मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
७ ] प्रथमाध्याये तृतीयपादः ३७७ यथासम्भवं सम्पाद्यमानो न विरुद्ध्यत इत्याशयः । साहित्यसम्पत्तिं विवृणोति—अङ्गैरिति। आशुत्वमपि सर्वाङ्गसहितस्यैवेति तुल्यन्यायत्वादुक्तं भवति । उपसंहरति—तस्मादिति । विरोधनिऱासे, तेष्विति सूत्रावयवं द्वेधा योजयति—इतीति । क्रमादीनामाचमनाद्यन- पेक्षत्वेऽप्याचमनादेः, स्वतन्त्रपदार्थत्वाभावे नाभ्यवधायकत्वाद्विरोधाभावप्रतिपादनार्थमपि चेति भाष्यं व्याचष्टे - अपि चेति । आचान्तेन कर्त्तव्यमित्यादिकर्त्तव्यमात्रोद्देशने विधाना- त्सर्वस्याचमनादेरङ्गप्रधानार्थतेत्याशयः । न चाङ्गस्य व्यवधायकत्वमस्त्यतुल्यकक्षत्वा- दित्याह—अतदङ्गेन हीति । अव्यवधानमेव दर्शयति—वेदमिति । कृत्वेत्यनेन । 'क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने । कर्मस्थ एषु नाचामेदक्षिणं श्रवणं स्पृशेत् ॥ इति स्मृतिपर्यालोचनया पदार्थमध्येऽनाचमनं सूचितम् । कथमाचमने कृते वेदिः कृता भवतीत्याशङ्क्याह—वेदिरैवेति । नन्वङ्गप्रधानार्थस्याप्याचमनस्य हस्तावनेजनादिवत्सर्वादौ सकृत्कृतस्य सर्वोपकारकत्वात्कथमन्तरा नाचमने वैगुण्यमित्याशङ्क्यानरासार्थत्वेन भाष्य- गतं शौचशब्दं व्याख्यातुं शुद्धयेत्युक्तम् । शुचिना कर्त्तव्यमिति शुद्धेरपि कर्माङ्गत्वेन विधानात् क्षुताद्यापादिताशुद्धिनिवृत्तौ वैगुण्यं स्यादिति भावः । नन्वल्यकालत्वेनाप्य- व्यवधायकत्वोपपत्तेः प्रधानार्थत्वमात्रेण निराकाङ्क्षस्याङ्गार्थतापि किमित्यङ्गीकृतेत्या- शङ्क्य नाल्पकालत्वमात्रेणाव्यवधायकत्वं भवतीत्यभिप्रायेण परिहरति—इममेवेति । तस्मादित्यपसंहारभाष्यमविरोधसिद्धान्ताभिप्रायेण व्याचष्टे—तस्मादिति । एवं यथाभाष्यमधिकरणं व्याख्याय, उदाहरणानि प्रत्यक्षश्रुतिदर्शनेन दूषयति — नन्विहेति । आदिशब्दो दर्शपूर्णमासविकृतिष्वस्य विधेरतिदेशतः प्राप्त्यर्थः । नन्वस्यो- त्तरीयवासो विन्यासविशेषविधानार्थत्वात् त्रिसूत्रनवतन्तुकत्रिवृद्ग्रन्थियज्ञोपवीतविधायकत्वं नास्तीशङ्क्य, वाक्यान्तरं दर्शयति—तथेति । सर्वकर्मार्थतायाऽनारभ्यविधित्वोपन्यासः । आचमनविधिं दर्शयति—तथेति । नन्वस्य ब्रह्मयज्ञप्रकरणपाठाद्दर्शपूर्णमासादिष्वा- चमनविधायकत्वं न सम्भवतीत्याशङ्क्याह यद्यपीति । ब्रह्मयज्ञे पूर्वंगृहीतस्वाध्यायाध्यय- नस्य कल्पसूत्राधिकरणे कर्माभ्यासानुसन्धानं विध्यर्थश्चानुगम्यत इत्यत्र प्रयोगप्रांशुभावो- पयोगिकर्मानुसन्धानप्रयोजनकत्वस्य वक्ष्यमाणत्वेन तदनुसन्धानस्य च लोकावगतशक्त्यनु- सारेणाध्ययनसंस्कृतैरक्षरैः क्रियमाणस्यादृष्टार्थाचमनाद्यनपेक्षत्वादाचमनस्य नापूर्व लक्षणार्थं प्रकरणापेक्षास्तीति प्रकरणानादरेण वाक्यात्स्वाध्यायाध्ययनमात्राङ्गत्वप्रतीतेः । सर्वयज्ञेषु च मन्त्ररूपस्वाध्यायाध्ययनसद्भावात्तद्द्वारेणाचमनस्य सर्वयज्ञाङ्गत्वमवसीयते । अध्यय- नस्य त्वदृष्टार्थत्वेऽपि तत्संस्कार्याणामक्षराणां क्रत्वपेक्षितनियमाद् दृष्टोपयोगिवेदसम्पत्त्यर्थं- क्रमस्वरविशेषवदाचमनाद्यपेक्षा न विरुध्यते । यथैव प्रत्यक्षस्यापि यूपादेरदृष्टोपयोगिरूपं प्रमाणान्तरागोचरत्वात्तदर्थं विहितक्षणादिसकलसंस्कारसमुदायजन्यत्वेनावसीयमानमेकसंस्कार- वैकल्येऽपि नोत्पद्यते, तथा वेदस्याप्यदृष्टोपयोगिरूपम् ।
३७८ मीमांसादर्शनम् [ सू० 'तपोविशेषैर्विविधैर्व्रतैश्च श्रुतिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥' इत्यादिवाक्यपर्यालोचनया तदर्थविहितसकलधर्मसम्पाद्यमवसीयते अतोऽलौकिकरूपा- नभ्युपगमे च वेदवाक्यानामपि लौकिकत्वानपायाल्लौकिकवैदिकव्यपदेशभेदो निरालम्बनः स्यात् । तस्मादाचमनस्य वेदत्वसम्पादनार्थत्वाद्वाक्येन प्रकरणं बाधित्वा सर्वस्मिन्वेदकार्ये प्राप्तिरिति श्रौतत्वान्न स्मार्तोदाहरणत्वमिति भावः । तावच्छब्देन च दर्शपूर्णमासप्रकरणे पठितः 'स वै व्रतमुपैष्यन्नन्तराहवनीयं च गार्हपत्यं चोपविश्याप आचामतीत्याचमनविधिः ऋत्वङ्गाचमनविधानार्थः सूचितः । नन्वस्तु नामेदं सर्वयज्ञाङ्गमाद्यमाचमनम्, प्रयोगान्तः- पाति तु नैमित्तिकमिह क्रमविरोधित्वेनोदाहर्त्तव्यम् । तच्च प्रत्यक्षश्रुतिविहितं नास्तीत्या- शङ्क्य प्रयोगान्तःपातिनैमित्तिकाचमनप्रापकं लिङ्गं दर्शयति—तथा चेति । दक्षिणाचारत्वप्रापकस्यापि वैदिकस्य लिङ्गस्य दर्शनात्तदपि नेहोदाहर्त्तव्यमित्याह— दक्षिणेति । साक्षाद्विधिना यत्र विषये सव्यस्याञ्जलेर्वा चोदना, तस्मादेव विषयाद्दक्षिणा- चारत्वं निवर्त्तेत अन्यत्र तु विषये तद्दक्षिणाचारत्वस्य निवर्त्तनं नाशक्यतेऽपीत्यर्थः । किमिति नाशक्यते इत्यपेक्षिते मनसि कृतं लिङ्गमुद्भावयति—यथा वा इति । प्रागु- दक्प्रवणं देवयजनम्, प्रत्यक् दक्षिणाप्रवणं श्मशानकरणं यथा वै दक्षिणतः पाणिरेव देव- यजनम्, यथा वै सव्यस्तथा श्मशानकरणमिति देवयजनस्य यज्ञभूमेः प्रागुदक्प्रवणत्वं विहि- तमौचित्येन स्तोतुं दक्षिणः पाणिरुपमानं कृतम् । तदेव यजनवद्दक्षिणस्य पाणेर्यज्ञाङ्गत्वे सत्यवकल्पते, नान्यथेत्यर्थः । नन्वनारभ्य विहितस्यापि यज्ञोपवीतस्यायज्ञरूपेषु दविहोमादिषु