भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 427, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 427

७ ] प्रथमाध्याये तृतीयपादः ३७५ वैश्यानां सेवकानां वा वैद्यानां नगरेषु वा । चरित्राणां यथा चार्थसुखाङ्गत्वं तथाऽस्त्विह ॥ ३९६ तस्माच्छ्रुतिस्मृती एव प्रमाणे धर्मगोचरे । शीलाचारात्मतुष्टीनां गोष्ठीहास्यादितुल्यता ॥ ३९७ इति द्वितीयं वर्णकम् अथ तृतीयं वर्णकम् यद्वा सूत्रत्रयेणाप्येतदेवाधिकरणं व्याख्यातव्यम् । इहाऽऽर्यावर्तनिवासि- शिष्टाचारानेवोदाहृत्य पूर्ववत्प्रामाण्याप्रामाण्यसन्देहे शिष्टाकोपेऽविरुद्धमिति सिद्धा- न्तस्तावदुपक्रम्यते । तथा हि—शिष्टं यावच्छ्रुतिस्मृत्योस्तेन यन्न विरुध्यते । तच्छिष्टाचरणं धर्मे प्रमाणत्वेन गम्यते ॥ ३९८ यदि शिष्टस्य कोपः स्याद्विरुध्येत प्रमाणता । तदकोपात्तु नाऽऽचारप्रमाणत्वं विरुध्यते ॥ ३९९ ( इति वर्णकतादिसहितं शिष्टाकोपाधिकरणम् ॥ ७ ॥ ) न्या० सु०—सूत्रमवधिद्वयेन पूर्वपक्षनिराकरणार्थतयाऽवतारयति—तदुच्यत इति । पूर्वं- पक्षोक्तविरोधाङ्गीकरणेन प्रमाणबलावलात् प्रमेयबलाबलबलीयस्त्वमात्रेण सिद्धान्ते पूर्वाऽ- वधिः पूर्वा समाप्तिः विरोधाभावसिद्धान्ते द्वितीयेति व्यवस्थार्थो वाशब्दः । ननु भाष्यकृता अस्योत्तरसूत्रावयवत्वेन पठितत्वात्कथमेतत्सूत्रशेषत्वमित्याशङ्कयाह— अनन्तरेति । विप्रतिपत्तिशब्दोपात्तस्य विरोधस्यैतदवगताया अभावोक्तेर्विरुद्धत्वेनानन्तर- सूत्रेऽनुपयुज्यमानत्वाद्विरोधाभावसिद्धान्तपक्षे चेह सूत्रे पूर्वपक्षसूत्रोक्तविरोधाभावस्यावश्य- वचनीयत्वादित्यर्थः । ननूत्तरसूत्रेऽपि यवादिशब्दानां साधारणत्वे प्रियङ्गवादिद्रव्यकार्ये विकृतावूहितयवादिशब्दप्रयोगाविरोधप्रतिपादनार्थत्वेनोपयोगो भविष्यतीत्याशङ्कयाह— उपयोगेति । सकृत्पठितस्यापि व्याख्यानवेलायामुच्चारणानुकृतिः = अनुषङ्गः । सकृदुच्चरितस्यैवोभयशेषतया व्याख्याने तन्त्रत्वम् । आद्यावधिना विरोधेऽपि प्रमेयबला- बलबलीयस्त्वेन सिद्धान्तप्रतिपादनार्थमपि चेत्यादिभाष्यं व्याचष्टे—अपि चेति । प्रयुक्तानि प्रतीयेरन्निति सूत्रावयवस्य शिष्टैरनुष्ठितानाचमनादीनाद्रियेरन्नित्येवं व्याख्या- नार्थं प्रमाणपदमुत्तरार्द्धेन व्याख्यातम् । विरुद्धताशब्देन बाध्यतोक्ता । श्लोकं व्याचष्टे— विरोधेति । प्रमाणबलाबलबलीयस्त्वाभिप्रायं नन्वित्यादिशङ्काभाष्यं व्याचष्टे—इयत्तेति । प्रमेय- बलाबलबलीयस्त्वाभिप्रायं नैष दोष इति सिद्धान्तभाष्यं व्याचष्टे—पदार्थेति । पूर्वपक्षा- भिप्रायं विवृणोति—उच्यत इति । श्लोकं व्याचष्टे—प्रमेयेति ।