मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
१ ] प्रथमाध्याये तृतीयपाद। : ३५३ क्रमेयत्ता कालावगतिः ? किं च तेषां बाधक मित्यपेक्षायामाह - द्वाभ्यामिति । प्रयोगविधि- श्रुत्याऽङ्गप्रधानविशिष्टभावनाविधानेन युगपदनुष्ठानाक्षेपादत्यन्तयौगपद्याशक्तेश्च प्रधान- प्रत्यासत्तिलक्षणप्रयोगप्रांशुमावलक्षणश्च कालोऽवगम्यते । पूर्वाह्नादिकालः पूर्वाह्लादिश्रुत्या, अङ्गान्तरविनियोजकैः श्रुतिलिङ्गादिभिः प्रचयशिष्टाङ्गसंख्यावगम्यते । क्रमनियामकैः श्रुत्यर्थादिभिः क्रमः तेषां श्रौतपदार्थेषु प्रविशन्तः स्मृत्याचारप्राप्ताः पदार्था बाधका इत्यर्थः । प्रयोगवचनावगतस्य प्रधानप्रत्यासत्तिलक्षणस्य च शेषरूपप्रत्यासत्तिलक्षणस्य च कालस्य पूर्वाह्लादिविनियोजकश्रुत्यवगतस्य च पूर्वाह्लादिकालस्य स्मृत्याचारप्राप्तपदार्थानुष्ठाने बाधापत्तिं विवृणोति - सर्वे हीति । अनेन च भाष्यकारीयस्य दक्षिणाचारप्रधानकालयो- विरोधोपन्यासस्योपलक्षणार्थत्वं दर्शितम् । प्रयोगवचनावगम्यस्य प्रत्यासत्तिलक्षणस्य च कालस्योपपाद्यत्वेनाभ्यर्हितत्वात्पूर्वं तद्बाधप्रसङ्गापादभाष्यव्याख्येति व्युत्क्रमदोषाभावः । क्रमबाधप्रसङ्गभाष्ये प्रकृतोदाहरणविषयं श्रुतिग्रहणं क्रमप्रमाणमात्रोपलक्षणार्थम् । आचमनग्रहणं च प्रयोगमध्यपातियज्ञोपवीतकरणोपलक्षणार्थमिति व्याचष्टे - क्रमश्चेति । ननु वेदवेद्यन्तरालाचमनविध्यभावात्सर्वादौ च क्रियमाणस्य क्रमविरोधाभावात्कथमन्य- थात्वप्रतिपत्तिरित्याशङ्क्य-क्षुतादिनिमित्तेत्युक्तम् । ननु क्षुतादिनिमित्ताचमनप्रसक्तौ तावदाश्रयः क्रमो भविष्यतीत्याशङ्क्य - विज्ञातेत्युक्तम् । यस्याश्रयणं प्रमाणानां च परिमाणमेतावत्त्वं विज्ञातम्, स तथोक्तः, कीदृशमाश्रयपरिमाणमित्यपेक्षिते यावन्तो वैदिकाः पदार्थाः तावन्तः एवेति-वैदिकैरित्यनेनोक्तम् । प्रमाणपरिमाणं तु श्रुत्याद्यनुक्रमेण ज्ञातमेवान्तराले यज्ञोपवीतस्य नैमित्तिकस्याप्यप्राप्तेः कथं क्रमान्यथात्वापादकत्वमित्या- शङ्क्य-आयासेत्युक्तम् । नन्वन्तराले स्मृत्याचारप्रमाणकपदार्थप्राप्त्यभावे वैदिकमात्राश्रयत्वेऽपि तत्प्राप्तावधि- काश्रयत्वं भविष्यतीत्याशङ्कयाह -यो हीति । प्रमाणान्तरं तर्हि कल्पयिष्यते, अत आह -- उक्तेति । अङ्गपरिमाणप्रमाणस्येति पाठे त्वक्षुगविपूजनयोरिति गत्यर्थाद्च्चेतेरकत्तरि च कारके संज्ञायामिति को भवता दायो दत्त इत्यादिषु संज्ञाव्यभिचार्यत्वाच्च कारकस्या- संज्ञायामपि कर्मणि घञमुत्पाद्यः चजोः कुघिण्यतोरिति कुत्वेन गतशब्दार्थे गमिति रूपानु- सारेणावगतपरिमाणस्येत्यर्थः । नन्वियत्तायाः केनचिच्छास्त्रेणाविधानात्तद्वाधेऽपि न शिष्टकोपापत्तिरित्याशङ्क्य, तस्या अपि शास्त्रीयतामाह - तथेति । किं कश्चित्पदार्थो विस्मृतः, कृतं वा सर्वमिति सन्देहस्या- नुष्ठेयपदार्थसंख्यासम्पत्तिपर्यालोचनं विना निराकर्तुमशक्यत्वात्प्रयोगवचनेनेयत्तावधारण- मप्यर्थादाक्षिप्यते । अज्ञातस्य परिमाणस्यानुष्ठानकालेऽवधारणासम्भवमाशङ्क्य श्रुत्याद्यव- गतानां पदार्थानां प्रचयशिष्टमित्युक्तम् । ननु विस्मरणेऽपि सकलवैदिकपदार्थानुष्ठाने कृते सम्पूर्ण- फलप्राप्तेर्न कश्चिद्दोष इत्याशङ्कयाह -ततश्चेति । यतश्च पदार्थपरिमाणमवधारणीयम्, ततश्च स्मार्त्तपदार्थानुष्ठानेन न्यूनफलमप्रसङ्ग इत्यन्वयः । अपूर्वबलदौर्बल्येनेति न्यूनत्वकरणम् अपूर्वदौर्बल्ये किं कारणमित्यपेक्षायामनिवृत्ते वैगुण्याशङ्क्येति हेतुगर्भं विशेषणम्, किं कृतं किं २३
१५४ मीमांसादर्शनम् [ सू० वा नेति कृताकृतनिश्चयो वैगुण्याशङ्काकारणम् । कृताकृतनिश्चयकारणं-पूर्वावधारणभ्रंशः । कथं तस्यानिश्चयकारणत्वमित्यपेक्षिते सम्यक्कृतत्वदाढर्चनिमित्तसंस्कारपाटवाभावादित्युक्तम् । सम्यग्व्यैतत्कृतमिति स्मृतिदाढर्चंस्य यन्निमित्तं संस्कारपाटवम्, तस्याभावादित्यर्थः । अनुष्ठानात्पूर्वं ह्येतावन्तोऽनुष्ठेया इत्यवधारिते यावन्तोऽनुष्ठेयाः तावतामनुष्ठानोत्तरकाले- ऽनुष्ठितत्वावधारणात्तत्प्रसूतसंस्कारपाटवेन सम्यक्कृतत्वस्मृतिदाढर्यात्कृताकृतसन्देहो निवर्तते, नान्यथा । ननु सहेयत्तायाः पूर्वमवधारणात्कथं स्मार्त्तपदार्थानुष्ठाने पूर्वावधारण- भ्रंश इत्याशङ्क्य—प्रथमेत्युक्तम् । प्रयोगवचनस्य श्रुत्याद्यवगतपदार्थमात्रपर्यवसायित्वेन स्मार्त्तेष्वव्यापारात्प्रथमं प्रयोगवचनव्यापारवेलायामित्यत्थाश्रयत्वेनापरिकल्पितस्य पश्चात्- द्वद्यापारपर्यवसानोत्तरकालं स्मृतिवशादागतस्य प्राप्तस्य पदार्थस्यानुष्ठानेन पूर्वस्य प्रयोग- विधिब्यापारकालोनस्येयत्तावधारणस्य भ्रंशादित्यर्थः । वैदिकस्य सुनेदेन होमादेर्नैमित्ति- कस्यापि प्रयोगविधिब्यापारवेलायामेवानुष्ठेयत्वावधारणान्न तदनुष्ठाने पूर्वावधारणभ्रं- शापत्तिः । वैगुण्याशङ्कायां चापूर्वातिशयहेतुश्रद्धाविरहादपूर्वदौर्बल्यमात्रं भवति न तु सर्वथाऽनुपपत्तिः । तदुत्पादकसमस्ताङ्गप्रधानानुष्ठानस्य निष्पन्नत्वाच्छ्रद्धायाश्चापूर्वातिशय- हेतुत्वं 'यदेव विद्यया करोति, श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवती (छा० उ० १.१.४) त्यतिशयवाचितरप्रत्यययुक्त्या श्रुत्या । श्रद्धयेष्टं च पूत्तं च नित्यं कुर्यादतन्द्रितः । श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥ इति स्मृत्या चाक्षयहेतुत्वं श्रद्धाया वदन्त्यार्थान्तरभावे क्षीणत्वप्रतिपादनादवसीयते । ननु किंचित्फललाभेऽपि विधेरर्थवत्त्वान्न शिष्टकोपापत्तिरित्याशङ्क्याह – तच्चेति । विधिसिद्धप्रवर्त्तनातिशयार्थेनार्थवादेन प्रवर्त्तनातिशयावसेयफलातिशयावसायात्तत्फलं सर्वं समग्रमतिशयवच्चार्थवादसहिताद्विधेरवगतमिति कृत्वा न्यूनत्वासहिष्णुतया फलातिशय- हेतुश्रद्धाविरहवैगुण्याशङ्कापादकपदार्यान्तरविधायकत्वेन विरुद्धामाचमनादिस्मृति बाधत- इत्यर्थः । इयत्ताविरोध एव सूत्रं योजयति-परिमितॆति । अङ्गशास्त्राणां यत्परिमाणम्, तदेवाङ्ग- नामित्यर्थः । क्रमकालेयत्तासाधारणपूर्वव्याख्यानापेक्षा वाशब्दः । प्रयोगविधिप्रमितप्रधान- प्रत्यासत्त्याक्षिप्तप्रयोगशैघ्रयविरोधं प्रधानप्रत्यासत्तिविरोधाभिधानेनार्थोक्तमपीदानीं प्रयोग- विधिना साक्षादपि प्रयोगशैघ्रयावगमात्पदार्थान्तरानुष्ठाने तद् विरोध इति प्रकारान्त- रेणाह—सहेति । उपसंहरति—तस्मादिति ॥ ६ ॥ भा० प्र०—'न' ना अर्थात् यह सङ्गत नहीं है, "शास्त्र परिमाणत्वात्” = क्योंकि शास्त्र परिमाण अर्थात् वेदशास्त्र से उपदिष्ट कर्म रहता है । किन्तु सिद्धान्ती का यह मत ठीक नहीं है, क्योंकि वेद वचन विहित अनन्तर कर्तव्य कर्म रहता है । यह पूर्व पक्ष है । आशय यह है कि भाष्यकार के मत के अनुसार प्रत्यक्ष श्रुति विरुद्ध स्मृति अप्रमाण है—यह पूर्वं अधिकरण में कहा गया है । प्रकृत में यह विचारणीय है कि वह कहाँ
७ ] प्रथमाध्याये तृतीयपादः ३५५ प्रमाण है और कहाँ अप्रमाण है । स्मृतियों में कहा गया है कि "क्षुत आचमेत", "आचान्तेन कर्तव्यम्", एक शास्त्रोक्त कर्म के करने के बाद दूसरे कर्म को करने से पूर्व यदि क्षुत् (छींक) होने पर आचमन करना चाहिये अर्थात् आचमन पूर्वक कर्म करना चाहिए । श्रुति में कहा गया है कि "वेदं कृत्वा वेदिं करोति" वेद अर्थात् कुश के गुच्छे से निर्मित सम्मार्जनी कर वेदि = आहवनीय एवं गार्हपत्य इन दो अग्नियों के मध्य में चार अङ्गुल परिमाण भूमि में गड्ढा करे इस स्थल में वेद करने के बाद यदि छींक हो तब स्मृति से विहित आचमन का अनुष्ठान करे और इसके बाद वेदि करे या आचमन किए विना ही वेदि का निर्माण करे ? इस प्रकार के संशय होने पर सिद्धान्ती यदि यह कहते हैं कि प्रकृत में जब श्रुति के साथ स्मृति का विरोध नहीं है, तब स्मृति के वचन से श्रुति वचन का व्याकोप या बाधा नहीं है, अतः स्मृति से उपदिष्ट वचन अविरुद्ध या प्रमाण होने से अनुष्ठेय है, किन्तु यह सङ्गत नहीं है, क्योंकि, "वेदं कृत्वा वेदिं करोति", इस स्थल में श्रुति में प्रयुक्त कृत्वोपद में 'क्त्वा', प्रत्यय से आनन्तर्य अर्थ का बोध हो रहा है । अतः वेद के बाद वेदि का निर्माण करना होगा—यही वेदवचन के द्वारा अर्थ अवगत हो रहा है, किन्तु स्मृति वचन के अनुसार यदि वेद करने के बाद आचमन करके अनन्तर वेदि किया जाय तो श्रुति के द्वारा कथित आनन्तर्य क्रम का बाध होगा । इसलिए श्रौतक्रम का विरोध होने से स्मृति के द्वारा प्रतिपादित आचमन कर्तव्य नहीं है, क्योंकि स्मृति की अपेक्षा श्रुति बलवती होती है । यही पूर्वपक्षियों का आशय है । इसी प्रकार "दक्षिणाचारेण कर्तव्यम्" दक्षिण हस्त से ही शास्त्रोक्त कर्म करे, यह स्मृति वचन श्रौत काल के साथ विरुद्ध होने से अनादरणीय है, क्योंकि, श्रुति में पूर्वाह्ण आदि काल नियमित है, किन्तु केवल दक्षिण हस्त से कर्म का अनुष्ठान किया जाय तो पूर्वाह्ण आदि श्रौतकाल के मध्य में कर्म का समापन नहीं होगा, अतः, दोनों हाथ से शास्त्रीय कर्मों का सम्पादन करना उचित है । क्योंकि; ऐसा करने से अतिशीघ्र कर्म का सम्पादन होने से श्रौतकाल का अतिक्रमण नहीं होगा । परिमाण के सम्बन्ध में इसी प्रकार समझना चाहिये । अत एव श्रुति संबोधित पदार्थ के = कर्म के समान श्रौत क्रम काल एवं परिमाण आदि के साथ विरोध होने पर भी स्मृति विहित कर्म अनुष्ठेय नहीं है ॥ ६ ॥ यह पूर्व पक्ष है । अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ॥७॥ सि० शा० भा०—अपि वेति पक्षव्यावृत्तिः । अगृह्यमाणकारणा एवंजातीयकाः प्रमाणम् । ननु क्रमकालौ विरुन्धन्ति ? विरुन्धन्तु । नैष दोषः । आचमनं पदार्थः, पदार्थानाञ्च गुणः क्रमः । न च गुणानुरोधेन पदार्थो न कर्तव्यो भवति । अपि च प्राप्तानां पदार्थानामुत्तरकालं क्रम आपतति । यदा पदार्थः प्राप्नोति, तदा क्रम
१५९ मीमांसादर्शनम् [ सू० एव नास्ति, केन सह विरोधो भविष्यति इति । तथा यदि दक्षिणेन नाऽऽचर्यते, मा विरोधीदिति, तत्र कालानुरोधेन पदार्थो नाऽऽन्यथात्वमभ्युपगच्छेत् । प्रयोगाङ्गं हि कालः पदार्थानामुपकारकः । अतो न कालानुरोधेन व्यथयितव्यः पदार्थः । अपि च शौचम्, दक्षिणाचारता, यज्ञोपवीतित्वम्, चैवंजातीयका अर्था व्यवघातारो न भवन्ति, सर्वपदार्थानां शेषभूतत्वात् । तस्मादाचमनादीनां प्रामाण्यम् ॥ ७ ॥ भा० वि०-एवं श्रौतार्थबाधकतया विरोधे, विरोधाद्वाननुष्ठाने प्राप्ते सिद्धान्तयति - अपि वेति । तत्र विरोधादननुष्ठानमिति मतं व्यावर्तयितुं सूत्रा- वयवं व्याचष्टे - अपि वेति । अवशिष्टं व्याकरोति - गृह्यमाणेति । यस्मादपरि- दृश्यमानलोभादिकारणाः आचमनादयोऽर्थाः, तस्मात्प्रमाणमनुष्ठेया इत्यर्थः । यद्यपि स्मार्ताचमनाद्यनुप्रवेशे श्रौतक्रमादिबाधात् श्रुत्या सह स्मृतेर्विरोधः, तथापि हेतुदर्शनविशिष्टस्यैव विरोधस्याप्रामाण्यप्रयोजकत्वाद्विशेषणाभावे च विशिष्ट- प्रयोजकाभावेन तदप्रामाण्याभावाद्युक्तं तदनुष्ठानमित्यभिसन्धिः । कारणा- ग्रहणे सति प्रयुक्तानि-शिष्टैरनुष्ठीयमानानि, प्रतीयेरन्-आश्रीयेरन् इति सूत्रार्थः । परिहारान्तरं वक्तुं चोद्यमुद्भावयति - नन्विति । विरुन्धन्ति एवंजातीयका इत्यनुषङ्गः, क्रतुमनुप्रवेश्यमाना आचमनादय इत्यर्थः । आचमनादीनां पदार्थतया प्राधान्यात्, क्रमादीनां च पदार्थधर्मतया गुणत्वात्, गुणानुरोधेन च प्रधान- बाधासम्भवाद्युक्तमाचमनादीनामनुष्ठानमिति, परिहरति - विरुन्धिन्त्विति । एत- दुपपादयति - आचमनमित्यादिना । क्रम इति कालस्याप्युपलक्षणम्, न च कालस्य स्वतन्त्रपदार्थतया पदार्थधर्मत्वासंभवः । अनुष्ठेयपदार्थविच्छेदकतया तस्यापि तद्धर्मत्वादिति द्रष्टव्यम् । एवं तावद्विरोधेऽप्याचमनादीमनुष्ठेयतां प्रतीयेरन्नित्येतदन्तस्य सूत्रवाक्य- स्यार्थतया व्युत्पाद्येदानीं तेष्वदर्शनाद्विरोधस्येत्युक्तसूत्रावयवमनुषङ्गेणात्रापि योजयन् विरोधपूर्वकपक्षं दूषयति - अपि चेत्यादिना । तत्र क्रमविरोधं तावन्नि- रस्यति - प्राप्तानामिति । विनियोगवचनवशेन हि पदार्थेषु प्राप्तेषु पश्चाद- नुष्ठानाङ्गतया क्रमोऽपेक्ष्यते अतः प्राप्तेषु पदार्थेषु पश्चात् क्रमः प्राप्तः, ततः किमत आह - यदेति । इति शब्दः क्रमनिराससमाप्तौ, कालविरोधं निरस्यति - तथेति । प्रधानप्रत्यासत्यादिरूपः कालो बाधितो मा भूदिति, यदि दक्षिणेनैव हस्तेन नाचायेँतेत्यर्थः । व्यथाबाधः अस्तु को दोषस्तत्राह - प्रयोगेति । न हि पदार्थानां उत्पत्तिविनियोगयोः कालापेक्षा, अपि र्तहि प्रयोगे कर्तव्यमित्युक्ते कदेत्यपेक्षा भवति । तेन प्रयोगाङ्गत्वात् कालोऽपि पदार्थसिद्धयुत्तरकालीन इत्यर्थः । इतोऽपि तत्सिद्धयुत्तरकालीन इत्याह - पदार्थानामिति । करणोप-
