मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 405, कुल 804 में से
संदर्भ में पढ़ें१ ] प्रथमाध्याये तृतीयपाद। : ३५३ क्रमेयत्ता कालावगतिः ? किं च तेषां बाधक मित्यपेक्षायामाह - द्वाभ्यामिति । प्रयोगविधि- श्रुत्याऽङ्गप्रधानविशिष्टभावनाविधानेन युगपदनुष्ठानाक्षेपादत्यन्तयौगपद्याशक्तेश्च प्रधान- प्रत्यासत्तिलक्षणप्रयोगप्रांशुमावलक्षणश्च कालोऽवगम्यते । पूर्वाह्नादिकालः पूर्वाह्लादिश्रुत्या, अङ्गान्तरविनियोजकैः श्रुतिलिङ्गादिभिः प्रचयशिष्टाङ्गसंख्यावगम्यते । क्रमनियामकैः श्रुत्यर्थादिभिः क्रमः तेषां श्रौतपदार्थेषु प्रविशन्तः स्मृत्याचारप्राप्ताः पदार्था बाधका इत्यर्थः । प्रयोगवचनावगतस्य प्रधानप्रत्यासत्तिलक्षणस्य च शेषरूपप्रत्यासत्तिलक्षणस्य च कालस्य पूर्वाह्लादिविनियोजकश्रुत्यवगतस्य च पूर्वाह्लादिकालस्य स्मृत्याचारप्राप्तपदार्थानुष्ठाने बाधापत्तिं विवृणोति - सर्वे हीति । अनेन च भाष्यकारीयस्य दक्षिणाचारप्रधानकालयो- विरोधोपन्यासस्योपलक्षणार्थत्वं दर्शितम् । प्रयोगवचनावगम्यस्य प्रत्यासत्तिलक्षणस्य च कालस्योपपाद्यत्वेनाभ्यर्हितत्वात्पूर्वं तद्बाधप्रसङ्गापादभाष्यव्याख्येति व्युत्क्रमदोषाभावः । क्रमबाधप्रसङ्गभाष्ये प्रकृतोदाहरणविषयं श्रुतिग्रहणं क्रमप्रमाणमात्रोपलक्षणार्थम् । आचमनग्रहणं च प्रयोगमध्यपातियज्ञोपवीतकरणोपलक्षणार्थमिति व्याचष्टे - क्रमश्चेति । ननु वेदवेद्यन्तरालाचमनविध्यभावात्सर्वादौ च क्रियमाणस्य क्रमविरोधाभावात्कथमन्य- थात्वप्रतिपत्तिरित्याशङ्क्य-क्षुतादिनिमित्तेत्युक्तम् । ननु क्षुतादिनिमित्ताचमनप्रसक्तौ तावदाश्रयः क्रमो भविष्यतीत्याशङ्क्य - विज्ञातेत्युक्तम् । यस्याश्रयणं प्रमाणानां च परिमाणमेतावत्त्वं विज्ञातम्, स तथोक्तः, कीदृशमाश्रयपरिमाणमित्यपेक्षिते यावन्तो वैदिकाः पदार्थाः तावन्तः एवेति-वैदिकैरित्यनेनोक्तम् । प्रमाणपरिमाणं तु श्रुत्याद्यनुक्रमेण ज्ञातमेवान्तराले यज्ञोपवीतस्य नैमित्तिकस्याप्यप्राप्तेः कथं क्रमान्यथात्वापादकत्वमित्या- शङ्क्य-आयासेत्युक्तम् । नन्वन्तराले स्मृत्याचारप्रमाणकपदार्थप्राप्त्यभावे वैदिकमात्राश्रयत्वेऽपि तत्प्राप्तावधि- काश्रयत्वं भविष्यतीत्याशङ्कयाह -यो हीति । प्रमाणान्तरं तर्हि कल्पयिष्यते, अत आह -- उक्तेति । अङ्गपरिमाणप्रमाणस्येति पाठे त्वक्षुगविपूजनयोरिति गत्यर्थाद्च्चेतेरकत्तरि च कारके संज्ञायामिति को भवता दायो दत्त इत्यादिषु संज्ञाव्यभिचार्यत्वाच्च कारकस्या- संज्ञायामपि कर्मणि घञमुत्पाद्यः चजोः कुघिण्यतोरिति कुत्वेन गतशब्दार्थे गमिति रूपानु- सारेणावगतपरिमाणस्येत्यर्थः । नन्वियत्तायाः केनचिच्छास्त्रेणाविधानात्तद्वाधेऽपि न शिष्टकोपापत्तिरित्याशङ्क्य, तस्या अपि शास्त्रीयतामाह - तथेति । किं कश्चित्पदार्थो विस्मृतः, कृतं वा सर्वमिति सन्देहस्या- नुष्ठेयपदार्थसंख्यासम्पत्तिपर्यालोचनं विना निराकर्तुमशक्यत्वात्प्रयोगवचनेनेयत्तावधारण- मप्यर्थादाक्षिप्यते । अज्ञातस्य परिमाणस्यानुष्ठानकालेऽवधारणासम्भवमाशङ्क्य श्रुत्याद्यव- गतानां पदार्थानां प्रचयशिष्टमित्युक्तम् । ननु विस्मरणेऽपि सकलवैदिकपदार्थानुष्ठाने कृते सम्पूर्ण- फलप्राप्तेर्न कश्चिद्दोष इत्याशङ्कयाह -ततश्चेति । यतश्च पदार्थपरिमाणमवधारणीयम्, ततश्च स्मार्त्तपदार्थानुष्ठानेन न्यूनफलमप्रसङ्ग इत्यन्वयः । अपूर्वबलदौर्बल्येनेति न्यूनत्वकरणम् अपूर्वदौर्बल्ये किं कारणमित्यपेक्षायामनिवृत्ते वैगुण्याशङ्क्येति हेतुगर्भं विशेषणम्, किं कृतं किं २३