भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 426, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 426

३७४ मीमांसादर्शनम् [ सू० तदपाकुर्वन्नाह— न शास्त्रपरिमाणत्वादधर्माधर्मस्थितेरमी । शिष्टाचाराः प्रमाणत्वं लभन्ते शब्दवर्जिताः ॥ ३९० शास्त्रपरिमेयत्वं तावत्परिमाणशब्दवाच्यं धर्माधर्मयोरवस्थितम्, परिमितानि च शास्त्राणि वेदोपवेदादीनि । न च तेषां मध्ये सदाचारशास्त्रं किंचिदस्ति । न च सदाचारः स्वयमेव शास्त्रम् । नापि तद्दर्शनम्, अनुष्ठानं वा, अत्यन्तपरायत्त- त्वात्प्रमेयत्वाच्च । स्मृतेस्त्वेतद्विषायाया निर्मूलत्वमुक्तमेव । किं च मूलं भवेदेकमनेकमिति चिन्तिते । नैव द्विविधमित्येतदनुमातुं हि शक्यते ॥ ३९१ न तावद्देशजातिकुलभेदाद्भिन्नानामपरिमितस्वरूपाणामनेक श्रुतिमूलत्वम् । न हीदृशी श्रुतिर्यं तान् सर्वाचारान् ग्रहीष्यति । शब्दाभिधेययोस्तेषां व्यक्त्याकृत्योरसंभवात् ॥ ३९२ यावदाचारं हि वेदवाक्यानि कल्पयतां वेद एवैकः कल्पयितव्यः । एकस्य तु वाक्यस्य नैव कस्यचिदपरिमिताचारविधायित्वमवकल्पते । यत आचाराः प्रव- र्तेरन् । न च धर्मसूत्रकारैस्तदेव दृष्ट्वाऽऽचार-प्रामाण्यमुपनिबद्धम् । शेष-धर्मस्मृति- वाक्यतुल्यनिबन्धनप्रसङ्गात् न ऽऽचारदर्शनोत्तरकालप्रवृत्ता स्मृतिस्तेषां मूलं भवति । मूलमूलिबलाबलबिपर्ययप्रसङ्गात् । अतः परिमितं शास्त्रमनुमातुं यतोऽर्हति । नाऽऽचाराणां च तन्मूलं बहूनामित्यमूलता ॥ ३९३ न च स्मृतिस्वरूपाऽपि श्रुतिरत्रानुमीयते । आचाराणामतत्पूर्वप्रसङ्गात्सविपर्ययात् ॥ ३९४ शिष्टाचारः प्रमाणमिति हि श्रुतावनुमीयमानायामाचारः प्रथमं सिद्धो भवेत्तत्पूर्विका श्रुतिः । न त्वाचारस्य सा मूलमिति निर्मूलता पुनः । शास्त्रपरिमाणत्वादिति वा परिमिते ह्यर्थे शास्त्रं प्रवर्तेत । अपरिमितत्वा- दाचाराणामुच्छास्त्रत्वमिति । परिमितार्थविषयत्वाद्वा शास्त्रस्य, 'अप्राप्ते शास्त्रमर्थवत्' जै. सू. (६।२।४) इति । दृश्यमानान्यहेतुत्वान्नात्र शास्त्रप्रमाणता । तस्मादर्थसुखाङ्गत्वान्नाऽऽचारेष्वस्ति धर्मता ॥ ३९५