प्राप्तेस्तेष्वपि वा कथञ्चिदङ्गत्वेन मन्त्रोच्चारणवत्त्वेन वा प्राप्तिसम्भवेऽप्यानुषङ्गिकप्रयोगप्राशुभावोपयोगि- कर्मानुसन्धानप्रयोजनत्वेऽपि ब्रह्मयज्ञस्याहरहःस्वाध्यायमधीयीतेति नित्यत्वश्रुतेरकरणे च प्रायश्चित्तस्मरणाददृष्टार्थत्वावधारणेनादृष्टार्थोपायापेक्षितवात्तत्प्रकरणपठितस्याचमनस्यात्य- न्ताप्राप्तौ वाक्येन कथञ्चित्प्राप्तावपि प्रयोगारम्भे कृतस्य तत्प्रयोगान्तर्वर्त्तिसमस्तमन्त्रोच्चार- णोपकारकत्वेन प्रतिमन्त्रमनावृत्तेरन्तराले प्राप्यभावेन क्रमादिविरोधित्वान्न सोमेनोच्छिष्टा भवन्तीत्यस्य च स्मृतिप्राप्ताचमनप्रतिषेधार्थत्वेनाप्युपपत्तेर्यथा वै दक्षिणः पाणिरित्यस्य च यज्ञाङ्गभूतदक्षिणहस्तविध्याक्षेपकत्वे यथासव्यस्तथश्मशानकरणमित्यस्यापि प्रेतकर्माङ्ग- भूतसव्यहस्तविध्याक्षेपकत्वापत्तेराचारविरोधप्रसङ्गात्स्मृत्याचारप्राप्तदक्षिणहस्तोपमार्थत्वोप- पत्तेर्विध्याक्षेपकत्वाभावात् क्रमादिविरोधे प्रत्यक्षाचमनादिविध्यभावाञ्चोदाहरणदूषणं युक्त- मित्याशङ्क्याह—तेनेति । क्रमादेः प्रयोगाङ्गत्वात्प्रयोगस्य चाचारपर्यन्तप्रमाणप्रापित- पदार्थविषयत्वात्सकलपदार्थप्राप्त्युत्तरकालभावित्वेन विरोधपूर्वकपक्षयोगात्स्मृतेश्च यथाश्रुत- मूलनिश्चये प्रामाण्याभावेनाचमनादेस्तत्प्रमेयत्वायोगान्निश्चये वा प्रमाणदौर्बल्यानुपपत्तेः प्रमेयबलाबलेन प्रमाणबलाबलबाधसिद्धान्तायोगादनुदाहरणतेत्याशयः ।
७ ⁑ प्रथमाध्याये तृतीयपादः ३७९ नन्वेवं तह्यग्रवन्ति प्रागग्राण्युदगग्राणि वापवर्गवन्ति, प्रागपवर्गाण्युदगपवर्गाणि वेत्या- द्युदाहरणं अविषयतीत्याशङ्क्य तत्राप्युक्तदोषसाम्याद् द्विविधस्यापि विचारस्यानुपपत्तेर- धिकरणान्तरमेवेदं न भवतीत्याह — तस्मादिति । का तर्हि सूत्राणां गतिरित्यपेक्षायामाह — सूत्राणि त्विति । बाह्यस्मृतिविषयस्य विरोधाधिकरणस्याक्षेपपरिहार्थं सूत्रद्वयम्, तृतीयन्तु स्मृत्यधिकरणोक्ताचारप्रामाण्याक्षेपपरि- हारार्थमिति विवेकः । आद्यं सूत्रं विरोधाधिकरणाक्षेपे योजयति यत्तर्हीति । द्वितीयं परिहारे पठित्वा योजयति — परिमितान्येव हीति । पुराणन्यायमीमांसाधर्म्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्म्मस्य च चतुर्दश ॥ या. स्मृ. आ-श्लो-३ इति स्मृत्यैव चतुर्द्दशानां धर्म्मप्रमाणत्वम् उपपादितं च स्मृत्यधिकरणे । अथ आयुर्वेदो धनुर्वेदो गान्धर्व्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थं च विद्या ह्यष्टादशैव तु ॥ इति स्मृत्या पूर्वैः सह संख्यानेनायुर्वेदादीनामपि क्रत्वर्थाज्यावेक्षणादिसिद्ध्यर्थं- चिकित्सादिग्विजयर्थं शास्त्रविद्यागानौपयिकषड्गादिद्रव्यार्जनोपयोगिनीति द्वारेण धर्म्म- प्रमाणत्वं तथापि बौद्धादिग्रन्थानां तन्मध्यपाताभावान्न धर्म्मप्रामाण्यमित्यर्थः । आयुर्वेद- धनुर्वेदगन्धर्व्ववेदास्त्रय उपवेदाः । मीमांसान्यायविस्तरौ द्वे तूपाङ्गे । साधारणीविशेषविषया च द्विविधा शिक्षा । तत्र साधारण्याद्वेदाङ्गत्वेन धर्म्मप्रामाण्येऽपि, कात्यायनादिप्रणीतायाः विशेषविषयायाः प्रतिवाक्यं प्रतिपदं चोच्चारणम् नियच्छक्त्या धर्मप्रमाणत्वाभावशङ्का- निराकरणार्थं पृथगुपादानेऽपि शिक्षात्वेनैवान्नातिरेकापत्तिः । दण्डनीतिः = अर्थशास्त्रम् । ननु परिमिते विद्यास्थानबाह्यत्वेऽपि तत्संवादिनां बौद्धादिग्रन्थानां कस्मान्न धर्म्म- प्रामाण्यमित्याशङ्कयाध्ययनविधिवशाद्वेदादेवावगम्यानुष्ठितं कर्म्म श्रेयः साधयतीति नियम- प्रतीतेर्बौद्धादिग्रन्थादवगम्यानुष्ठितस्यापि वेदार्थस्य श्रेयःसाधनत्वाभावा द्वेदादिपूर्व्वशास्त्रार्थस्य गोचरस्य बुद्धादिकृतस्य वाक्यस्य धर्मे प्रामाण्यं नास्तीत्याह — प्रतीति । एतदेव व्यवहारेण द्रढयति — तथा चेति । नन्वेवं सति मन्वादिग्रन्थानामप्यप्रामाण्यं स्यादित्याशङ्क्याह — वेदेनैवेति । मन्वादीनां धर्मप्रवक्तृत्वस्य वेदानुज्ञां दर्शयति — तथा चेति । नन्वनादेर्वेदस्यादिमन्मन्वादिपुरुष- विशेषाभिधायित्वायोगाच्छ्रुतिसामान्यमात्रेण मन्यते ज्ञायते तेनेति व्युत्पत्त्या मनुशब्देन वेदाभिधानान्नानेन वाक्यशेषेण मनोः प्रवक्तृताऽनुज्ञायत इत्याशङ्कयाह — न चेतिदिति । ननु मनोः प्रवाहनित्यत्वेऽपि तत्स्मृतेरनित्यत्वान्न वेदेन प्रामाण्यानुज्ञानं सम्भवतीत्या- शङ्कयाह — प्रतीति ।
३८० मीमांसादर्शनम् [ सू० ननु कल्पान्तरे मनूनामभावात्तद्वाक्यप्रामाण्यपरत्वे वेदस्यानित्यत्वं स्यादित्या- शङ्क्याह—स्थिताश्चेति । दृष्टान्तं विवृणोति—प्रतिद्युशमिति । मन्वादेः प्रवाहनित्यता कथमवगम्यत इत्यपेक्षिते मनुवचनमुदाहरति—उक्तं चेति । दृष्टान्तान्तरमाह—इतिहासेति । उपसंहरति—तेनेति । कथं पुनर्वेदातिरिक्तानामपि तन्मूलानां ग्रन्थानां धर्मप्रमाङ्गत्वमतन्मूलानां च तत्सं- वादिनामप्यनङ्गत्वमित्यवगम्यत इत्यपेक्षायामुभयद्योतकं लिङ्गं दर्शयति—तथा चेति । वेदमूलानां धर्मप्रमाङ्गत्वद्योतकत्वमस्योपपादयति—अन्यथा हीति । बाह्यानां धर्मप्रमाङ्ग- त्वद्योतकमपपादति—यदि चेति । वेदमूलग्रन्थनिबन्धनानां धर्मप्रामाण्यम्, न बाह्यानामिति यदि नाश्रीयेते तथा