७ ] प्रथमाध्याये तृतीयपादः ३५७ कारकतया विनियुक्तानां पदार्थानामवच्छेदक इति यावत् । पदार्थानामुपजीव्यत्वे फलितमाह—अत इति । निखिलाङ्गप्रधानोपकारकत्वाच्चाचमनादीनां न तैर्व्यवधानमित्याह-अपि चेति । शौचं-शुद्धता, आचान्तता यज्ञोपवीतत्वं चेत्यस्या- नन्तरमिति शब्दमध्याहृत्यैवं जातीयकपदेन संबन्धनीयम् । सर्वोपकारकत्वमेवं जातीयकशब्देन सूचितम्, तेन यदा वेदं कृत्वा वेदिमकृत्वापि क्षुत आचामति, तदा स वेदिमेव करोति । अनाचमने वेदिकरणस्यैव वैगुण्यापातादित्याशयः, तदनेन तेष्वाचमनादिषु क्रतुमनुप्रवेश्यमानेषु श्रौतक्रमादिभिः विरोधस्यादर्शना- दिति सूत्रावयवो व्याख्यातः, यस्मादेवमविरोधः । विरोधेऽपि वा पदार्थतयाचमनादीनां प्राबल्यं तस्मात् कर्तव्यानीति निगम- यति—तस्मादिति ॥ ७ ॥ त० वा—तेष्वदर्शनाद्विरोधस्येति वा समासः । अनन्तरसूत्रे विप्रतिपत्त्यु- पात्तविरोधाभावोक्तेरनुपयुज्यमानत्वात्, इह च प्रक्रान्तविरोधाभावस्यावश्यवच- नीयत्वात् । उपयोगसद्भावेऽपि च काकाक्षिवदनुषङ्गेण, तन्त्रेण चोभयसम्बन्धात् । अपि वा कारणं दृष्टं यस्मादेषु न गृह्यते । तस्मान्नाऽऽचमनादीनां क्रतुश्रुतिविरुद्धता ॥ २८७ विरोधत्याजितश्रुतिविरुद्धता । विरोधत्याजितश्रुतिमूलस्य हि स्मरणस्य यस्य मूलान्तरमिदं संभवदुत्प्रेक्षामात्रेणोपप्लवते, तत्राल्पेनैव प्रयासेन निराशङ्क- प्रमाणत्वं निश्चीयते । यत्र तूत्प्रेक्षयाऽप्यन्यत्कारणं नावलम्ब्यते । अत्यन्तानन्यमूलत्वाच्छ्रुतितस्तत्प्रमाणता ॥ २८८ न वाऽऽचमनादिस्मृतेः कामक्रोधलोभद्वेषमानलज्जादिकारणं किंचित्संभाव्यते, यन्मूलत्वेन श्रुतिमूलत्वमपहूयेत । अनन्यमूलिकायां च श्रुतौ मूलेऽवधारिते । विरोधेऽपि प्रमाणत्वं स्मृतेः श्रुत्या न वार्यते ॥ २८९ इयत्ताक्रमकालाश्च श्रोतत्वाद्बलवत्तराः । पदार्थधर्मभावात्तु दुर्बलत्वादबाधकाः ॥ २९० ननु पूर्वभावित्वात्प्रमाणबलाबलमेव प्रमेयबलाबलाज्ज्यायस्त्वेन प्रतिभाति । उच्यते—नैव तावच्छ्रुतिस्मृत्योः स्वरूपेण विरुद्धता । बलाबलपरीक्षा वा प्रमेयद्वारिका हि सा ॥ २९१ प्रमेयगतं हि विरोधमालोच्य प्रमाणविरोधबुद्धिर्भवति । तद्यस्यामेव वेलायां विरोधो दृश्यते तयोः । प्रमेययोः स्वरूपस्थं तस्मादेव बलाबलम् ॥ २९२
३५८ मीमांसादर्शनम् [ सू० येषां पदार्थधर्मत्वादौर्बल्यं पूर्वनिश्चितम् । न तेषां श्रुत्यवष्टम्भात्तत्पश्चादपगच्छति ॥ २९३ पदार्थत्वेन येषां च वलीयस्त्वं निरूपितम् । न स्मृतेर्दुर्बलत्वेन पुनस्तदपनीयते ॥ २९४ नित्यमेवाप्रमाणं यत्तदेवं बाधमर्हति । आपेक्षिकाप्रमाणं तु स्यात्प्रमाणमपेक्षया ॥ २९५ न च प्रमेयदौर्बल्यबलीयस्त्वनिबन्धनम् । प्राप्तं स्मृतिप्रमाणत्वं प्रमाणस्थेन बाध्यते ॥ २९६ न च प्रमेयदौर्बल्ये सत्यपि श्रुतिबाधनम् । तावता मन्दतेजस्त्वात्स्मृतिस्तां नैव बाधते ॥ २९७ एतदेव श्रुतेः पश्चाद् बहु यत्र स्मृतिर्वृथा । महास्मृत्याऽपि या काचिन्न शक्या बाधितुं श्रुतिः ॥ २९८ युगपत्प्राप्तिहेतुश्च विरोधस्तुल्यकार्ययोः । इह तु द्वयमप्येतन्नास्ति तेनाविरुद्धता ॥ २९९ कालेयत्ताक्रमाणां हि सर्वान्ते प्राप्तिरिष्यते । सुजघन्यप्रमाणोऽपि पदार्थः पूर्वमश्नुते ॥ ३०० प्राप्तेषु हि पदार्थेषु क्रमः पश्चादपेक्षते । यदा प्राप्तेष्वसौ क्लृप्तः केन पश्चाद्विरुध्यते ॥ ३०१ परिमाणमपि त्वार्थमविस्मरणसिद्धये । स्वयमालोच्यते प्राज्ञैः स्मार्तैः सह तदिष्यते ॥ ३०२ न केनचित्प्रमाणेण पदार्थेयत्ता परिच्छिद्यते । तत्र यदि तेन विनाऽन्ये समस्तपदार्थस्मृतिहेतवो न स्युः, तत एतदप्येकं कारणमिति परिमाणमपि स्थाप्येत । तस्यामपि त्ववस्थायां यथा श्रौतमात्रपरिमाणमसमाप्य, समाख्यापर्यन्त- प्रापितपदार्थगतपरिमाणावधारणमाश्रीयते, तथा स्मृत्याचारपर्यन्तावगतपरि- माणमाश्रयिष्यत इति निर्दोषम् । कालस्याङ्गत्त्वोपपादनम् कालोऽपि च प्रयोगाङ्गं सर्वान्ते सोऽपि गृह्यते । स्मार्तैः सह ससाहित्यमाशुत्वं वा प्रपत्स्यते ॥ ३०३ कालो ह्ययं प्रधानस्य सर्वाङ्गसहितस्य यः । अङ्गैरविप्रकृष्टत्वमीदृशस्यैव चोद्यते ॥ ३०४
७ ] प्रथमाध्याये तृतीयपादः ३५९ तस्माद्यत्किंचनप्रमाणकसर्वपदार्थप्राप्त्युत्तरकालापेक्षितसम्बन्धः कालोऽपि नैव सर्वोपसंहारविरोधीति तेषु क्रमकालपरिमाणेष्वदर्शनाद्विरोधस्येत्युच्यते । विरोधो नास्तीतिकथनं यद्वा तेष्वाचमनादिषु क्रियमाणेष्वदर्शनाद्विरोधस्येति सूत्रार्थयोजना । अपि च— शौचयज्ञोपवीतादेर्न स्वतन्त्रपदार्थता । सर्वं ह्यङ्गप्रधानार्थं तेन न व्यवधायकम् ॥ ३०५ अतदङ्गेन हि तुल्यकक्ष्येण व्यवधानं भवति, न सर्वपदार्थेन । वेदं कृत्वा यदा वेदिमकृत्वाऽऽचामति क्षुते । वेदिमेव करोतीति स वक्तुं शक्यते तदा ॥ ३०६ वेदिरेव ह्यनाचम्य कुर्वतो विगुणी भवेत् । तामेव सगुणां कर्तुं शुद्ध्यै न व्यवधास्यते ॥ ३०७ इममेवार्थमभिप्रेत्य भाष्यकारेणोक्तं न चैवंजातीयका अर्थाः पदार्थानां व्यव- धातारो भवन्तीति । इतरथा ह्यङ्गप्रधानार्थत्वेनाश्रीयमाणे शून्यहृदयवचन- मेवैतत्स्यात् । तस्मादाचमनादीनां क्रतुभिः संग्रहे सति । पश्चात्प्राप्तक्रमेयत्ताकालशास्त्रविरोधिता ॥ ३०८ भाष्यकारोक्तोदाहरणाक्षेपः नन्विदं यज्ञोपवीतमुदाहर्तव्यम् । दर्शपूर्णमासदिषु ‘उपव्ययते देवलक्ष्ममेव तत्कुरुते (२-५-११) इति क्रत्वङ्गप्रत्यक्षविधानात् । तथा काठके चानारभ्यवाद- विधिना सर्वयज्ञगतयजनयाजनसम्बन्धः, अध्यापनाध्ययनसम्बन्धश्च श्रूयते । प्रसृतेन वै यज्ञेन देवा स्वर्गं लोकमायन्नप्रसृतेनासुरानपराभावयन् । प्रसृतो ह वै यज्ञोपवीतिनो यज्ञोऽप्रसृतोऽनुपवीतिनो यद्वै किं च ब्राह्मणो यज्ञोपवीत्यधीते यजत एव तत्तस्माद्यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा यज्ञस्य प्रसृत्या २-२—इति’ तथाऽऽचमनविधिरपि ‘दक्षिणत उपवीयोपविश्य हस्ताववनिज्य त्रिराचम्य, द्विः परिमृज्य, दर्भाणां महदुपस्तीर्योपस्थं कृत्वा, प्राङ्मुख उपविश्य, स्वाध्यायम्- धीयीत’ इति । यद्यपि ब्रह्मयज्ञप्रकरणे श्रूयते तथाऽपि वेदोच्चारणसंबन्धात्तद- ङ्गत्वेनापि तावज्जायमानं सर्वयज्ञानां मन्त्रवत्प्रयोगित्वात्तदङ्गं भवति । तथा च “न सोमेनोच्छिष्टा भवन्ति” इति प्राप्ताचमनप्रतिषेधार्थमेवावधार्यते ।
सूत्राणि तु पूर्वाधिकरणारक्षेपपरिहारसूत्रत्वेनैव व्याख्यातव्यानि । यत्तर्हि
३६० मीमांसादर्शनम् [ सू० दक्षिणाचारत्वं तु— यत्राऽऽहृत्य विधानेन स्यात्सव्याञ्जलिचोदना । तस्मादेव निवर्तेत नान्यत्राऽऽशङ्क्यतेऽपि तत् ॥ ३०९ “यथा वै दक्षिणः पाणिरैवं देवयजनम्” इति प्रागुदक्प्रवणविधिपरे वाक्ये देवयजनवद्यज्ञाङ्गत्वौचित्यादुपमानमवकल्पते । तेन नात्रेकमपि विरोधबाधशङ्- कायोग्यमित्यनुदाहरणानि । तस्मान्नैव तदधिकरणान्तरम् । वेदाविरुद्धशाक्यादिवचसामप्रामाण्यनिरूपणम् । सूत्राणि तु पूर्वाधिकरणारक्षेपपरिहारसूत्रत्वेनैव व्याख्यातव्यानि । यत्तर्हि वेदविहितं न बाधते, शिष्टान्वा वेदविदो न कोपयति । विहाराराममण्डलकरण- वैराग्य-ध्यानाभ्यासाऽहिंसा-सत्यवचन-दम-दान-दयादि, तद्बुद्धादिभाषितं प्रमाणे- नाविरुद्धमिति चेत् ? न । शास्त्रपरिमाणत्वात् । परिमितान्येव हि चतुर्दशाऽष्टादश वा विद्यास्थानानि धर्मप्रमाणत्वेन शिष्टैः परिगृहीतानि, वेदोपवेदाङ्गोपाङ्गाष्टादशधर्मसंहिता- पुराणशास्त्रशिक्षा-दण्डनीतिसंज्ञकानि, । न च तेषां मध्ये बौद्धार्हतादिग्रन्थाः स्मृताः गृहीता वा । प्रतिकञ्चुकरूपेण पूर्वशास्त्रार्थगोचरम् । यदन्यत्क्रियते तस्य धर्मं प्रत्यप्रमाणता ॥ ३१० तथा च प्रायश्चित्तादिदानकाले यो वाक्यमात्मीयम्, अन्यकविकृतं वा श्लोकम्, सूत्रं वोच्चार्य मानवादिप्रायश्चित्तं दद्यात् कश्चिदपि धर्मार्थं प्रतिपद्येत । वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता । नित्यानामभिधेयानां मन्वन्तरयुगादिषु ॥ ३११ तेषां विपरिवर्तेषु कुर्वतां धर्मसंहिताः । वचनानि प्रमाणानि नान्येषामिति निश्चयः ॥ ३१२ तथा च “मनोर्ऋचः सामिधेन्यो भवन्ति” इत्यस्य विधेर्वाक्यशेषे श्रूयते “मनुर्वै यत्किंचिदवदत्तद्भेषजं भेषजतायै” इति प्रायश्चित्ताद्युपदेशवचनं पापव्याधेर्भेषजम् । न वैतच्छ्रुतिसामान्यमात्रं नित्येऽपि संभवात् । यज्ञेऽध्वर्युँरिव ह्यस्ति मनुर्मन्वन्तरे सदा ॥३१३ प्रतिमन्वन्तरं चैवं १स्मृतिरन्या विधीयते । स्थिताश्च मनवो नित्यं कल्पे कल्पे चतुर्दश ॥ ३१४ १. श्रुतिरन्येति पाठः ।
७ ] प्रथमाध्याये तृतीयपादः ३६१ तेन तद्वाक्यचेष्टानां सर्वदैवास्ति संभवः । तदुक्तिज्ञापनाच्चेदो नानित्यऽतो भविष्यति ॥ ३१५ प्रतियज्ञं भवन्त्यन्ये सर्वदा षोडशर्त्विजः । आदिमत्त्वं च वेदस्य न तच्चरितबन्धनात् ॥ ३१६ उक्तं च—यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भाति युगादिषु ॥ इति । ३१७ इतिहासपुराणं च कृत्रिमत्वेन निश्चिते । यथाऽप्यकृत्रिमे वेदे तद्विद्यात्वेन संमतम् ॥ ३१८ एवं ह्युपनिषत्सूक्तम्—“ऋग्वेदं भगवोऽध्येमि, यजुर्वेदम्, सामवेदम्, अथर्ववेदं चतुर्थमितिहासं पुराणं पञ्चमम्” (छा० उ० ७.१ इति) । तेन प्रतिकल्प-मन्वन्तर- युगनियतनित्यऋषिनामाभिधेयकृत्रिमविद्यास्थानकारा ये वेदेऽपि मन्त्रार्थवादेषु श्रूयन्ते, तत्प्रणीतान्येव विद्यास्थानानि धर्मज्ञानाङ्गत्वेन संमतानि । तथा च ऋग्वेदादिविहितयज्ञाङ्गभ्रंशप्रायश्चित्तविशेषानभिधाय 'यज्ञविज्ञात इति ।' प्राय- श्चित्तान्तरं विदधत् त्रैविद्यवृद्धस्मृतिविहितविनष्टोद्देशेनैव विदधातीति गम्यते । अन्यथा हि प्रत्यक्षवेदविहितं सर्वं विज्ञातमूलविशेषत्वादविज्ञातमूलत्वेनानभिधेय- मेव स्यात् । यदि च स्मर्यमाणवेदमूलग्रन्थनिबन्धनानामविज्ञातवेदविशेषपूर्वकत्वे- नापि स्थितानां प्रामाण्यं नाऽऽश्रीयेत, तथा सति नैवाविज्ञातमूलं किंचिद्यज्ञे क्रियत इति, तद्विनष्टप्रायश्चित्तविधिर्नैवोपपद्येत । तस्माद्यान्येव शास्त्राणि वेदमूलानतिक्रमात् । अवस्थितानि तैरेव ज्ञातो धर्मः फलप्रदः ॥ ३१९ यथैवाऽन्यायविज्ञाताद्वेदाल्लेख्यादिपूर्वकात् । शूद्रेणाधिगताद्वापि धर्मज्ञानं न संमतम् ॥ ३२० तथाऽतिक्रान्तवेदोक्तमर्यादाव्यवहारिणाम् । संवादिष्वपि वाक्येषु नेष्यते धर्महेतुता ॥ ३२१ स्मर्यन्ते च पुराणेषु धर्मविप्लुतिहेतवः । कलौ शाक्यादयस्तेषां को वाक्यं श्रोतुमर्हति ॥ ३२२ यथा कृतककर्पूरसुवर्णादिषु दीयते । यद्वीजं तदपि व्यक्तमग्राह्यत्वात्प्रलीयते ॥ ३२३ तेन कर्मानुरूप्यसामान्यतो दृष्टार्थापत्तिबलात्तदभिप्रायकल्पितधर्माभासमध्य- पतितं सन्मूलमप्यहिंसादि श्वदृतिनिक्षिप्तक्षीरवदनुपयोग्यविश्रम्भणीयं च । तन्मात्रोपलब्धं भवतीत्यवश्यम्, यावत्परिगणितधर्मशास्त्रेभ्यो नोपलभ्यते, तावद- ग्राह्यं भवति ।
