भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 404, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 404

१५२ मीमांसादर्शनम् [ सू० म्बितानुष्ठानाच्च प्रधानप्रत्यासत्तिबाधप्रसङ्गः । समस्तप्रयोगकालाच्च पूर्वाह्नमध्यं- दिनादयोऽतिक्रम्येरन् । क्रमश्च यः श्रुत्यर्थपाठस्थानमुख्यप्रवृत्तित्वक्रमैरवगतः, स च वैदिकपदार्था- रूढतया विज्ञाताश्रयप्रमाणपरिमाणः सन्नन्यथात्वं क्षुतादिनिमित्ताचमनव्यवधाना- त्प्रतिपद्येत । एवमायासस्रस्तोपवीतपुनःकरणव्यवधानेऽपि योजनीयम् । यो ह्यसावन्तः स्मार्तः पदार्थः क्रियते तदा । तस्य क्रमप्रमाणं हि न श्रुत्याद्यवगम्यते ॥ २८५ उक्तपरिमाणस्य क्रमस्य नान्यदपि किंचित्प्रमाणमवकल्पते । तथा श्रुत्याद्यवगतप्रचयशिष्टपदार्थपरिमाणमवश्यमध्वर्य्यादिभिरविस्मृतसम- स्तपदार्थनिर्माणयावधारणीयम् । ततश्च प्रथमपरिकल्पितपश्चादागतस्मार्त- पदार्थानुष्ठाने पूर्वावधारणभ्रंशात्समस्तकृताकृतानिरूपणादनिवृत्तवैगुण्याशङ्कस्य सम्यक्कृतत्वदाढर्यनिमित्तसंस्कारपाटवाभावादपूर्वदौर्बल्येन न्यूनफललाभप्रसङ्गः। तच्चातिशयवत्सर्वं सार्थवादाद्विधेर्गतम् । न्यूनत्वाक्षमयाऽवश्यं विरुद्धं बाधते स्मृतिम् ॥ २८६ परिमितश्रुत्याद्युपदेशातिदेशात्मकाङ्गशास्त्रपरिमाणत्वाद्वा न तद्व्यतिरिक्ता- ङ्गशास्त्रावकाशः सहकर्तव्यावगतेषु च पदार्थेषु सर्वात्मना त्वरमाणस्य यावाने- वात्यन्ताशक्त्या कालविप्रकर्षो भवति; तावन्मात्रमेव प्रयोगवचनोऽनुमन्यते । शक्तस्तु क्षणमात्रमपि यदि विक्षेपं कुर्यात्, तदस्य प्रयोगवचनविधिर्न सहेत । तस्मात्त्रिविधस्यापि शास्त्रपरिमाणस्यान्यथाकरणान्नाऽऽचमनाद्यविरुद्धमिति । १ तदुच्यते ॥ ६ ॥ न्या० सु०—पूर्वपक्षसूत्रमवतारणपूर्वकं व्याचष्टे—इतीति । नाचमनादिपदार्थः कर्त्तव्यो भवेदिति नञर्थव्याख्या । अभ्यधिकत्वापत्तेरिति शास्त्रपरिमाणत्वादित्यस्य विरोधोप- पादनार्थत्वेन व्याख्या । न तु सत्यपि विरोधे प्रमेयबलाबलानुसारेणाचमनाद्यनुष्ठानं भविष्य- तीत्याशङ्क्य, प्रमाणाधीनत्वात्प्रमेयसिद्धेः प्रमाणबलाबलस्य तस्माद् बलीयस्त्वाभिधानार्थं शास्त्रशब्दं व्याचष्टे—शास्त्रितमिति । ननु सूत्रकृता परिणामशब्देनेयत्ताबाधापत्तेरुक्तत्वात् शास्त्रपरिच्छन्नं हीत्यादिक्रमकालबाधापत्त्यभिधानभाष्यमयुक्तमित्याशङ्क्य नेयत्तावचनः परिमाणशब्दः, किं तु परिच्छेदाश्चात्रैतत्क्रमका एव, एतत्संख्याका एवैतत्काला एवेति त्रिविधावधारणरूपान्तराचमनाद्यनुष्ठाने बाध्येतेत्याह—शास्त्रेण हीति । आशुनिर्माणशब्देन प्रधानप्रत्यासत्तिः, पूर्वाह्नाद्यनतिक्रमः, प्रयोगशैघ्र्यं चेति त्रिविधा कालावच्छिन्नतोक्ता । समासश्चात्र शास्त्रेण परिमाणं येषां पदार्थानामिति बहुव्रीहिरभिमतः । कथं शास्त्रेण १. मु० मु० उच्यत इत्येव पाठः ।