सति बाह्यानां विज्ञातप्रत्यक्षातिमूलत्वान्नवाविज्ञातमूलं किंचिदित्यर्थः । अतः साक्षात्परम्परया वा वेदादवगम्यानुष्ठितोऽर्थः श्रेयःसाधनमिति शास्त्रार्थविवारणाद्भे- दार्थस्यापि बाह्यस्मृत्यवगतस्य श्रेयःसाधनत्वं नास्तीत्यप्रामाण्याभिधानाभिप्रायं प्रकटयति— तस्मादिति । एतदेव दृष्टान्तद्वारेण विवृणोति — यथैवेति । अतिक्रान्तं वेदोक्तं तथा मर्यादया तया व्यवहारिणामिति विग्रहः धर्मविप्लावकत्वाच्च शाक्यादीनामश्रद्धेयवचनत्वमित्याह— स्मर्यन्ते चेति । ननु विसंवादिशाक्यादिवाक्यानामग्राह्यत्वेऽपि संवादिनामहिंसादिवाक्यानां ग्राह्यत्वं भविष्यतीत्याशङ्कयाह—यथेति । परपीडात्मकात्कर्मणस्तदनुरूपमात्मनः पीडात्मकं फलम्भवतीति कर्मानुरूप्योपमानं वैदिक्यपि हिंसा लौकिकीवदधर्म इति सामान्यतो दृष्टदुःखोपभोगस्य पापफलत्वाज्ञानादुःखोपभोगात्पापक्षयो भवतीत्यर्थापत्तिः तद्बलाच्छा- क्याद्यभिप्राय कल्पितानां धर्माभासानां मध्ये पतितमित्यर्थः । संवादोत्तरकाले तर्हि ग्रहीष्यत इत्याशङ्कयाह—यदेति । सिद्धान्तमुपसंहरति—तस्मादिति । तृतीयं सूत्रं स्मृत्याधिकरणो- क्ताचारप्रामाण्याक्षेपपरिहारे योजयितुमुपक्रमते — यत्त्वेतदिति । धर्मजिज्ञासाधिकारेऽप्यर्थ- कामाचाराणामपि दृष्टप्रमाणमूलत्वेन प्रसङ्गात्प्रामाण्यसिद्धिमभिप्रेत्य, त्रिवर्गग्रहणम् । स्मृति- न्यायसिद्धस्याचारप्रामाण्यस्याक्षेपानुपपत्तिमाशङ्क्य तत्समर्थनार्थं सन्देहहेतुप्रदर्शनपूर्वकं पूर्वपक्षमाह—तद्विपरीतेति । त्रिवर्गविपरीतैरधर्मानर्थदुःखासाधनैरात्महननादिभिराचारैः सङ्कीर्णो व्यवहारो येषामिति विग्रहः वैद्यश्चासावातुरश्चेति कर्मधारयं कृत्वा पूर्वपदेन कर्मधारयः कार्यः । अत्यन्तविलक्षणानन्ताचारमूलभूतैकश्रुतियोगात्प्रत्याचारं च मूलकल्पने- ऽनन्तश्रुतिकल्पनापत्तेर्नाचारमूलश्रुतिकल्पनं सम्भवतीति वक्ष्यमाणप्रकारेणाचाराणां श्रुति- कल्पकत्वासम्भवमभिप्रेत्याशब्दत्वोक्तिः । विरोधं दर्शयति—सदाचारेषु हीति । लोभाद्य- भिभवात्सन्निहितानर्थदर्शनेनाधर्माचरणं धर्मव्यतिक्रमः । दृष्टस्याप्यनर्थस्य बलदर्पेणानादरा दधर्माचरणं साहसं वहता । प्रायो धर्मव्यतिक्रमवर्णनम् व्यतिक्रमं साहसं च यथासम्भवं दर्शयति—प्रजापतेस्तावदिति । इन्द्रस्यापि गौतम- भार्यागमनेनागम्यागमनरूपादधर्माचरणाद्धर्मव्यतिक्रम इत्यनुषङ्गेण योज्यम् । इन्द्रे ब्रह्म-
७ ] प्रथमाध्याये तृतीयपादः १८१ हत्यामयादपक्रान्ते, नहुषः स्ववीर्येणेन्द्रपदमधिष्ठाय तद्भार्यां शचीमभिगन्तुं चकार । वसिष्ठ- पुत्रे शक्तौ राक्षसैर्भक्षिते तच्छोकान्मर्तुकामो जलं प्रवेष्टुमारेभे । विश्वामित्रः क्षत्रियमपि त्रिशङ्कुं ब्राह्मणकन्याहरणकुपितस्य पितुः शापाच्चाण्डालत्वमापन्नं याजयामास । उर्वशो- वियोगशोकातुरुरवा मर्तुमियेष । विचित्रवीर्येऽनपत्य एव मृतं तद्भार्यायामम्बिकायां धृतराष्ट्रमम्बालिकायां पाण्डुमम्बिकाप्रेषितायां दास्यां विदुरं कृष्णद्वैपायनो जनयामास । विधवानियोगोऽपि ब्रह्मचारिणोऽनुचित इति गृहीतेत्यनेन सूचितम् । नियोगविधेरेक्येका- पत्यविषयत्वादनेकोत्पादनानौचित्यं प्रसङ्गशब्देन सूचितम् । भीष्मस्यानाश्रमित्वमपत्नीकस्य च स एष भीष्मः कुरुवंशकेतुर्यनाहुतास्त्रिंशतो वाजिमेधाः क्रतुप्रयोग इति धर्मव्यति- क्रमद्वयम्, रामवदित्यनेन तस्यापि पत्नीत्यागेनैकाकिनः क्रतुप्रयोगाद्धर्मव्यतिक्रमः सूचितः । धृतराष्ट्रस्यान्धत्वेनानधिकृतस्य यागकरणाद्धर्मव्यतिक्रमः । अन्धस्य निरंशत्वेन धना- भावाद्यागासम्भवमाशङ्क्य । तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः । अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥ इति दर्शनात्पाण्डुवर्जितधनैरित्युक्तम् । सुहृदश्चापि धर्मात्मा धनेन समतर्पयदिति च पाण्डुना धृतराष्ट्रादिभ्यः स्वार्जितधन- समर्पणान्नापहारः शङ्कनीयः । पाण्डुवर्जितधनोपजीवनं ज्येष्ठस्य धृतराष्ट्रस्यानुचितमिति, व्यतिक्रमान्तरं चानेनोक्तम् । इदं सज्जं धनुः कृत्वा सज्जेनानेन सायकैः । अतीत्य लक्ष्यं यो वेद्धा स लभेत सुतामिमाम् ॥ इति द्रुपवेनोद्घोषिते तथाकृतवतेऽर्जुनाय द्रौपदी निवेदिता तथा च "विद्ध्येत य इमं लक्ष्यं तं वृणीष्व वरानने" इति भ्रातृवचनाल्लक्ष्यवेधानन्तरमेवार्जुनो वृत इत्यपरि- णयनेऽपि वरणे च जायात्वप्रक्रमादन्यस्य विशेषतो भ्रातुःकनीयसश्च जायायाः परिणय- नादेको युधिष्ठिरस्य धर्मव्यतिक्रमः, तथा द्रोणो ब्राह्मणो युधिष्ठिरादीनां धनुर्वेदाचार्यो त्यक्तशास्त्रो न हन्तुं शक्यः । अश्वत्थाम्नि च पुत्रे हते शस्त्रं त्यक्ष्यतीति मत्वा वध्यत्वाय शस्त्रं त्याजयितुमश्वत्थामा हत इत्यनृतं युधिष्ठिरेणोक्तमित्यपरः । वासुदेवेन मातुलदुहिता रुक्मिणी परिणीता । अर्जुनेन सुभद्रेत्येकस्तयोर्द्धर्म- व्यतिक्रमः । उभौ मध्वासवक्षीबौ दृष्टौ मे केशवाजुनाविति च सुरापानादपरः । अद्यतनानां धर्मव्यतिक्रमवर्णनम् अद्यतनानां व्यतिक्रमं दर्शयति—अश्वत्वेऽपीति । अश्वाश्वतरखरोष्ट्रानां 'न केसरिणो ददाति' निषेधविषयत्वार्थं केसरित्वविशेषणं नोभयदतः प्रतिगृह्णातीति निषेधविषयत्वा-
