मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 428, कुल 804 में से
संदर्भ में पढ़ें३७६ मीमांसादर्शनम् [ सू० नन्वापाततः प्रतीयमानमपि प्रमेयबलाबलं प्रमाणाधीनत्वात्प्रमेयसिद्धेः पश्चादालोच्य- मानेन प्रमाणबलाबलेन वाधिष्यत इत्याशङ्क्याह—येषामिति । ननु श्रुतिविरोधिन्याः स्मृतेर्भ्रान्त्यादिमूलत्वेनाप्रामाण्यादाचमनादेस्तत्प्रमेयत्वानुपपत्तेः कथं बलीयस्त्वमित्या- शङ्क्याह—नित्यमेवेति । विरोधेऽपि श्रुत्यनुमानप्रतिबन्धाभावेन भ्रान्त्यादिमूलत्वायोगाद् बलवद्विरोधापेक्षमुपक्रमविरुद्धोपसंहारवत्, तदनुरोधवृत्तित्वेनाश्रुतत्वमात्रं स्मृतेर- प्रामाण्यम्, न चाचमनादिस्मृतेर्बलवद्विरोधोऽस्ति, वलवत्प्रमेयावष्टम्भेन स्मृतेर्दोर्बल्याभावा- दित्याशयः । इममेवाभिप्रायं विवृणोति -- न चेति । हिशब्दार्थे चशब्दः । ननु श्रुतिप्रमेयक्रमादि- वाधे श्रुतिबाधापत्तेः तस्याश्चाप्रमादपाठत्वेन बाधायोगाद्गत्या स्मृतिरेव बाधनीया स्यादि- त्याशङ्क्याह—न चेति । अबाधे कारणमाह—तानवेति । न हि प्रमेयबलीयस्त्वमात्रेण स्मृतिः श्रुतिं बाधितुं शक्नोति, श्रुतिकल्पनव्याक्षेपेषु गततेजस्त्वादित्यर्थः । प्रमेयबलीय- स्त्वस्य तर्हि क उपयोग इत्यपेक्षायामाह—एतदेवेति । प्रमेयबलीयस्त्वेन स्मृतेरबाध्यत्वमात्रं भवति, न तु श्रुतिबाधकत्वमित्यर्थः । द्वितीयावधिना विरोधाभावसिद्धान्तप्रतिपादनार्थमपि चेत्यादिभाष्यं तात्पर्यतस्ताव- द्वयाचष्टे—युगपदिति । नन्वयुगपत्प्राप्तानामपि श्रुतिलिङ्गादिविनियोज्यानां पदार्थानां विरोधप्रदर्शनान्न युगपत्प्राप्तिरेव विरोधे हेतुरित्याशङ्क्य, तुल्यकार्ययोरित्युक्तम् । इह तु करणोपकारसाधनपदार्थप्रयोगावच्छेदकत्वेन क्रमादीनां पदार्थगुणत्वाभिधानेनैव तुल्यकार्यत्वं निरस्तम् । युगपत्प्राप्तिरप्यत एव न सम्भवतीति, द्वयमपि—नास्तीत्युक्तम् । ननु वैदिक- पदार्थप्राप्त्युत्तरकालीनानामपि क्रमादीनामाचमनादिभिः स्मार्तैः पदार्थैः सह यौगपद्या- द्विरोधो भविष्यतीत्याशङ्क्याह—कालेति । प्रयोगावस्थायां क्रमाद्यपेक्षा, स च सकलपदार्थ- प्राप्त्युत्तरकालभावीत्याशयः । इदानीमवयवशो भाष्यं व्यचिख्यासुः क्रमविरोधनिरासभाष्यं तावद् व्याचष्टे—प्राप्तेषु हीति । इयत्तावधारणस्याविहितत्वेनोपायान्तरेणाविस्मरणसिद्धावनादरणीयत्वात्तद्बाधे वेद- विरोधशङ्का मन्दत्वाद्भाष्यकृतोपेक्षितेति, स्वयंशब्देन सूचयन्स्वयमियत्ताविरोधं परिहरति- परिमाणमिति । इयत्तायाः क्रमवत्पदार्थाश्रितत्वसूचनार्थंस्तदनन्तरं विरोधपरिहारः । कालस्य तु स्वतन्त्रत्वात्पदार्थप्रयोगावच्छेदकत्वमात्रेण पदार्थधर्मत्वाभिधानं श्लोकं व्याचष्टे—न केनचिदिति । यदि शब्देन ध्यानाद्युपायान्तरसम्भवः सूचितः । तथेति काल- विरोधपरिहारभाष्यं व्याचष्टे—कालोऽपि चेति । ननु यद्यपि प्रधानसाहित्यं शैघ्र्यं च स्मार्तैः सह यादृशं सम्भवति, तादृशाङ्गीकर- णादविरोधस्तथापि पूर्वाह्नादिकालातिक्रमो भूयिष्ठाङ्गानुष्ठाने दुर्वार एवेत्याशङ्क्याह— कालो हीति । प्रधानस्यैव साक्षाद्विहितः कालः । स च प्रयोगाङ्गत्वात्प्रयोगस्य च साङ्ग- प्रधानविषयत्वात् प्रधानद्वाराङ्गेषु प्राप्नोतीति प्रधानस्य स्वकालसम्पादनमादृत्याङ्गेषु