मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 425, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये तृतीयपादः ३७३ ल्पत्वेन ब्राह्मणीवधप्रतिषेध एव नास्तीत्याशङ्कितव्यम् । सुरापाने पुनः प्रायश्चित्त- विशेषोऽपि न कश्चिदाम्नात इति, दूरादपाकृतत्वादस्त्येवास्य स्मृत्या सह विरोधः । याऽपि चाऽऽपस्तम्बस्मृतिवचनात्तुल्यबलत्वाशङ्का भवेत् साऽपि । “तस्माद् ब्राह्मणः सुरां न पिबति” इत्येतेन प्रत्यक्षश्रुतिविधिना निराकृतेति नेवं- विधाचारप्रामाण्यमाशङ्कितव्यम् । इति वार्त्तिकमतेन सदाचारप्रामाण्याधिकरणम् अथ वा सदाचारप्रमाणत्वप्रतिपादनार्थं सूत्रद्वयेनाप्येतदेकमधिकरणं व्याख्या- तव्यम् । इह यावन्ति कृष्णमृगसंचारगोपलक्षितार्यावर्त्तनिवासिचतुर्वर्ण्याचरणानि तान्युदाहृत्य चिन्त्यते-- धर्मबुद्ध्या यदार्याणां चरित्रमुपलभ्यते । किं तथैव प्रमाणं तदथ वा निष्प्रमाणकम् ॥ ३८५ इति । कुतः संशयः ? उच्यते—स्मृतिवत्कर्तृसामान्यात्प्रमाणत्वेन गम्यते । अनिबन्धनतायास्तु भवेदप्यप्रमाणकम् ॥ ३८६ ननु च स्मृतिकारैरेवैतत्प्रामाण्यमभ्युपगतं “तद्विदां च स्मृतिशीले” “आचारश्चैव साधूनाम्” “यस्मिन्देशे य आचारः स सदाचार उच्यते” । अतश्च तत्प्रामाण्यादेव सिद्धम् । न । मूलाभावाहेतुदर्शनातिरेकात् । शाखान्तरगतवेद- वाक्यदर्शनमूलानि हि स्मरणोपनिबन्धनानि प्रमाणत्वेनाऽधिगतानि । ननु सदाचारदर्शनात्तन्मूलमात्रप्रवृत्तस्मरणानां मूलान्तरानुमानसभवः । यथैव च वयं तेषां द्रष्टारः केवलं तथा । स्मृतिकारास्ततो नैषां गम्यते मूलदर्शनम् ॥ ३८७ यदि हि तैर्मूलान्यश्रोष्यन्त ततो यथैवान्यानि स्मरणानि निबद्धानि, तथैवै- तान्यपि निबद्धान्येवाभविष्यन्नतस्तु स्वयमुपलब्धानुरूपमनिबध्य परप्रत्ययेनैव सदाचाराः प्रमाणमित्याहुः । अतो न दृष्टमूलत्वेनाध्यवसातुं शक्यमिति विचा- र्यते । तत्र पूर्वाधिकरणद्वयबलेन प्रामाण्यं प्रतिज्ञायते, कर्तृसामान्याद्विधिस्मृतिवि- रोधरहितत्वाच्च । न हि केचित्सदाचाराः श्रौतस्मार्तविरोधिनः । अतस्तुल्यकारित्वात्प्रामाण्येनावधारिताः ॥ ३८८ स्मृतिकाराभ्यनुज्ञानं महदन्यच्च कारणम् । तेषामज्ञातमूलानां न ह्यनुज्ञोपपद्यते ॥ ३८९ इति ।