३८२ : मीमांसादर्शनम् [ सू० योभयदत्तं विक्रयस्तु व्रीहियवाजात्यश्वभूमिधेन्वनडुहश्चैके (गौ० ध० सू०) इत्यश्वस्य गौतमेन निषिद्धः । बौधायनेन उभयतो दद्भिनं व्यवहार इति सर्वेषां न केवलं श्रुतिस्मृतिविरोधेनैवं जातीयकानामानाचाराणामनपेक्षणीयत्वं किं तु परस्परविगानलक्षणाद्विरोधाद्धेतुदर्शनाच्चेत्याह- सर्वत्रेति । इतरेतराश्रयापत्तेरपि नाचाराणां धर्मप्रामाण्यमित्याह-किं चेति । ननु मन्वादिस्मृतिप्रामाण्यस्य साधितत्वात्, तैश्च वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदामाचारश्चैव साधूनामिति श्रुतिस्मृतिवदाचारप्रामाण्यस्यापि स्मृतत्वात्तन्निरा- करणमयुक्तमित्याशङ्कते-नन्विति । अतिप्रसङ्गापादनेनैतद् दूषयति-आत्मतुष्टिरिति । नन्वसावप्यस्तु प्रमाणमित्याशङ्कयाह-धर्म इति । यद्यसौ धर्म एव व्यवस्थितः स्यात् भवेत्प्रमाणम्, नन्वेतदस्तीत्याशयः । अनवस्थितत्वमुपपादयति-यथाभ्यासं हीति । वैचित्र्यं प्रपञ्चयति-तथा हीति । अत्यन्तकारुण्याच्छाक्यानां पशुहिंसादर्शने पीडा भवति । ननु साध्वात्मतुष्टेः प्रामाण्यस्मरणाच्छाक्यादीनां चासाधुत्वान्न तदीयान्यतुष्ट्यन्यथात्वेन किंचिद् दुष्यतीत्याशङ्क्य साधुत्वसम्मतानां वेदवादिनामप्यात्मतुष्टेर्वैचित्र्यमाह-तथेति । स पापेन मनसापि तन्मातुलसुताप्रापणं न कुर्वत इत्यपिशब्दाध्याहारेण व्याख्येयम् । का तर्ह्युभयप्रामाण्यस्मृतेर्गतिरित्याशङ्क्याह-ततश्चेति । श्रुतिस्मृतिसम्बाधाचारात्मतुष्टि- विषया स्मृतिरित्याशयः । किं चाचारमूलभूता श्रुतिर्मन्वादिभिर्दृष्टा न वा तत्र तैरदर्श- नैरर्वाचीनानां दर्शनस्यासम्भवनीयत्वाच्छिन्नमूलत्वापत्तेराचारप्रामाण्यस्मृतेरन्यपरतैवाङ्गी- कार्येत्याह-स्वयमिति । श्रुत्यभावे च स्मृतिपारतन्त्र्याच्छिष्टानां तदाचारप्रामाण्यमभिधानं स्मृतिकाराणां न शोभत इत्याह-स्मृतीति । आचारमूलश्रुतिदर्शनं तु मन्वादेर्न कल्पयितुं शक्यम्, तदर्थानिबन्धनादित्याह-न चेति । यदि ह्याचारमूलभूता श्रुतिर्मन्वादिभिर्दृष्टा स्यात् ततः परोक्षापि स्वरूपेणासमर्पिताप्युपनयनादिश्रुतिवदर्थं स्मर्येत तदर्थो निनिबध्येतेत्यर्थः । पूर्वपक्षमुपसंहरति-तस्मादिति । सिद्धान्तः सिद्धान्ते सूत्रं पठित्वा योजयति-इति प्राप्त इति । दृष्टं फलमनुष्ठानकारणत्वेना- चरितुर्भिनिश्चितं येषु कर्मसु तानि दृष्टकारणहीनानि धर्मबुद्ध्या यानि क्रियन्ते इत्यर्थः । विशेषणस्य व्यावत्त्यंमाह-शरीरेति । अस्मिन्सूत्रे हेत्वनभिधानात्स्मृत्यधिकरणसिद्धान्त- सूत्रोक्तं हेतुं योजयितुमाह-धर्मत्वेनेति । तान्युदाहरति-प्रदानानीति । शक्रध्वजमहः शक्रध्वजोत्सवः महे इति पाठे शक्रध्वजे महायात्रेति सप्तमीसमासः । देवतायतनेष्वित्यत्र महायात्रेत्यनुषङ्गः । सर्ववर्णसाधारण्यार्थे-सर्वासामित्युक्तम् । उदाहरणान्तराण्यपि दर्शयन् कारणाग्रहणमुपपादयति-प्रदीपेति । प्रदीपानां कार्त्तिकशुक्लप्रतिपदि दानम् । मोदका- दिश्रुतिभिर्द्रव्यैः तत्साध्यानि दानभक्षणादीनि लक्ष्यन्ते । माघसप्तमीपौर्णमासीभ्यां तत्काला- नुष्ठेयं कर्म लक्ष्यते । फाल्गुनीपौर्णमास्यनन्तरार्यां प्रतिपदि वसन्तनिमित्त उत्सवः ।
पादिकायाश्च स्मृतेर्निर्मूलत्वयोगादाचारमूलश्रुतिकल्पनमवश्यंभावीत्याह-न चेति ।
७ ] प्रथमाध्याये तृतीयपादः १८१ स्मृतितोऽपि सदाचारप्रामाण्यमवसीयेत इत्यतिप्रसङ्गदोषाभावं वक्ष्यमाणमभिप्रेत्याह- स्मृतिकाराश्चेति । सर्वाचारसाधारण्यप्रदर्शनार्थः सामान्यशब्दः । उत्सवात्मकस्याचारस्य द्योतकं स्मृत्यन्तरमुदाहरति-तथेति । वैदिकमप्युत्सवलिङ्गमुदाहरति-वेदेऽपि । सिद्धान्तमुपपाद्य धर्मस्य शब्दमूलत्वादिति पूर्वपक्षहेतुं साभिप्रायविवरणमनुभाष्य निराकरोति-यत्त्विति । इहाचारेष्वनन्तेषु परिमितशास्त्रमूलत्वासम्भवादशब्दत्वेनान- पेक्षत्वं यदुक्तम् । तद्— भ्रान्तेरनुभवाच्चापि पुंवाक्याद्विप्रलम्भनात् । दृष्टानुगुण्यसाध्यत्वाच्चोदनैव लघीयसी ॥ इति पूर्वोक्तेन प्रकारेण वेदमूलत्वानुमानात्प्रत्याख्येयमित्यर्थः । आचारप्रामाण्यप्रति- पादिकायाश्च स्मृतेर्निर्मूलत्वयोगादाचारमूलश्रुतिकल्पनमवश्यंभावीत्याह-न चेति । नन्वनन्ताचारमूलभूतानां श्रुतीनामानन्त्यात्पठितुमशक्तेरपठितानां च मूलत्वायोगान्नि- र्मूलत्वमपरिहार्यमित्याशङ्कयाह-विस्तरेति । कथमनन्तानां संक्षेपवचनमूलत्वमित्या- शङ्कयाह-शङ्क्यं चेति । ननु स्मृत्यनुरूपाश्रुतिः कल्प्या कल्प्यमाना साध्वाचरणेनैवोपलक्षितानां धर्मत्वप्रति- पादिका कल्प्येत । तत्र शास्त्रव्यापारात्प्रागाचरणसिद्धौ शास्त्रानर्थक्यम्, असिद्धौ वा शास्त्रादाचरणं तदुपलक्षणेनैव च शास्त्रप्रवृत्तिरितीतरेतराश्रयं स्यादित्याशङ्कयाह - तथा हीति । श्लोकं विवृणोति-न हीति । ननु व्यापाररूपत्वात्प्रदानादीनां यागादिवत् स्वरूपेणापि शास्त्रगम्येन भवितव्यमित्याशङ्कयाह-यागादिष्वपि चेति । पूर्वसिद्धत्वादेव च नेतरेतराश्रयमित्याह-अत इति । ननु यदि शास्त्रप्रवृत्तिमनुपलभ्यैव शिष्टप्रवृत्तिः ततः स्वयमेवानुष्ठितप्रदानादेर्भोजनादि- वत्फलसाधनत्वसिद्धेः शास्त्रानर्थक्यमपरिहृतं स्यादित्याशङ्कानिराकरणार्थम्-क्वाचित्क- त्वेत्युक्तम् । शिष्टप्रवृत्त्युत्तरकालं तर्हि शास्त्रस्य प्रवृत्तेरादिमत्त्वं स्यादित्याशङ्क्य- सर्वकालं त्वित्युक्तम् । ननु शिष्टाचारस्यापि मातुलदुहित्युद्वाहादिषु विगानदर्शनात्कथमुप- लक्षणत्वमित्याशङ्कयाह-तेषां चेति । यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ॥ इति मनुना सदाचारशब्दार्थस्य निर्णीतत्वादिति भावः । स्मृतिबलाच्च श्रुतिरपि विशिष्टविषयैव कल्प्येत्याह-वेदेनापीति । सरस्वत्या विनशनं तिरोभावः सारस्वतसत्रारम्भदेशस्योपलक्षणम् । तस्या एव प्लक्षात्प्रस्रवणं सारस्वतसत्रो- त्थानदेशस्योपलक्षणम् । सदाचारस्वरूपावधारणे यत्पूर्वमितरेतराश्रयत्वमुक्तम् । तदेव