३६२ मीमांसादर्शनम् [ सू० यदा शास्त्रान्तरेणैव सोऽर्थः स्पष्टोऽवधार्यते । तदा तेनैव सिद्धत्वादितरस्यादनर्थकम् ॥ ३२४ तस्माद्यावत्परिगणितवेदादिशाख्यव्यतिरिक्तनिबन्धनं तद्धर्मप्रमाणत्वेन नापे- क्षितव्यमिति । सदाचारप्रामाण्याधिकरणम् । यत्त्वेतत् । ‘अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्’, इति । सूत्रम् । अत्र सदाचारानुदाहृत्य त्रिवर्गसिद्ध्यर्थं विचार्यते । तद्विपरीतसंकीर्णव्यव- हारिषु शिष्टेष्वपथ्यकारिवैद्यातुरवद्विस्रम्भणीयचरितत्वात्संभाव्यमानवेदमूलत्वाच्च धर्मसंशयं दर्शयित्वा “धर्मस्य शब्दमूलत्वादशब्दमनपेक्ष्यम्” इति पूर्वः पक्षः क्वचिच्च “विरोधे त्वनपेक्ष्यम्” इत्येतन्न्यायानुसारेण । सदाचारेषु हि दृष्टो धर्मव्यतिक्रमः, साहसं च महतां प्रजापतीन्द्रवसिष्ठविश्वामित्रयुधिष्ठिरकृष्णद्वैपायन- भीष्मधृतराष्ट्रवासुदेवार्जुनप्रभृतीनां बहूनामद्यतनानां च । प्रजापतेस्तावत्प्रजापति- रुषसमभ्यैत्स्वां दुहितरमित्यगम्यागमनरूपादधर्माचरणाद्धर्मव्यतिक्रमः । इन्द्र- स्यापि तत्पदस्थस्य च नहुषस्य परदारानियोगाद्धर्मव्यतिक्रमः । तथा वसिष्ठस्य पुत्रशोकार्तस्य जलप्रवेशात्मत्यागसाहसम् । विश्वामित्रस्य चाण्डालयाजनम् । वसिष्ठवत्पुरूरवसः प्रयोगः। कृष्णद्वैपायनस्य गृहीतनैष्ठिकब्रह्मचर्यस्य विचित्र- वीर्यदारेष्वपत्योत्पादनप्रसङ्गः । भीष्मस्य च सर्वाश्रमधर्मव्यतिरेकेणावस्थानम् । अपत्नीकस्य च रामवत्क्रतुप्रयोगः । तथाऽन्धस्य धृतराष्ट्रस्येज्या पाण्डुवर्जितैर्ध- नैरित्यनधिकृतक्रिया । तथा युधिष्ठिरस्य कनीयोऽर्जितभ्रातृजायापरिणयनमाचार्य- ब्राह्मणवधार्थमनृतभाषणं च । वासुदेवार्जुनयोः प्रतिषिद्धमातुलदुहितृरुक्मिणी- सुभद्रापरिणयनम्, उभौ मध्वासवक्षीबाविति सुरापानाचरणम् । अद्यतनानामाचाराक्षेपः अद्यत्वेऽप्यहिच्छत्रमथुरानिवासिब्रााह्मणीनां सुरापानम् । केसर्यश्वाश्वतरखरो- ष्ट्रोभयतोदद्वानप्रतिग्रहविक्रयव्यवहारभार्यापत्यमित्रसहभोजनाद्युदीच्यानाम् । मातृ- लदुहितृद्वाहासान्दीस्थभोजनादीनि दाक्षिणात्यानाम् । मित्रस्वजनोच्छिष्टस्पृष्ट- भोजनं सर्ववर्णपरस्परस्पृष्टताम्बूलादनतदवसानानाचमननिर्णेजकधौतगर्दभारूढ- वस्त्रपरिधानब्रह्महत्यातिरिक्तमहापातककार्यपरिहरणादीन्युभयेषाम् । अतिस्थूलानि प्रतिपुरुषजातिकुलावस्थितसूक्ष्मस्वधर्मव्यतिक्रमणानि त्वनन्तभेदानि सर्वत्र विगानहेतुदर्शनानि च प्रायेणैव संभ्रन्तीति, नैवंजातीयकमिश्रसदाचारधर्मत्वा- ध्यवसानसंभवः । किं च—के शिष्टा ये सदाचाराः सदाचाराश्च तत्कृताः । इतीतरेतराधीननिर्णयत्वादनिर्णयः ॥ ३२५
७ ] प्रथमाध्याये तृतीयपादः ३६३ आत्मतुष्टेः प्रामाण्याक्षेपः ननु—सदाचारप्रमाणत्वं मन्वादिभिरपि स्मृतम् । आत्मतुष्टिः स्मृतान्यैस्तैर्धर्मे सा चानवस्थिता ॥ ३२६ यथाभ्यासं ह्याशयवैचित्र्येण शुभाशुभोभयहीनक्रियानुष्ठायिनामात्मतुष्टिरपि विचित्त्रैव भवति । तथा हि—कस्यचिज्जायते तुष्टिरशुभेऽपि हि कर्मणि । शाक्यस्येव कुहेतूक्तिर्वेदब्राह्मणदूषणे ॥ ३२७ तथा—पशुहिंसादिसंबन्धे यज्ञे तुष्यन्ति हि द्विजाः । तेभ्य एव हि यज्ञेभ्यः शाक्या क्रुध्यन्ति पीडिताः ॥ ३२८ तथा—शूद्रान्नभोजनेनापि तुष्यन्त्यन्ये द्विजातयः । स्वमातुलसुतां प्राप्य दाक्षिणात्यस्तु तुष्यति ॥ २२९ अन्ये तु सव्यलीकेन मनसा तन्न कुर्वते । ततश्चानवस्थितत्वाद्यथैवाऽऽत्मनस्तुष्टिरेव चेत्येतन्मनुवचनं कथमप्यन्यथा नेतव्यम् । एवमाचारश्चैव साधूनामित्येतदपीति । स्वयमज्ञातमूलाश्च शिष्टाचारप्रमाणताम् । वदन्तोऽपि न शोभन्ते स्मृतिकारास्ततोऽधिकाः ॥ ३३० स्मृतिकारवचनार्थो हि शिष्टैराचरितव्यः शिष्टत्वाय । अन्यथा हि तदनपेक्षाः स्वातन्त्र्येण व्यवहरमाणा दुष्टा भवेयुः, न शिष्टाः । न च तेषां श्रुतिमूलं व्यवहारस्य दृश्यते । यदि च स्यात्परोक्षाऽपि स्मर्येतैव ह्यसौ ध्रुवम् ॥ ३३१ तस्मान्निर्मूलत्वादपेक्षाणि शिष्टाचरणानीति प्राप्ते । सिद्धान्तः अभिधीयते—“अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ।” दृष्टकारणहीनानि यानि कर्माणि साधुभिः । प्रयुक्तानि प्रतीयेरन्धर्मत्वेनेह तान्यपि ॥ ३३२ शरीरस्थितये यानि सुखार्थं वा प्रयुञ्जते । अर्थार्थं वा न तेष्वस्ति शिष्टानामेव धर्मधीः ॥ ३३३ धर्मत्वेन प्रपन्नानि शिष्टैर्यानि तु कानिचित् । वैदिकैः कर्तृसामान्यात्तेषां धर्मत्वमिष्यते ॥ ३३४
३६४ मीमांसादर्शनम् [ सू० प्रदानानि जपो होमो मातृयज्ञादयस्तथा । शुक्रध्वजमहोध्यात्रा देवतायतनेषु च ॥ ३३५ कन्यकानां च सर्वासां चतुर्थ्याद्युपवासकाः । प्रदीपप्रतिपद्दानमोदकापूपपायसाः ॥ ३३६ अनग्निपक्वमाघसप्तमीपौर्णमासीफाल्गुनोप्रतिपद्वसन्तोत्सवादीनां नियमक्रिया- प्रमाणं न शास्त्रादृते किंचिदस्ति । स्मृतिकाराश्चाऽऽचारश्चैव साधूनाम्, देशजातिकुलधर्माश्चाऽऽम्नायैरविरुद्धाः प्रमाणमिति (आपस्तम्ब-धर्म-सूत्रम्), वेदाविरुद्धानामाचाराणां सामान्यतः प्रामाण्यमनुमन्यन्ते । तथाऽनध्यायाधिकार ऊर्ध्वं भोजनादुत्सव इति देशनगरोत्सव- प्रामाण्याश्रयणम् । वेदेऽपि च महाव्रते प्रेङ्खमारुह्य होता शंसतीत्येतद्वाक्यशेषे श्रूयते । यदा वै प्रजा मह आविशन्ति, प्रेङ्खं तह्र्यारोहन्तीति । महःशब्द- वाच्योत्सवप्रसिद्धिरनूदिता । यत्तु परिमितशास्त्रप्रमेयत्वादद्धर्माधर्मयोरिह च तदसंभवादित्युक्तम् । तद्वेद- मूलत्वानुमानात्पूर्ववदेव प्रत्याख्येयम् । न च स्मृतिर्निर्मूला, विस्तरवचनानामपि प्रपाठकमात्रेणोपसंहारात्, किमुत संक्षेपवचनस्य । शक्यं च स्मृत्यनुरूपमेव वेद- वचनमनुमातुम् । तथा हि—शिष्टैराचर्यमाणानां सतां गोदोहनादिवत् । फलसंबन्धमप्राप्तं बोधयच्छास्त्रमर्थवत् ॥ ३३७ न हि तदेवैकं शास्त्रप्रमाणकम्, यस्य स्वरूपमपि तत एवावगन्तव्यम् । अनेका- कारस्य हि प्रमेयस्य कश्चिदेवाऽऽकारः केनचित्प्रमाणेन् प्रमीयते । तत्र प्रत्य- क्षाद्यवगतेऽप्याचारस्वरूपे दधिगोदोहनादिवत्फलसंबन्धः शास्त्रेणावगम्यते । यागा- दिष्वपि च नैवं स्वरूपज्ञानेन शास्त्रमपेक्षितम्, फलसंबन्धमात्रस्यैवातीन्द्रियत्वेन तदपेक्षितत्वात् । अतो न नामोपलक्षणमन्तरेण शास्त्रं प्रवृत्तमुपलभ्य शिष्टाः प्रवृत्ताः सर्वकालं तु शिष्टव्यवहार-शास्त्रयोरवियोगाद् व्यवहारादेवोद्धृत्य केचि- त्स्वर्गादिसाधनत्वेन नियम्यमानः कादाचित्कत्वपरित्यागेन नित्यप्रयोज्या विज्ञा- यन्ते । तेषां चाऽऽर्यावर्तनिवासिशिष्टप्रयोज्यत्वमेवोपलक्षणं वेदेनापि सरस्वतीवि- नशनप्लक्षप्रस्रवणादिवदुपात्तमिति शक्यमनुमातुम् । अन्योन्याश्रयत्वशङ्कानिरासौ ननु शास्त्रार्थकारित्वाच्छिष्टत्वं गम्यते यदा । शिष्टत्वेन च शास्त्रोक्तिरित्यन्योन्याश्रयं भवेत् ॥ ३३८ नैव तेषां सदाचारनिमित्ता शिष्टता मता । साक्षाद्विहितकारित्वाच्छिष्टत्वे सति तद्वचः ॥ ३३९
