मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 382, कुल 804 में से
संदर्भ में पढ़ें३३० मीमांसादर्शनम् [ सू० न ह्येषां पूर्वोक्तेन न्यायेन श्रुतिप्रतिबद्धानां स्वमूलश्रुत्यनुमानसामर्थ्यमस्ति । न च शाखान्तरोच्छेदः कदाचिदपि विद्यते । प्रागुक्ताद्वेदनित्यत्वान्न चैषां दृष्टमूलता ॥ २७२ न हि यथोपनयनादिस्मृतीनां शाखान्तरदृष्टश्रुतिसंवादः । एवं चैत्यकरण- तद्वन्दनशूद्रसंप्रदानकदानादीनां संवादः संभवति । मूलान्तरकल्पनं च प्रागेव प्रत्याख्यातम् । हेतुदर्शनेन शाक्यमतनिरासः । लोभादिकारणं चात्र बह्वेवान्यत्प्रतीयते । यस्मिन्सन्निहिते दृष्टे नास्ति मूलान्तरानुमा ॥ २७३ शाक्यादयश्च सर्वत्र कुर्वाणा धर्मदेशनाम् । हेतुजालविनिर्मुक्तां न कदाचन कुर्वते ॥ २७४ न च तैर्वेदमूलत्वमुच्यते गौतमादिवत् । हेतवश्चाभिधीयन्ते ये धर्मा दूरतः स्थिताः ॥ २७५ एत एव च ते येषां वाङ्मात्रेणापि नार्चनम् । पाखण्डिनो विकर्मस्था हैतुकाश्चैत एव हि ॥ २७६ एतदीया ग्रन्था एव च मन्वादिभि परिहार्यत्वेनोक्ताः । 'या वेदबाह्याः स्मृतयो याश्च काश्चित्कुदृष्टयः । सर्वास्ता निष्फलाः प्रोक्तास्तमोनिष्ठा हि ताः स्मृता ॥ इति । २७७ तस्माद्धर्मं प्रति त्रयीबाह्यमेवंजातीयकं प्रामाण्येनानपेक्ष्यं स्यादिति सिद्धम् ॥ ४ ॥ न्या० सु०—सूत्रव्याख्यानार्थं लोभादित्यादिभाष्यं सर्ववेष्टनादिस्मृतीनां लोमकृन्त- पुंसकत्वप्रच्छादनप्रयोजनमूलत्वे प्रमाणाभावादयुक्तमाशङ्क्य श्रुत्यतिरिक्तसम्भवे, मूल- मात्रोपलक्षणार्थतया व्याचष्टे—इतश्चेति । विरोधो व्यभिचारशब्देनोक्तः । श्लोकं व्याचष्टे- श्रुतीति । ननु सत्यपि विरोधे भ्रान्त्यादिमूलत्वं विना बाध्यत्वायोगाद् बाध्यत्वेनैव भ्रान्त्यादिमूलकल्पनायामितरेतराश्रयं स्यात्, इत्याशङ्क्याह—स्मृतेश्चेति । विरोधपरि- हारायाऽवश्याङ्गीकार्येऽन्यतरस्य बाध्यत्वे स्मृतेरेव भ्रान्त्यादिमूलत्वनिश्चयापत्तेरितरेतरा- श्रयापत्तिरित्यशयः । उपपन्नतरं चैतदिति वक्ष्यमाणवर्णकभाष्यमिहापि योज्यमिति सूचयितुमाशङ्कोत्तर- त्वेन व्याचष्टे—यथैवेति । भाष्यकृतास्यैव सूत्रस्याधिकरणान्तरविषयत्वेन वर्णकान्तरं कृतम्, तत् पूर्वापरितोषविषयव्याप्तिव्यतिरेकेण क्वचिद्वर्णकान्तरस्य प्रयोजनान्तरा- दर्शनात्तयोश्चापरितोषकारणविषयान्तरादर्शनेनासम्भवादयुक्तमित्याक्षिपति—सर्वेति । न