३८४ मीमांसा दर्शनम् [ सू० शिष्टप्रयोज्यत्वस्योपलक्षणत्वे योजयन्परिहारायानुभाषते—नन्विति । परिहरति—श्लोकं विवृणोति प्रत्यक्षेति । ननु साक्षाद्विहितकारित्वनिबन्धनस्यापि शिष्टत्वस्य वेदाधीनत्वा द्वैदिके विधौ आत्मा- श्रयापत्तेर्नोपलक्षणत्वं सम्भवतीत्याशङ्क्य, वैदिकत्वाभेदोऽपि विशेषरूपेण भेदान्नात्मा- श्रयापत्तिरिति दृष्टान्तेनोपपादयति—यद्यथेति । यद्यप्यध्ययनविध्याक्षिप्तत्वा द्वेदाङ्गमीमां- साव्याकरणादिश्रवणवेदार्थज्ञानयोरध्यापनविधिविहितत्वाच्चाध्यापनस्य शुश्रूवान्विद्वाननू- चानश्च वैदिको वेदविहितश्रवणज्ञानप्रवचननिमित्तत्वा द्वेदाधीनः तथापि य एवं विद्वांस्वा- ध्याय॒मधीयीत त्रयो वै गतश्रियः शुश्रुवान् ग्रामणी राजन्य इति गतश्रियं लक्षयित्वा गतश्रीरजस्रमग्नीन्धारयेत्कामं योऽनूचानः श्रोत्रियः स्यात् तस्य प्रवृञ्ज्याद् इति वेदविहि- तेष्वध्ययनादिषु तेनैव तल्लक्षितः-तेन शुश्रुवत्त्वादिना कृत्वा लक्षित इति, तथापि शब्दार्थे पुनःशब्दमङ्गीकृत्य व्याख्येयम् । नन्वेवमपि वेदप्रवृत्तौ सत्यां साक्षाद्विहितकारित्वलक्षणं शिष्टत्वम्, तस्मिंश्च सति शिष्टप्रयोज्यत्वोपलक्षिताचारप्रामाण्यप्रतिपादकवेदप्रवृत्तिरितीतरे- तराश्रयं स्यादित्याशङ्कयाह - तेनेति । यत्तु स्वयमज्ञातमूलाश्चेत्यादिना मन्वादिभिराचारमूलश्रुत्यदर्शनेऽन्येषां दर्शनस्य दूरोत्सारितत्वादभाव एव प्रसज्येत, दर्शने चोपनयनादिश्रुत्यर्थवदाचारमूलश्रुत्यर्थोऽपि निबन्धनीयः स्यादित्युक्तं तन् मन्वादीनामपि सर्वशाखाध्यायित्वनियमाभावात्तद्दर्शनमात्रे- णाभावकल्पनानुपपत्तेर्दर्शनेऽपि वा सदाचारः प्रमाणमिति सामान्याभ्यनुज्ञानमात्रेण सिद्धे- र्ग्रन्थगौरवभयाद्विशेषरूपेण निबन्धनोपपत्तेर्भविष्योत्तरादौ च होलाकाद्याचाराणां निबद्ध- त्वात्परिहृतमित्याह — स्मृतिरपीति । वेदविहितकारिणां धर्मबुद्ध्याचरणस्य वेदमूलत्वं विनानुपपत्तेराचाराद्वेदमनुमायपि स्मर्तृप्रणयनमुपपन्नमित्यभिप्रेत्य—चारमित्युक्तम् । ननु विस्तरवचनानामपीत्यनेन प्रत्येकमाचारमूलश्रुतिकल्पनमुक्तम्, किमुत संक्षेपवचन- स्येत्यनेन स्मृत्यनुरूपसामान्यश्रुतिकल्पनम्, तत्कोऽनयोः पक्षयोः सम्मत इत्यपेक्षायामुभयथापि दोषाभावप्रतिपादनार्थं पक्षद्वयोपन्यासः । परमार्थतस्त्वश्रीरातनूभवत रुशती,जाययामुया पतियंदृवद्धो वाससा स्वमङ्गमभिधित्सस्त इत्याद्यानां स्त्रीवासोपरिधानाद्याचारमूलभूतानां वह्वीनां श्रुतीनां दर्शनात्प्रत्येकश्रुतिकल्पनपक्ष एव ज्यायानिति सूचयितुमाह—इत्यबोच- इति । हेतुदर्शनमनुभाष्य परिहरति—यत्त्विति । एतदेव विवृणोति—वेदेऽपि हीति । ननु दृष्टार्थत्वसम्भवेऽपि वेदमूलत्वकल्पने धर्माचारस्यार्थकामाचाराभ्यां विवेको न स्यादि- त्याशङ्कयाह—यानि त्विति । ननु म्लेच्छादिसाधारण्यात्कृष्यादेर्धर्मत्वानभ्युपगमे देवपूजा- देरपि धर्मत्वाभावापत्तेरनिन्द्यादमः क्षान्तिः सर्वेषां धर्मलक्षणमित्यादिस्मृतिविरोधः स्यादित्याशङ्कयाह—किं त्विति । ननु सर्वसाधारणस्य कथमसाधारण्येन शिष्टाचारगतत्व- मुच्यते इत्याशङ्क्य, शूद्रादिभिरपि शिष्टत्वायैव धर्मबुद्ध्याचरणादसाधारण्यसिद्धिरिति परिहरति—लोके हीति । अतोऽस्ति विवेक इत्युपसंहरति—तत्रेति ।
७ ] प्रथमाध्याये तृतीयपादः ३८५ यत्वात्मतुष्टेरपि प्रामाण्यात्तेनं स्मृतेराचारप्रामाण्यप्रतिपादनपरतेत्युक्तं तत् आत्मतुष्टेरपि प्रामाण्योपपादनेन दूषयति—एतेनेति । वेदविहितकार्याचारस्य वेदमूलत्वं विनानुपपत्तेर्वेद्- मूलतयाऽऽचारप्रामाण्यप्रतिपादनेन वेदजन्यानन्तधर्मंधीसंस्कृतान्तःकरणानामात्मतुष्टेरपि वेद- मूलत्वं विनानुपपत्तेः सन्दिग्धधर्मंनिर्णयार्थत्वेन प्रामामाण्यं वेद एव प्रसिद्धमित्यर्थः । शुद्धिशब्देन निर्णयोऽभिहितः । श्लोकं विवृणोति—तथैवेति । वेदतदर्थज्ञानस्याव्यवस्थि- तत्वनिराकरणार्थं तथैवेत्युक्तम् । प्रसिद्धिं दर्शयितुमित्याश्रित्योच्यत इति । वेदवाक्यगतार्षशब्दव्याख्यानार्थं वेद एव सम्भवतीत्युक्तम् । एतदेव दृष्टान्तेनोपपाद- यति—तथा हीति । सन्दिग्धार्थनिर्णायकत्वमात्मतुष्टेर्द्रढयितुमभियुक्तसम्मतिमाह—एवं चेति । प्रसिद्धथुपपादनाय—विद्वद्वचनादित्युक्तम् । निरूपणं दर्शयितुं कालिदासवाक्य- मुदाहरति—सतां हीति । दुष्यन्तेन शकुन्तलेयं मम परिणेतुमुचिता न वेति सन्दिह्य "असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मन" इत्यात्मतुष्ट्यौचित्यं