मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 429, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये तृतीयपादः ३७७ यथासम्भवं सम्पाद्यमानो न विरुद्ध्यत इत्याशयः । साहित्यसम्पत्तिं विवृणोति—अङ्गैरिति। आशुत्वमपि सर्वाङ्गसहितस्यैवेति तुल्यन्यायत्वादुक्तं भवति । उपसंहरति—तस्मादिति । विरोधनिऱासे, तेष्विति सूत्रावयवं द्वेधा योजयति—इतीति । क्रमादीनामाचमनाद्यन- पेक्षत्वेऽप्याचमनादेः, स्वतन्त्रपदार्थत्वाभावे नाभ्यवधायकत्वाद्विरोधाभावप्रतिपादनार्थमपि चेति भाष्यं व्याचष्टे - अपि चेति । आचान्तेन कर्त्तव्यमित्यादिकर्त्तव्यमात्रोद्देशने विधाना- त्सर्वस्याचमनादेरङ्गप्रधानार्थतेत्याशयः । न चाङ्गस्य व्यवधायकत्वमस्त्यतुल्यकक्षत्वा- दित्याह—अतदङ्गेन हीति । अव्यवधानमेव दर्शयति—वेदमिति । कृत्वेत्यनेन । 'क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने । कर्मस्थ एषु नाचामेदक्षिणं श्रवणं स्पृशेत् ॥ इति स्मृतिपर्यालोचनया पदार्थमध्येऽनाचमनं सूचितम् । कथमाचमने कृते वेदिः कृता भवतीत्याशङ्क्याह—वेदिरैवेति । नन्वङ्गप्रधानार्थस्याप्याचमनस्य हस्तावनेजनादिवत्सर्वादौ सकृत्कृतस्य सर्वोपकारकत्वात्कथमन्तरा नाचमने वैगुण्यमित्याशङ्क्यानरासार्थत्वेन भाष्य- गतं शौचशब्दं व्याख्यातुं शुद्धयेत्युक्तम् । शुचिना कर्त्तव्यमिति शुद्धेरपि कर्माङ्गत्वेन विधानात् क्षुताद्यापादिताशुद्धिनिवृत्तौ वैगुण्यं स्यादिति भावः । नन्वल्यकालत्वेनाप्य- व्यवधायकत्वोपपत्तेः प्रधानार्थत्वमात्रेण निराकाङ्क्षस्याङ्गार्थतापि किमित्यङ्गीकृतेत्या- शङ्क्य नाल्पकालत्वमात्रेणाव्यवधायकत्वं भवतीत्यभिप्रायेण परिहरति—इममेवेति । तस्मादित्यपसंहारभाष्यमविरोधसिद्धान्ताभिप्रायेण व्याचष्टे—तस्मादिति । एवं यथाभाष्यमधिकरणं व्याख्याय, उदाहरणानि प्रत्यक्षश्रुतिदर्शनेन दूषयति — नन्विहेति । आदिशब्दो दर्शपूर्णमासविकृतिष्वस्य विधेरतिदेशतः प्राप्त्यर्थः । नन्वस्यो- त्तरीयवासो विन्यासविशेषविधानार्थत्वात् त्रिसूत्रनवतन्तुकत्रिवृद्ग्रन्थियज्ञोपवीतविधायकत्वं नास्तीशङ्क्य, वाक्यान्तरं दर्शयति—तथेति । सर्वकर्मार्थतायाऽनारभ्यविधित्वोपन्यासः । आचमनविधिं दर्शयति—तथेति । नन्वस्य ब्रह्मयज्ञप्रकरणपाठाद्दर्शपूर्णमासादिष्वा- चमनविधायकत्वं न सम्भवतीत्याशङ्क्याह यद्यपीति । ब्रह्मयज्ञे पूर्वंगृहीतस्वाध्यायाध्यय- नस्य कल्पसूत्राधिकरणे कर्माभ्यासानुसन्धानं विध्यर्थश्चानुगम्यत इत्यत्र प्रयोगप्रांशुभावो- पयोगिकर्मानुसन्धानप्रयोजनकत्वस्य वक्ष्यमाणत्वेन तदनुसन्धानस्य च लोकावगतशक्त्यनु- सारेणाध्ययनसंस्कृतैरक्षरैः क्रियमाणस्यादृष्टार्थाचमनाद्यनपेक्षत्वादाचमनस्य नापूर्व लक्षणार्थं प्रकरणापेक्षास्तीति प्रकरणानादरेण वाक्यात्स्वाध्यायाध्ययनमात्राङ्गत्वप्रतीतेः । सर्वयज्ञेषु च मन्त्ररूपस्वाध्यायाध्ययनसद्भावात्तद्द्वारेणाचमनस्य सर्वयज्ञाङ्गत्वमवसीयते । अध्यय- नस्य त्वदृष्टार्थत्वेऽपि तत्संस्कार्याणामक्षराणां क्रत्वपेक्षितनियमाद् दृष्टोपयोगिवेदसम्पत्त्यर्थं- क्रमस्वरविशेषवदाचमनाद्यपेक्षा न विरुध्यते । यथैव प्रत्यक्षस्यापि यूपादेरदृष्टोपयोगिरूपं प्रमाणान्तरागोचरत्वात्तदर्थं विहितक्षणादिसकलसंस्कारसमुदायजन्यत्वेनावसीयमानमेकसंस्कार- वैकल्येऽपि नोत्पद्यते, तथा वेदस्याप्यदृष्टोपयोगिरूपम् ।