मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 424, कुल 804 में से
संदर्भ में पढ़ें३७२ मीमांसादर्शनम् [ सू० उद्देश्यविशेषणस्याविवक्षोपपादनम् नैतदेवमिहाप्येतत्पुंस्त्वं नैव विवक्ष्यते । ब्राह्मणस्यानुवाद्यत्वात्तद्वधप्रतिषेधवत् ॥ ३७७ नोपादेयत्वमेवैकं कारणत्वेन संमतम् । विशेषणविवक्षायाः कारणं हि महद्विधिः ॥ ३७८ अनूद्यमानः सर्वो हि यथाप्राप्तमनूद्यते । तत्रानाकाङ्क्षितं नान्यद्विधेयेभ्यो विधीयते ॥ ३७९, यदि हि ब्राह्मणः सुरां पिवेदित्ययमवान्तरवाक्यार्थः प्राक्प्रतिषेधसम्बन्धा- द्विधिबुद्धिमवस्थापयेत् ततो गुणत्वोपादेयत्वविधिसमवायान्न ब्राह्मणपदे किंचिद- विवक्षितं नाम स्यात् । यतस्तु रागमोहादेः सुरापानं प्रसज्यते । ब्राह्मणादेरतस्तस्मिन्न कश्चिद्विधिसंभवः ॥ ३८० प्रतिषेधोपसंहारिमहावाक्यतिरस्कृता । नावान्तरविधेः शक्तिः प्रादुरस्ति कथंचन ॥ ३८१ तेनेहापि यत्सुरां ब्राह्मणः पिबेन्नेति वा वचनं व्यज्यते । यो ब्राह्मणः स न सुरां पिबेदिति वा सुराविशिष्टपानप्रतिषेधेन प्रतिषेधविधिना वा प्रत्यवायव्या- वृत्त्या ब्राह्मणोऽनुगृह्यत इति, नास्य पानं प्रतिषेधं वा प्रतिविधेयत्वोपपत्तिः । लोके चैतद्यथाप्राप्तं पानं स्त्रीपुंसकर्तृकम् । प्रतिषेधपरे वाक्ये तदवस्थमनूद्यते ॥ ३८२ न च भो ब्राह्मणः पिबेदित्यनूदितम् । स च पुमानिति विधिव्यापाराद्विना लिङ्गविवक्षाऽत्रकल्पते । न चास्य लिङ्गसंबन्धः केवलः संनिधीयते । न पानप्रतिषेधाद्धि विधिरन्यत्र गच्छति ॥ ३८३ ततश्चोभयत्राप्यविवक्षितलिङ्गसंख्यत्वं सिद्धम् । नन्वेवं सति ब्राह्मणस्त्रीवधेऽपि पुंब्राह्मणवधवद् ब्रह्महत्याऽस्तीति, यदात्रेयीया- मेव केवलायां भ्रूणहत्याप्रायश्चित्तविधानं तन्नोपपद्यते । उच्यते—ब्राह्मणस्त्रीवधे को वा ब्रह्महत्यां निषेधति । प्रायश्चित्तान्तरे तस्या स्त्रीत्वमात्रनिबन्धनम् ॥ ३८४ न च प्रायश्चित्ताल्पत्वेन निमित्तस्य ब्रह्महत्यात्वमपनीयते, पुंवधेऽपि लघुतर- प्रायश्चित्तविधिदर्शनेन ब्रह्महत्यादोषाभावप्रसङ्गात्, तस्मान्न वाचनिकप्रायश्चित्ता-