निश्चित्य कथमात्मतुष्टि- मात्रेण निश्चय इत्याशङ्क्य—सतां हीत्युक्तम् । अस्यैव वाक्यस्याभिप्रायमाह — बहुदिनेति । एवं तावच्छिष्टात्मतुष्टेर्वेद नियतमार्गानुसारित्वात्स्मृत्याचारवद्धर्मंप्रतिज्ञापकहेतुत्वमुक्तमिदानी- मात्मतुष्ट्या स्वविषयस्य कस्यचिच्छू त्याद्यविरुद्धस्य कर्मणः श्रेयःसाधनशक्तिरूपं धर्मत्व- मुत्पाद्यत इति कारकहेतुत्वमाह—यद्धेति । वचनादेवेत्यात्मनस्तुष्टिरिवेत्यत्रानुषज्यमानस्य धर्मंमूलपदस्य धर्मोत्पादकत्ववाचित्वमभिप्रेत्योक्तम्—धर्मंतेति । अथ चोपरिष्टात्तथाचारातमतुष्ट्यादिधर्ममिति तस्मै हितमित्युपकारार्थं यत्प्रत्ययदशंना- द्धर्मोपकारिता धर्महेतुतेत्यर्थः । स्वभावभिन्नानामप्येकोषधियोगादेकशक्त्याविर्भावः सम्भव- तीति दृष्टान्तेनोपपादितं यथा भिन्नानामपि देवदत्तादीनामेकपुण्यक्रियायोगाद् ध्यायमानानां श्रेयःसाधनत्वम्, तथा भिन्नानामपि कर्मणामेकशिष्टात्मतुष्टियोगात् श्रेयःसाधनत्वमित्यर्थः । तस्माच्छब्देन पुण्यकृद्ध्यानस्य श्रेयःसाधनत्वे प्रमाणं पापं ध्यात्वा पुण्यकृतोऽध्यापयेति वचनं परामृष्टम् । आचारेऽपीमं परिहारमतिदिशति—आचारेष्वपीति । आचारश्चैव साधूनामित्येनेनापि श्रुतिस्मृत्यर्थाविरुद्धं यत्किंचिच्छिष्टैः क्रियते, तत् श्रेयःसाधनमित्युच्यत इत्यर्थः । अत्रैव दृष्टान्तान्तराण्याह—यथा चेति । भिन्नानामपि मन्त्राणामुच्चारयितृयोगादोष- धीनां नकुलदंष्ट्रायोगाद्गुवां पुण्यकृद्योगाद्येकशक्त्याविर्भावो यथेत्यर्थः । दाष्ट्रान्तिके योज- यन्नुपसंहरति—तथेति । धर्मंव्यतिक्रममनुभाष्य परिहरति—यत्त्विति । प्रजापतौ तावच्छ्रहतिसामान्यं विवृणोति— प्रजापतिस्तावदिति । इन्द्रे विवृणोति — एवमिति । नहुषे श्रुतिसामान्यमात्राद्वेति वाशब्द- सूचितं सदाचारत्वाभावं विवृणोति—नहुषेण पुनरिति । सदाचारस्य प्रमाणत्वेनाभ्युप- गतस्य व्यभिचारः परिहर्त्तव्यः । नहुषाचारस्य त्वनन्तरमेवाजगरत्वप्राप्त्या सदाचारत्वा- भावनिश्चयाद्यद्यतिक्रमेऽपि धर्मबुद्ध्या क्रियमाणस्याचारस्य व्यतिक्रमाभावान्न दोष इत्या- २५
३८६ मीमांसादर्शनम् [ सू०
श्यः । परदारामियोगोक्त्या मियुज्यमानायां शच्यामपि शङ्कितं व्यतिक्रमं निराकर्तुमाह— शच्याश्चेति । वशिष्ठाचारस्यापि पुत्रशोकजनितव्यामोहनिमित्तवारुणाद्यादमंबुद्ध्या क्रिय- माणत्वाभावात्सदाचारत्वाभावनिश्चय इत्याह—वशिष्ठस्यापीति । श्लोकं व्याचष्टे - यो हीति । विश्वामित्रे तेजोबलवशेनेति परिहारं विवृणोति—तेनेति । स हि व्यामोहाभावेऽप्या- पदि मत्कुटुम्बं भृतवतस्त्रिशङ्कोः प्रत्युपकर्त्तव्यं मयेति प्रत्युपकारेच्छया चण्डालमपि वा सशरीरं स्वर्गं नयामीति स्वप्रभावख्यापनेच्छया त्रिशङ्कुद्वेषिरि वशिष्ठे द्वेषाच्च तपोबलेन पापं नाशयामीत्यध्यवसाय चण्डालं याजयामास । येन कारणेन कामादिहेतुकस्याचारस्य धर्मादर्शनं नास्ति, तेन कारणेन विश्वामित्रचरितमपि न धर्मादर्शंत्वं प्रतिपद्यत इत्येवं तेन शब्दो योज्यः । सर्वं बलवतः पथ्यमित्येतमेव न्यायं प्रकृते योजयितुमाह--महान्ति चेति । द्वैपायने गर्हानिरासार्थं यथा वा न विरुद्धत्वमिति परिहारमुपक्रम्य अपरितोषात्तेजोबलवशेन वेत्ये- तमेव परिहारं दर्शयति—द्वैपायनस्यापीति । कथं पराशरपुत्रस्य द्वैपायनस्य शन्तनुपुत्रो विचित्रवीर्यो भ्रातेत्याशङ्क्य मातृसम्बन्धवचनम् । सत्यवत्यामनूढायां पराशराद् द्वैपायनो जातः शन्तनुना पश्चादूढायां विचित्रवीर्यः । एवमपि । 'यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥' मनु० ९।६९ इति नियोगस्य वाग्दत्ताविषयत्वादम्बिकाम्बालिकयोश्च विचित्रवीर्येण परिणीतत्वाद्वा- स्याश्च भ्रातृजायात्वाभावाद् ब्रह्मचारिणश्च मंथुनस्य निषिद्धत्वादपरितोषेण प्राक्कृतेत्युक्तम् । रामभीष्मयोर्यंथा वा न विरुद्धत्वमिति परिहारं विवृणोति—रामेति । रतिपुत्रार्थत्वनिरा- साय मातृशब्दः—नन्वेवं सति । 'ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । तस्या रजसि तं मासं पितरस्तस्य शेरते ॥' इति विहितातिक्रमात्प्रत्यवायः स्यादित्याशङ्क्य, स्नेह-पितृ—भक्तिवशादित्युक्तम् । रामेण सीतास्नेहाद्भार्यान्तरागमनव्रतग्रहणात्, भीष्मेण च शन्तन्वे सत्यवतीं तत्पितरं याचता त्वयि महाबले राज्याभिलाषुके तिष्ठत्येतरयाः पुत्राणां राज्यालाभान्नेमां ददामीति तत्पित्रा प्रत्याख्यातेन राज्यं नाहं करिष्यामीति प्रतिज्ञाते, त्वय्यनिच्छत्यपि त्वत्सन्तति- भयान्नैतस्याः सन्तती राज्यभागिनी स्यादिति, तत्पित्रा पुनः प्रत्याख्यातेन । अपत्यहेतोरपि च करोम्येतद्विनिश्चयम् । अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति ॥ इति पितृभक्त्या ब्रह्मचर्यव्रतग्रहणात्रैमित्तिकेन च व्रतेन नित्यस्यर्त्तुकालगमनस्य बाधाद्धर्ममात्रार्थमहं भार्यां परिणेष्यामीति परिभाव्य परिणीतायामगमनेऽप्यदोषः इत्या-
