तस्मादिति हेतुगर्भं विशेषणम् । लोभमूलत्वसम्भवमुपपादयति—ऋत्विजो हीति । आशङ्काशब्देन लोभमूलत्वानिश्चयेऽपि, वेदमूलत्वनिश्चयस्तावन्नास्तीति सूचितम् । ननु वेदमूलत्वस्यापि सम्भवात्कथमप्रामाण्य- निश्चय इत्याशङ्क्य, निराकरणार्थमुपपन्नतरं चेदिति भाष्यं व्याचष्टे—पूर्ववच्चेति । ननु वेदमूलत्वाभावनिश्चयाभिधानपरत्वेऽस्य भाष्यस्य पूर्वंलोभमूलत्वनिश्चयाभिधान- परत्वेन योजनमयुक्तं स्यादित्याशङ्क्याह—इदं चेति । दृष्टे सम्भवत्यदृष्टकल्पनमयुक्तमिति न्यायस्य वेदमूलत्वाभावान्यमूलत्वयोर्निश्चयकारणस्य तुल्यत्वादुभयत्रापि योजितमित्यर्थः । भाष्यकारीयाधिकरणक्षः यथाभाष्यमधिकरणद्वयं व्याख्याय दूषयितुं प्रतिजानीते—एतावत्स्विति । सर्ववेष्टन- स्मरणस्य लोभमूलत्वनिराकरणेन तुल्यन्यायतया यूपहस्तिदानादिस्मरणस्यालोभमूलत्व- निराकरणाद्धर्मबुद्ध्या चेदानीमनुष्ठीयमानानां दृष्टमूलत्वकल्पनासम्भवाद्—अधिकरण- द्वयेऽपीत्युक्तम् । प्रत्यक्षश्रुतिविरोधे हि स्मृतिमूलश्रुत्यभावः साधकाभावाद्वा स्याद् बाधक- सद्भावाद्वा तत्र त्रैवर्णिकदृढपरिग्रहादरस्य स्मृतिमूलश्रुतिसाधकस्य विरोधेऽप्यनपायात्साधका- भावस्तावन्नास्तीत्याह—स्मृतीनामिति । यत्तु जिज्ञासां विना प्रमाणप्रवृत्तेः साधकाभाव इत्युक्तम् । तत् एवं परिहर्त्तव्यम्, यद्यपि परिच्छिन्ने प्रमेये तत्परिच्छेदार्थं श्रुत्यनुमानं न प्रवर्त्तते, तथापि किमियं स्मृतिः प्रमाणमप्रमाणं वेति जिज्ञासायां तत्परिच्छेदार्थं श्रुत्यनुमानप्रवृत्तिर्न वारयितुं शक्यते । प्रमाणान्तरपरिच्छिन्नेऽपि शङ्खशौक्ल्ये शङ्कितपित्तोपघातस्य किं मे चक्षुर्दुष्टमदुष्टं वेति जिज्ञासया चक्षुर्विस्फुरणदर्शनात् परमाण्वादौ च कदाचिदनुपलब्धत्वाद्व्यवहारानानुपयोगित्वाच्च जिज्ञासितेऽप्युपलब्धस्थूलादिकार्यानुपपत्तिपरिहारार्थं प्रमाणप्रवृत्तिदर्शनाच्च जिज्ञासादरः ।