७ ] प्रथमाध्याये तृतीयपादः ३६५ प्रत्यक्षवेदविहितधर्मक्रियया हि लब्धशिष्टत्वव्यपदेशा यत्परम्पराप्राप्तमन्यदपि धर्मबुद्ध्या कुर्वन्ति। तदपि स्वर्ग्यत्वाद्धर्मरूपमेव। तद्यथा शुश्रुवान्विद्वाननूचानश्च वैदिकः। पुनस्तल्लक्षितो वेदे तेनैवाध्ययनादिषु ॥ ३४० तेनाहोरात्रपौर्वापर्यवदनादित्वाद् वेदतदर्थानामितरेतराश्रयत्वाप्रसङ्गः। स्मृति- रप्याचारं वेदवचनं वोपलभ्याभ्यनुज्ञानायैव प्रवृत्तेत्यदोषः। यत्तु हेत्वन्तरं दृष्ट्वा वेदमूलनिवारणम्। प्रत्यक्षवेदमूलेऽपि तद् दृष्टैस्तदकारणम् ॥ ३४१ वेदेऽपि हि बहून्येव दृष्टार्थगन्धस्पृष्टानि विधीयन्त इति, न तावता वेदमू- लत्वाभावः। यानि तु म्लेच्छादिसमानानि नियतानियताक्रियान्तराण्यर्थसुखसाधनकृषि- सेवा-वाणिज्यादीनि मिष्टान्नपान-मृदुशयनासनरमणीयगृहोद्यानालेख्यगीतनृत्यगन्ध- पुष्पादिकर्माणि प्रसिद्धानि, तेषु नैव कस्यचिद्धर्मत्वाशङ्काऽस्तीति न तत्सा- मान्पतोदृष्टेनेतरनिराक्रियोपपत्तिः। केषांचिद्वा धर्मत्वाभ्युपगमान्न सर्वेषामेव तत्प्रसङ्गः। किं तु—देवब्राह्मणपूजादि यत्तेषामपि किंचन। तत्रेष्टमेव धर्मत्वं शिष्टाचारमतं हि तत् ॥ ३४२ लोके हि कश्चिदाचारः शिष्टत्वेन विशिष्यते। कश्चित्तु प्राणिसामान्यप्राप्तस्तैरपि संगतः ॥ ३४३ तत्र यः कार्यरूपेण शिष्टानेवानुवर्तते। स एव केवलो धर्मो नेतरः प्राणिमात्रगः ॥ ३४४ आत्मतुष्टेर्धर्मे प्रामाण्यसाधनम् एतेन वैदिकानन्तधर्मधीसंस्कृतात्मनाम्। आत्मतुष्टेः प्रमाणत्वं प्रसिद्धं धर्मशुद्धये ॥ ३४५ तथैव बहुकालाभ्यस्तवेदतदर्थज्ञानाहितसंस्काराणां वेदनियतमार्गानुसारि- प्रतिभानां नोन्मार्गेण प्रतिभातं संभवतीत्याश्रित्योच्यते—“यदेव किंचनानूचा- नोऽभ्यूहत्यार्षं तद्भवतीति”। वैदिकवासनाजनितत्वाद् वेद एव स भवति। आत्मतुष्टेः प्रामाण्योपसंहारः तथा हि-यथा रुमायां लवणाकरेषु मेरौ यथा वोज्ज्वलरुक्मभूमौ। यज्जायते तन्मयमेव तत्स्यात्तथा भवेद्वेदविदात्मतुष्टिः ॥ ३४६
१६६ मीमांसादर्शनम् [ सू० एवं च विद्वद्वचनाद्विनिर्गतं प्रसिद्धरूपं कविभिनिरूपितम् । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ इति । ३४७ अनेकैर्दृष्टांन्तरैरात्मतुष्टेः प्रामाण्यसमर्थनम्, बहुदिनाभ्यस्तधर्मव्याप्तात्मनो हि न कथंचिद्धर्मकरणरूपात्मतुष्टिरन्यत्र संभवतीति, धर्मत्वेनाभ्यनुज्ञायते । यद्वा शिष्टात्मतुष्टीनां वचनादेव धर्मता । पुण्यकृद्ध्यानवत्तस्मादाचारेष्वपि सा तथा ॥ ३४८ तथा वा वरदानादौ देवताराधनोद्भवे । तद्वक्ष्यसि स मन्त्रस्ते विषघ्न इति मन्त्रिते ॥ ३४९ लोकः स्मरति तं मन्त्रं विषापहरणादिषु । तथा वा सर्पसिद्धान्ते नकुलो यां किलौषधिम् ॥ ३५० दन्तैर्गृह्णाति तामाहुः समस्तविषहारिणीम् । यथा वा यां भुवं कश्चिदध्यावसति पुण्यकृत् ॥ २५१ तत्संपर्कपवित्रत्वात्सेव्यते पुण्यकारणम् । तथाऽऽचारात्मतुष्ट्यादिधर्म्मं धर्ममयात्मनाम् ॥३५२ वेदोक्तमिति निश्चित्य ग्राह्यं धर्मबुभुत्सुभिः ॥ ३५३ इति । पूर्वपक्षे उदाहृतानां क्रमेण परिहारवर्णनम् यत्तु प्रजापतिरुषसमभ्यैत्स्वां दुहितरमहल्यायां मैत्रेय्यामिन्द्रो जार आसी- दित्येवमादिदर्शनादितिहासदर्शनाच्च शिष्टाचारेषु धर्मातिक्रमं पश्यद्भिः शिष्टाचार- प्रामाण्यं दुरध्यवसानमिति । तत्रोच्यते— श्रुतिसामान्यमात्राद्वा न दोषोऽत्र भविष्यति । मनुष्यप्रतिषेधाद्वा तेजोबलवशेन वा ॥ ३५४ यथा वा न विरुद्धत्वं तथा तद्गमयिष्यति ॥ ३५५ प्रजापतिस्तावत्प्रजापालनाधिकारादादित्य एवोच्यते । स चारुणोदयवे- लायामुषमुद्यन्नभ्येत्, सा तदागमादेवोपजायत इति, तद्दुहितृत्वेन व्यपदिश्यते । तस्यां चारुणकिरणाख्यबीजनिक्षेपात्स्त्रीपुरुषयोगवदुपचारः । एवं समस्ततेजाः परमेश्वर्यनिमित्तेन्द्रशब्दवाच्यः सवितैवाऽहनि लीयमानतया रात्रेरहल्याशब्द- वाच्यायाः क्षयात्मकजरणहेतुत्वाज्जीर्यत्यस्मादनेनैवोदितेनेत्यादित्य एवाहल्याजार इत्युच्यते । न तु परस्त्रीव्यभिचारात् ।
७ ] प्रथमाध्याये तृतीयपादः ३६७ नहुषेण पुनः परस्त्रीप्रार्थननिमित्तानन्तरकालाजगरत्वप्राप्त्यैवाऽऽत्मनो दुरा- चारत्वं प्रख्यापितम् । शच्याश्च पतिभक्तिनिमित्तपुण्यातिशयजनिततन्निराकरणा- वासप्रभावलाभः ख्यात एव । वसिष्ठस्यापि यत्पुत्रशोकव्यामोहचेष्टितम् । तस्याप्यन्यनिमित्तत्वान्नैव धर्मत्वसंशयः ॥ ३५६ यो हि सदाचारः पुण्यबुद्ध्या क्रियते, स धर्मदर्शित्वं प्रतिपद्येत । यस्तु काम-क्रोध-लोभ-मोह-शोकादिहेतुत्वेनोपलभ्यते, स यथाविधि-प्रतिषेधं वर्तिष्यते । ते । विश्वामित्रस्यापि यद्रागद्वेषपूर्वकमपि तपोबलारूढस्य चरितम्, तत् सर्वं बलवतः पथ्यमित्यनेन न्यायेन महान्ति च तपांसि कृत्वा तानि क्षयं नयत उत्तरकालं वा पापविशुद्धिं प्रायश्चित्तैः प्रतिकुर्वाणस्य जीर्यत्यपि । मन्दतपसां गजेरिव महावट- काष्ठादिभक्षणमात्मविनाशायैव स्यात् । द्वैपायनस्यापि, “गुरुनियोगादपतिरपत्यलिप्सुर्देवराद् गुरुप्रेरितादृतुमतीयात्” इत्येवमागमान्मातृसंबन्धभ्रातृजायापुत्रजननं प्राक्कृत-पश्चात्करिष्यमाणतपोबलेन नातिदुष्करम् । अन्योऽपि यस्तादृक्कृतपोबलो निर्वहेत् स कुर्यादेव । रामभीष्मयोस्तु स्नेहपितृभक्तिवशात् विद्यमानधर्ममात्रार्थदारयोरेवं साक्षाद्- व्यवहितापत्यकृतपितृऋण्योपयोगसिद्धिः, हिरण्मयसीताकरणं लोकापवादभिया त्यक्तसीतागतानृशंस्याभावशङ्कानिवृत्त्यर्थम् । भीष्मश्च— भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान्भवेत् । सर्वे तेनैव पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ ३५७ इत्येवं विचित्रवीर्यक्षेत्रजपुत्रलब्धपितृनॄणत्वः केवलयज्ञार्थपत्नीसंबन्ध आसी- दित्यर्थापत्त्यानुक्तमपि गम्यते । यो वा पिण्डं पितुः पाणौ विज्ञातेऽपि न दत्तवान् । शास्त्रातिक्रमाद्भीतो यजेतैकाक्यसौ कथम् ॥ ३५८ धृतराष्ट्रोऽपि व्यासानुग्रहादाश्चर्यपर्वणि पुत्रदर्शनवत्क्रतुकालेऽपि दृष्टवानेव । शापानुग्रहसमर्था महर्षयः श्रूयन्ते । तद्यथैव तद्वचनादसावन्धो जातो विज्ञायते, तथा यज्ञानुष्ठानवचनात्तावति काले दृष्टवानित्यर्थापत्त्या सुज्ञानम् । यद्वा, “यजदेवपूजासंगति करणदानेषु” इति दानार्थ एवायं यजिर्भविष्यति । ऋतुफलसमानि च दानतपश्चरणादीन्यपि श्रूयन्ते । तत्कारणात्क्रतुक्रियोपचारः । या चोक्ता पाण्डुपुत्राणामेकपत्नीविरुद्धता । साऽपि द्वैपायनेनैव व्युत्पाद्य प्रतिपादिता ॥ ३५९ योवनस्थैव कृष्णा हि वेदिमध्यात्समुत्थिता । सा च श्रीः श्रीश्च भूयोभिर्भुज्यमाना न दुष्यति ॥ ३६०
१९८ मीमांसादर्शनम् [ सू० अत एव चोक्तम्— इदं च तत्राद्भुतरूपमुत्तमं जगाद विप्रर्षिरतीवमानुषः । महानुभावा किल सा सुमध्यमा बभूव कन्येव गतेऽहनि ॥ इति । न हि मानुषीष्वेवमुपपद्यते । तेनातीवमानुषमित्युक्तम् । अत एव वासुदेवेन कर्ण उक्तः ‘षष्ठे च त्वामहनि द्रौपदी पर्युपस्थास्यति’ इति । इतरथा हि कथं प्रमाणभूतः सन्नेवं वदेत् । अथ वा बह्व्य एव ताः सदृशरूपा द्रौपद्य एकत्वेनोपचरिता इति व्यव- हारार्थपत्त्या गम्यते । यद्वा नार्जुनस्यैव केवलस्य भविष्यति । साधारणा प्रसिद्धिस्तु निश्छिद्रत्वाय दर्शिता ॥ ३६१ यथा युधिष्ठिरोपदेशात्सभामध्यमानीयमाना सहसैव रजस्वलावेषं सुपुत्रकस्य धृतराष्ट्रस्यायश उत्पादयितुमात्मानं प्रख्यापयितुं द्रौपदी कृतवती, तथैव केवला- र्जुनभार्याया एव सत्याः श्रीत्वं च जनेनाविदितं परस्परं संघाताविशयं च भेदप्रयोगानवकाशार्थं दर्शयितुम्, साधारण्यप्रख्यापनमित्येवमादिविकल्पैः सुपरि- हरत्वाद्रागलोभकृतव्यवहारस्य च शिष्टैरेव धर्मत्वेनापरिग्रहस्योक्तत्वादनुपालम्भः । तथा द्रोणवधाऽङ्गभूतानृतवादे ‘प्रायश्चित्तं कामकृतेऽप्येक’ इत्येवमन्तेऽप्यश्व- मेधः प्रायश्चित्तत्वेन कृत एवेति, न तस्य सदाचारत्वाभ्युपगमः । यत्तु वासुदेवार्जुनयोर्मद्यपान-मातुलदुहितृपरिणयनं स्मृतिविरुद्धमुपन्यस्तम्, तत्रान्नविकारसुरामात्रस्य त्रैवर्णिकानां प्रतिषेधः । सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत ॥ इति । ३६२ मधु-सीध्वोस्तु क्षत्रियवैश्ययोर्नैव प्रतिषेधः, केवलब्राह्मणविषयत्वात्, मद्यं ब्राह्मणस्य’ इति वचनात् । यदप्येतत्—गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पेया ब्रह्मवादिभिः ॥ इति । ३६३ एतदपि ब्रह्मवादिशब्दस्य तच्छील-तद्धर्म-तत्साधुकारित्वनिमित्तत्वात्प्रवचना- श्रयणेन ब्रूञ्वदत्योरेकार्थत्वात्प्रब्रूयाद् ब्राह्मणस्त्वेवामिति नियमाद्यस्यैव प्रवचनम्, स एव तच्छीलः तद्धर्मः तत्साधुकारो वा भवति । तस्माद् ब्राह्मणा एव ब्रह्म- वादिनः । तथा च मद्यसामान्यप्रतिषेधाऽङ्गनिन्दार्थवादेऽभिहितम् । अकार्यमन्यत्कुर्याद्धि ब्राह्मणो मदमोहितः ॥ इति ।
७ ] प्रथमाध्याये तृतीयपादः १६९ सुरानिषेधे उक्तस्यार्थस्य संक्षेपः तस्मादेतदुक्तं भवति यथैवैकान्नसुर| त्रयाणामप्यपेया, तथा सर्वा ब्रह्मवादि- भिरपेयेति । इतरथा यथैवैकति च, ब्रह्मवादिभिरिति चोभयमप्यनर्थकमेव स्यात् । श्लोकान्तनिर्देशेनैव वर्णत्रयसम्बन्धलाभात् । तेनोभौ मध्वासवक्षीबावित्य- विरुद्धम् । लिङ्गोपन्यासः तथा चान्यार्थदर्शनमभ्यनुज्ञानवचनम् । 'यन्माल्यमासीत्तत्पश्चात्पर्याहृत, सुरा वै माल्यम्, ततो राजन्यमसजत, तस्माज्ज्वायाइच स्नुषा च श्वशुरश्च सुरां पीत्वा विलपन्तश्चाऽऽसते । पाप्मा वै माल्यम् । तस्माद् ब्राह्मणः सुरां न पिबेत्पाप्मना न संसृज्या इति, तदेतदेतल्लक्षत्क्षत्रियो ब्राह्मणं ब्रूयान्नैनं सुरा पीता हिनस्ति, य एवं विद्वान्सुरां पिबति' इति । मधुसीधुविवक्षयैतत् । मातुलदुहितृपरिणयस्य समाधानम् यत्तु मातुलदुहितृपरिणयनं तयोस्तन्मातृष्वस्त्रीयादिसम्बन्धव्यवधानेऽपि भ्रात्रादिव्यवहारादविरुद्धम् । यद्यपि वासुदेवस्वसेति सुभद्रा ख्याता, तथाऽप्युत्पत्तौ वलदेववासुदेवयोरेकानशायाश्च निजत्वान्वाख्यानान्मातृष्वस्त्रीया सुभद्रा तस्य मातृपितृष्वस्त्रीया दुहिता वेति परिणयनाभ्यनुज्ञानद्विज्ञायते । वासुदेवाङ्गजाया च कौन्तेयस्य विरुध्यते । न तु व्यवेतसम्बन्धमभवे तद्विरुद्धता ॥ ३६४ येन ह्यन्यत्रैवमुक्तम्— मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः । यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ॥ ३६५ स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ इति । स कथं सर्वलोकादर्शभूतः सन् विरुद्धमाचारं प्रवर्तयिष्यति । एतेन रुक्मिणी- परिणयनं व्याख्यातम् । आधुनिकानामापरिहारोपपादनम् यत्त्वद्यतनानामाहिच्छत्रकमाथुरब्राह्मणीनां सुरापानादि दाक्षिणात्यानां मातुलदुहितृविवाहादि स्मृतिविरुद्धमुपन्यस्तम् । तत्र केचित्तावदाहुः । स्मृत्याचारयोरितरेतरनिरपेक्षवेदमूलत्वेन तुल्यबल- त्वाद्द्विहितप्रतिषिद्धविकल्पानुष्ठानाश्रयणाददोष इति । तत्त वक्ष्यमाणबलाबल- विभागादयुक्तम् । २४