७ ] प्रथमाध्याये तृतीयपादः ३८७ शयः । एवमप्यनपत्यत्वेन पितॄणामपाकरणात्प्रत्यवायः स्यादित्याशङ्क्य—साक्षादित्युक्तम् । साक्षादपत्याभ्यां कुशलवाभ्यां कृतपितॄणानृण्यो रामः व्यवहितैर्विचित्रवीर्यस्यापत्यैर्धृत- राष्ट्रादिभिः कृतपित्रानृण्यो भीष्मः । ननु रामस्य धर्मार्थंदारान्तरसद्भावे यज्ञे यज्ञे प्रकुरुते सीतां पत्नीं हिरण्मयीमिति । हिरण्मयसीताकरणमनर्थकं स्यादित्याशङ्क्याह—हिरण्मयोति । अपवादभीत्या त्यक्ता या तद्गतं तद्विषयं यदानृशंस्यम्-अनैष्ठुर्यम्, तदभावाशङ्कानिवृत्त्यर्थमित्यर्थः । रावणापहार- दूषितां सीतां रामो भजत इति लोकापवादभयमात्रेणासौ त्यक्ता, न सीताया दुष्टत्वात् नापि रामस्य सीतायां नैष्ठुर्यादिति द्योतयितुं लोकापवादभीति प्रति त्यागस्य नित्यसापे- क्षत्वदर्शनाय त्यक्तशब्दस्य सीताशब्देन सह सापेक्षसमासः कृतः । कथं व्यवहितापत्यकृतपित्रानृण्यता भीष्मस्येत्यपेक्षायामाह—भीष्मश्चेति । ननु तयो- र्द्धमंमात्रार्थंदारसद्भावः, क्वचिदपि पुराणेतिहासयोरनुक्तः । केवलप्रमाणेनावगम्येतेत्या- शङ्कयाह-केवलेति । अपिशब्देनापत्यहेतोरद्य प्रभृतीति च विशेषणसामर्थ्यादप्येवमवगम्यत- इति सूचितम्, ननु मोहादप्यनुष्ठानोपपत्तेर्नैकान्तोऽर्थापत्तिः संभवतीत्याशङ्क्य । श्राद्धकाले मम पितुर्मया पिण्डः समुद्यतः । तं पिता मम हस्तेन भित्त्वा भूमिमयाचत ॥ नैष कल्पविधिर्दृष्ट इति निश्चित्य चाप्यहम् । कुशेष्वेव तदा पिण्डं दत्तवानविचारयन् ॥ इति भीष्मस्यात्यन्तनैपुण्यान्मोहासम्भवं दर्शयितुमाह—यो वेति । धृतराष्ट्रेऽप्येतमेव परिहारं दर्शयति—धृतराष्ट्रोऽपीति । हतेषु पुत्रेषु शोकार्तेन धृतराष्ट्रेण सकृत्पुत्रदर्शनं प्रार्थितम् । व्यासेन योगबलात्सम्पादितमित्याश्चर्यपर्वणि कथापरिहारवैभवाय प्रकारान्तरे- णाविरोधमाह—यद्वेति । नन्वेवं सति अश्वमेधशतैर्रीजे धृतराष्ट्रो महामखैरित्यश्वमेध- शब्दानुपत्तिमाशङ्क्योपचारिकत्वेनोपपादयति—ऋतुफलेति । युधिष्ठिरग्रहणेन पञ्चानामप्येकपत्नीत्वलक्षणस्य धर्मव्यतिक्रमस्य सूचितत्वात्तत्र मनुष्य- प्रतिषेधाद्धेति परिहारं दर्शयितुमाह—या चेति । प्रतिकूलतयाऽपादितागमिता निराकृतेत्यर्थः । द्वैऽऽरायणीयमुपपादनप्रकारमाह - यौवनेति । कुमारी चैव तन्वङ्गी वेदिमध्यात्समुत्थिता । श्यामा पद्मपलाशाक्षी पीनोन्नतपयोधरा ॥ १ ॥ द्रौपद्येषा हि सा जज्ञे सुता ते देवरूपिणी । पञ्चानां विहिता पत्नी कृष्णा पार्वत्यनिन्दिता ॥ २ ॥ स्वर्गस्त्रीपाण्डवार्थाय समुत्पन्ना महामखे । इत्यादिबहुप्रकारममनुष्यत्वोपपादनादविरोध इत्याशयः ।
३८८ मीमांसादर्शनम् [ सू० नन्वमनुष्यत्वात्तस्या निषेधाभावेऽपि पाण्डवानां मनुष्यकुन्तीमाद्रीयोनिजत्वेन मनुष्य- त्वान्निषेधो भविष्यतीत्याशङ्कयाह—सा चेति । लक्ष्मीश्चैषा पूर्वमेवोपदिष्टा भार्या चैषां द्रौपदी दिव्यरूप । कथं हि स्त्री कर्मणोऽन्ते महीतलात्समुत्तिष्ठेदन्यथा दैवयोगात् ॥ इति द्वैपायनेनैव तस्या स्त्रीत्वव्युत्पादनाच्छ्रिया सर्वसेव्यत्वान्ननिषेध इत्यर्थः। द्वैपाय- नीयस्य वेदिमध्योद्भूतवाद्यभिधानस्यानिषिद्धत्वायामनुष्यत्वोपपादनाथंतमभियुक्तवचनेन द्रढयितुमाह—अत एव चेति । यदि मे पतयः पञ्च वरमिच्छामि याचितुम् । कौमारमेव तत्सवं सङ्गमे सङ्गमे भवेत् ॥' इति पूर्वजन्मनि तया च पञ्चकृत्वः पतिं मे देहीति याचितेनेश्वरेण पञ्च ते पतयो भविष्यन्तीत्युक्ते पुरुषसंयोगजयोनिक्षताभावरूपं कौमारं प्रार्थितमित्यभिधानात्प्रत्यहमक्षत- योनित्वरूपं कन्यात्वं तस्याः सूचितमिति मत्वा जगाद विप्रर्षिः कृष्णद्वैपायन इत्युक्तम् । कृष्णेनापि कर्णं भेदयितुं पाण्डवास्त्वामेव मातृसम्बन्धाज्ज्येष्ठं भ्रातरं मत्वा राज्ये ऽभिषेक्ष्यन्तीत्यादिप्रलोभयित्वा 'षष्ठे च त्वामहनि द्रौपद्यागमिष्यतीत्यभिधानादमनुष्यत्वेना- निषिद्धत्वं तस्याः सूचितमित्याह—अत एव चेति । यस्त्वश्रद्दधानतयेममागमिकमपि परिहारं नानुमन्यते, तं प्रत्येकपत्नीत्वमेव पञ्चानामसिद्धमिति दर्शयंन्नन्यथा परिहार- द्वयमाह—अथ वेति । निश्छद्रत्वायापारमार्थिकोऽपि साधारणव्यवहारः पाण्डवानां नीतिशास्त्रानुसारात्सम्भवन्तीति दृष्टान्तेनोपपादयन्नाह—यथेति । रजस्वलायाः स्वयं समागमनस्यात्यन्तमसम्भवाद् दुःशासनस्य चाप्रभुत्वाद् धृतराष्ट्र एव मामानयतीति ख्यापयितुं रजस्वलावेषं कृतवतीत्यर्थः । आनयनख्यापनप्रयोजनं सपुत्रकस्येत्युक्तं दुःशासनस्यानेतृत्व- ख्यापनेनाऽयशोऽतिशयोत्पादनं चशब्देन सूचितम् । अन्याय्यानमानमिति पाठे दुःशासनो मां प्रत्यन्याय्यं करोतीत्यस्मिन्नर्थेऽन्याय्यप्रातिपदिकात्तत्करोति तदाचष्ट इति णिच्मुत्पाद्यातो लोप इत्यकारलोपे कृते, णेरनितीति णिलोपादद्रूपसिद्धिः, स्वापमानख्यापनप्रयोजनं च पाण्डवानां कोपातिशयोत्पादनं श्रीत्वदर्शनप्रयोजनं श्रीपतेर्नारायणस्यैवांशा वयमिति शत्रून्प्रति ख्यापनं परिहारवैभवमात्रार्थमस्य परिहारद्वयस्य सूचयितुमादिशब्देनानवक्लृप्त्य- मिधानं दुराचारत्वाभ्युपगमेन धर्मबुद्धानाचरणमदसङ्कर इति परिहारवैभवार्थमेव रागेति परिहारान्तरं दत्तम् । युधिष्ठिरस्याचार्यब्राह्मणवधार्थनृतभाषणे रागादिकृतत्वमेव परिहार इति प्रायश्चित्त- करणेव दर्शयति—तथा चेति । ननु 'कामतो ब्राह्मणवधे निष्कृतिर्न विधीयत इति स्मृतेः कामकृते प्रायश्चितं नास्तीत्याशङ्क्य कामकृतेऽप्येक' इति स्मृतिरुदाहृता । अन्तेऽपीत्यपि- शब्देनास्य दुराचारत्वेनापि युद्धान्ते प्रायश्चित्तकरणान्नातिगर्हणीयो युधिष्ठिर इत्युक्तम् ।