३७० : मीमांसादर्शनम् [ सू० अन्ये त्वेवमाहुः— सर्वेषामेवमादीनां प्रतिदेशं व्यवस्थया । आपस्तम्बेन संहृत्य दृष्टादृष्टत्वमाश्रितम् ॥ ३६६ येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः । त एव तैर्न दुष्येयुराचारैर्नेतरे जनाः ॥ ३६७ तथा मनुनाऽप्युक्तम्— येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति ॥ ३६८ येषां तु यः पित्रादिभिरेवार्थो नाऽऽचरितः स्मृत्यन्तरप्रतिषिद्धश्च ते तं परि- हरन्त्येव । अपरिहन्तो वा स्वजनादिभिः परिह्रियन्ते । ननु गौतमेनाऽऽम्नाय- विरुद्धानामाचाराणामप्रमाण्यमुक्तम् । आह— यदि वेदविरोधः स्यादिष्येतैवाप्रमाणता । स्मृतिराम्नायशब्देन न तु वेदवदुच्यते ॥ ३६९ न त्वेतदपि युक्तं स्मृतिग्रन्थेऽप्याम्नायशब्दप्रयोगात् । स्मार्तधर्माधिकारे हि शङ्खलिखिताभ्यामुक्तम् 'आम्नायः स्मृतिधारकः' इति । ग्रन्थकारगतायाः स्मृते- स्तत्कृतग्रन्थाम्नायः स्मृतिग्रन्थाध्यायिनां स्मृतिधारणार्थत्वेनोक्तः । ततश्च मन्वादिवाक्यप्रतिषिद्धाचाराणां प्रामाण्यमशक्यमभ्युपगन्तुम् । आपस्तम्बवचनं तु बौधायनेन स्मृतिविरुद्धदुष्टाचारोदाहरणान्येव प्रयच्छता निराकृतम् । दृष्टका- मादिहेत्वन्तरदर्शनान्न विरुद्धाचाराणामापस्तम्बवचनस्य वा श्रुतिमूलत्वोपपत्तिः । आह केन वा ब्राह्मणीनां सुरापानं प्रतिषिद्धम् ? उच्यते—तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ इत्यनेन पुंलिंगस्य विवक्षा अस्मिन्न वेति विचारः ननु पुंलिङ्गनिर्देशात्स्त्रीणां न प्रतिषिध्यते । सुरापानमतो नात्र स्मृत्याचारविरुद्धता ॥ ३७० उच्यते—हननप्रतिषेधेऽपि भवेत्पुंस्त्वं विवक्षितम् । तथा पुंस्त्ववदेकत्वविवक्षाऽपि प्रसज्यते ॥ ३७१ अहत्वा कंचिदेकैकं ततश्च स्यात्कृतार्थता । एकेन च सुरापानेऽवर्जिते पूर्ववद्भवेत् ॥ ३७२ आह यत्तावदेकत्वविवक्षागतमुच्यते । प्रत्येकव्यक्तिसंबन्धाज्जातेर्वा तन्न दुष्यति ॥ ३७३
७ ] प्रथमाध्याये तृतीयपादः ३७१ एकैकस्या एव हि ब्राह्मणव्यक्तेर्यथाप्रसक्तवधपानयोः प्रतिषेधात् । विवक्ष्य- माणमपि तावदनूद्यमानत्वादन्नक्रियाविशेषणं वा संभवति, किमुत यदा जातिगते- कत्वानुवाद एवायं विज्ञायते । आह । हननप्रतिषेधे कर्मभूतस्य ब्राह्मणस्योद्दिश्य- मानत्वात्सुरापाने च कर्तृत्वेनोपादीयमानत्वात्स्वर्गकामोदुम्बरीसमानार्थयजमान- वत्तुल्यविवक्षाविवक्षयोरप्रसङ्गादुदाहरणवैषम्यम् । तथा हि—यो ब्राह्मण इति ह्यक्ते हननप्रतिषेधतः । ब्राह्मणे प्रतिषेधे वा लिङ्गं नान्यद्विधीयते ॥ ३७४ प्रतिषेधविधिपरो हि विधायकः शुद्धवधप्रतिषेधासंभवाद् ब्राह्मणजातिमात्र- विशिष्टवधप्रतिषेधं विधाय निवृत्तव्यापारो यदि लिङ्गमपरं ब्राह्मणे वधे प्रतिषेधं वा विदध्यात्, ततः प्रत्ययावृत्तिलक्षणवाक्यभेदप्रसङ्गः । विधिप्रतिषेधयोर्नामात्यन्तभेद इति वादिनां मतम् येषां तु विधिप्रतिषेधौ नामात्यन्तभिन्नौ वेदवाक्यार्थी, तेषां प्रत्ययसम्बन्धानु- गृहीतशक्तिरभावमात्रामिधानादभ्यधिकलब्धव्यापारो नञ्विध्यर्थमपि द्वेषार्थप्राप्तं पूर्वोक्तन्यायविवक्षितब्राह्मणविशिष्टहननाविशिष्टं चानूदितं प्रतिषिध्य चरितार्थो न लिङ्गमपरं ब्राह्मणवधविधिषु शक्नोत्यनावर्तमानः प्रतिषेद्धुमिति, श्रूयमाणमपि लिङ्गप्रतिषेधं प्रत्यनुपयुज्यमानत्वादविवक्षितं भवति । मतभेदेन वाक्यार्थवर्णनम् एषा ह्यत्र वचनव्यक्तिर्यत्—क्रोधादिवशेन ब्राह्मणं हन्यात्, ब्राह्मणो वा हन्तव्यस्तन्नेति । विध्येकत्वपक्षे पुनरीदृशी वाक्ययोजना—यद ब्राह्मणहननं तन्न कुर्यादिति, यो वा ब्राह्मणस्तं न हन्यादिति ब्राह्मणविशिष्टहननप्रतिषेधविधिः शुद्धोदिदृष्टब्राह्मणविषयवधप्रतिषेधविधिर्वेति । सर्वथा ब्राह्मणोद्देशान्नेह मुच्यामहे वयम् । न चोद्दिष्टस्य शक्येते लिङ्गसंख्ये विवक्षितुम् ॥ ३७५ ब्राह्मणः सुरां न पिबेत्, न पेया ब्रह्मवादिभिरिति निमित्त-देश-काल-फल- संस्कार्यार्नुपादेयपञ्चकव्यतिरेकादेकत्राऽऽख्यातप्रत्ययोपात्तगुणीभूतोपादीयमानसँ- ख्यापरिच्छेद्यत्वयोग्यसाधनांशविशेषणत्वेनोपादानात्, इतरत्र च तृतीयाविभक्ति- श्रुतिवचनं विवक्षितलिङ्गस्यैव प्रतिषेधकमिति दर्शयितव्यम् । अतश्चाप्रतिषिद्धत्वान्नैव स्त्रीणां विरुध्यते । सुरापानमहिच्छत्रब्राह्मण्यस्तेन कुर्वते ॥ ३७६
३७२ मीमांसादर्शनम् [ सू० उद्देश्यविशेषणस्याविवक्षोपपादनम् नैतदेवमिहाप्येतत्पुंस्त्वं नैव विवक्ष्यते । ब्राह्मणस्यानुवाद्यत्वात्तद्वधप्रतिषेधवत् ॥ ३७७ नोपादेयत्वमेवैकं कारणत्वेन संमतम् । विशेषणविवक्षायाः कारणं हि महद्विधिः ॥ ३७८ अनूद्यमानः सर्वो हि यथाप्राप्तमनूद्यते । तत्रानाकाङ्क्षितं नान्यद्विधेयेभ्यो विधीयते ॥ ३७९, यदि हि ब्राह्मणः सुरां पिवेदित्ययमवान्तरवाक्यार्थः प्राक्प्रतिषेधसम्बन्धा- द्विधिबुद्धिमवस्थापयेत् ततो गुणत्वोपादेयत्वविधिसमवायान्न ब्राह्मणपदे किंचिद- विवक्षितं नाम स्यात् । यतस्तु रागमोहादेः सुरापानं प्रसज्यते । ब्राह्मणादेरतस्तस्मिन्न कश्चिद्विधिसंभवः ॥ ३८० प्रतिषेधोपसंहारिमहावाक्यतिरस्कृता । नावान्तरविधेः शक्तिः प्रादुरस्ति कथंचन ॥ ३८१ तेनेहापि यत्सुरां ब्राह्मणः पिबेन्नेति वा वचनं व्यज्यते । यो ब्राह्मणः स न सुरां पिबेदिति वा सुराविशिष्टपानप्रतिषेधेन प्रतिषेधविधिना वा प्रत्यवायव्या- वृत्त्या ब्राह्मणोऽनुगृह्यत इति, नास्य पानं प्रतिषेधं वा प्रतिविधेयत्वोपपत्तिः । लोके चैतद्यथाप्राप्तं पानं स्त्रीपुंसकर्तृकम् । प्रतिषेधपरे वाक्ये तदवस्थमनूद्यते ॥ ३८२ न च भो ब्राह्मणः पिबेदित्यनूदितम् । स च पुमानिति विधिव्यापाराद्विना लिङ्गविवक्षाऽत्रकल्पते । न चास्य लिङ्गसंबन्धः केवलः संनिधीयते । न पानप्रतिषेधाद्धि विधिरन्यत्र गच्छति ॥ ३८३ ततश्चोभयत्राप्यविवक्षितलिङ्गसंख्यत्वं सिद्धम् । नन्वेवं सति ब्राह्मणस्त्रीवधेऽपि पुंब्राह्मणवधवद् ब्रह्महत्याऽस्तीति, यदात्रेयीया- मेव केवलायां भ्रूणहत्याप्रायश्चित्तविधानं तन्नोपपद्यते । उच्यते—ब्राह्मणस्त्रीवधे को वा ब्रह्महत्यां निषेधति । प्रायश्चित्तान्तरे तस्या स्त्रीत्वमात्रनिबन्धनम् ॥ ३८४ न च प्रायश्चित्ताल्पत्वेन निमित्तस्य ब्रह्महत्यात्वमपनीयते, पुंवधेऽपि लघुतर- प्रायश्चित्तविधिदर्शनेन ब्रह्महत्यादोषाभावप्रसङ्गात्, तस्मान्न वाचनिकप्रायश्चित्ता-