७ ] प्रथमाध्याये तृतीयपादः ३८९ कृष्णार्जुनयोर्मद्यपानमातुलदुहितृपरिणयने यथा वा न विरुद्धत्वमित्येतं परिहारमाह— यस्त्विति । ननु' सर्वा न पेया ब्रह्मवादिभिरि'ति वेदाध्ययनयोगात्त्रैवर्णिकमात्रस्य त्रिविधसुरा- निषेधावधारणेन ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेदिति सामान्यशब्दस्यापि त्रिविधसु- राविषयत्वनिश्चयान्न 'सुरा वै मलमन्नानामि'ति वाक्यशेषानुरोधेन पैष्टीमात्रविषयत्वं युक्त- मित्याशङ्कयाह—मधुसीधुनोस्त्विति । सीधुः = गोडी । त्रिविधसुराव्यतिरिक्तताडादि- प्रभवमद्यमात्रनिषेधो गौतमीये । यथा केवलब्राह्मणविषयः तथा मानवीयोऽपि त्रिविधसुरा- निषेधो ब्रह्मवादिशब्दस्य ब्राह्मणमात्रविषयत्वात्केवलब्राह्मणविषय इत्यर्थं । कोऽसौ मानवीयो निषेधः केवलब्राह्मणविषय इत्यपेक्षायामाह—यदपीति । एतदपि मनुवचनं गौतमवचनव- त्केवलब्राह्मणविषयमिति विपरिणमत्तानुषक्तेन पूर्वेण समापनीयं कथमस्य केवलब्राह्मण- विषयतेत्यपेक्षायामाह - ब्रह्मेति । ननु ब्रह्मवचनशीलत्वादेरपि त्रिष्वपि वर्णेषूपपत्तेस्तन्नि- मित्तत्वेऽपि कथं ब्राह्मणमात्रविषयतेत्याशङ्कयाह - प्रवचनेति । वदतेरुच्चारणमात्रार्थत्वे त्रयाणामपि तच्छीलत्वादिसम्भवात्ताच्छील्यादिवचनस्य णिनेरविशेषकत्वेनानर्थक्यापत्तेः । शूद्रनिवृत्तेश्च कर्तृमात्रवचनतृजादिप्रत्ययप्रयोगमात्रेण सिद्धेः । प्रवचनार्थे वदत्याश्रवणेन यस्यैव प्रवचनम् अध्यापनमस्ति, स एवाध्यापनरूपब्रह्मवदनप्रवृत्तिस्वभावत्वात् ब्रह्मवदनशीलस्त- स्यैवाध्यापनं स्वधर्म इति, ब्रह्मवदनधर्मा स एवाभ्यासवसेनास्खलिताध्यापनशक्तत्वाद् ब्रह्म- वदनसाधुकारी वा ब्रह्मवादिशब्देन विवक्षितो भवतीत्यर्थः । कथं वदतेः प्रवचनार्थतेत्या- शङ्क्य ब्रूञ्वदत्योः - एकार्थत्वादित्युक्तम् । प्रवचनमपि वर्णत्रयसाधारणं कस्मान्न भवती- त्याशङ्क्य प्रब्रूयाद् ब्राह्मणस्तेषां नेतराविति निश्चय इति स्मृतिरुपन्यस्ता उपसंहरति -- तस्मादिति । केवलब्राह्मणविषयत्वमेवास्य वचनान्तरे ब्राह्मणग्रहणेन द्रढयति - तथा चेति । न तु पैष्टीनिषेधस्य वर्णत्रयविषयत्वाभ्युपगमाद्यथैवैका तथा सर्वेति सुरामात्रनिषेधस्य वर्णत्रय- विषयत्वप्रतीतेर्न केवलब्राह्मणविषयत्वं युक्तमित्याशङ्क्यैतद्वचनं ब्राह्मणविषयत्वे योजयति -- तस्मादिति । ननु मद्यान्तरनिषेधस्यापि ब्राह्मणमात्रविषयत्वशङ्कानिवृत्त्यर्थं पदद्वयमप्यर्थ- वद्भविव्यतीत्याशङ्क्य पूर्वोदाहृतेन मानवीयेनैव श्लोकेनतच्छङ्कानिवृत्तेरानर्थक्यं समर्थयते—श्लोकान्तरेति । नन्वेवमपि कृष्णार्जुनयोः क्षत्रियत्वात्पैष्टीपानं विरुद्धमे- वेत्याशङ्कय तयोर्माध्वीपानस्मरणान्न पैष्टीपानशङ्कास्तीति परिहरति—तेनेति । केशवा- र्जुनयोर्मध्वासवपानस्याविरुद्धत्वमेव द्रढयितुं वेदवाक्यमुपन्यस्यति—तथा चेति । क्षत्रियस्य मधुसीधुनिषेधाभावेनाभ्यनुज्ञानर्थक्यादन्यार्थदर्शनमेवदम् । अथापि केनचित्सामान्यवचनेन क्षत्रियेऽपि निषेधः प्रसज्येत' तथाप्यनेनानुज्ञातत्वाददोषः इति वाशब्देन सूचितम् । सत्यपि तु निषेधे प्रतिषिद्धाभ्यनुज्ञायाः विकल्पापादकत्वेन दुष्टत्वान्नायं पक्षविकल्पार्थो वाशब्दः । ननु 'नैव सुरा पीता हिनस्ती, ति सामान्यभिधानात्पैष्टीपानमपि क्षत्रियस्याविरुद्धं स्यादित्याशङ्कयाह—मध्विति । सुरा वै मलमन्नानामिति मनुना पैष्टया वर्णत्रये निषेधा- दस्याश्च श्रुतेरन्यार्थदर्शनमात्रत्वादित्याशयः ।
३९० मीमांसादर्शनम् [ सू० मातुलदुहितृपरिणयने विरोधाभावमनुभाषणपूर्वकं दर्शयति-यत्त्विति । अयमाशयः- नार्जुनमातुलस्य वसुदेवस्यात्मजा सुभद्रेति क्वचिदाख्यायते, किंत्वनुजा वासुदेवस्य सुभद्रा वरवर्णिनीत्यादिव्यवहारदर्शनात्कल्प्यं स त्वन्यथाप्युपपत्तेर्नैकान्ततः सुभद्राया वसुदेवात्मजत्वं कल्पयितुं शक्नोतीति । एतदेव विवृणोति - यद्यपीति । ननु बलदेवस्य रोहिणीसुतत्वाद्वासुदेवस्य च देवकीसुतत्वादेकानंशायाश्च यशोदाकन्यात्वान्नत्रयाणामपि निजत्वं नास्तीत्याशङ्क्योत्पत्तावित्युक्तम् । 'सप्तमो देवकीगर्भो योंऽशः सोऽन्यो ममाग्रजः । स संक्रामयितव्यस्ते प्रथमे मासि रोहिणीम् ॥ इति देवकीगर्भसम्भूतस्यैव बलदेवस्य रोहिणीगर्भसङ्कर्षणे निद्रया विष्णुना प्रेरित- त्वात्तया च तथाकृतत्वादेकानंशायाश्च । अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति । या तु सा नन्दगोपस्य दयिता कंसगोपतेः ॥ यशोदा नाम भद्रं ते भार्यागोपकुलोद्भवा । तस्यास्त्वं नवमोऽस्माकं कुले गर्भो भविष्यसि ॥ इति यशोदागर्भसम्भूताया अप्येकानंशाख्याया निद्रया नवसंख्यापूरणेन विष्णुनेव निजत्वान्वाख्यानाद्देवक्या अपि दारिका मम जातेति कंसं प्रोवाच देवकीति स्वगर्भसम्भूतत्वा- न्वाख्यानानिजत्वमित्याशयः । सुभद्रा तु यद्यपि रोहिणीदुहितृत्वेनान्वाख्यायते, तथापि वसुदेवात्मजातत्वे तद्भागिनेयस्यार्जुनस्य परिणयनविरोधाद्वासुदेवस्य सापत्समातू रोहिण्याः स्वसुः सुभद्रा दुहिता रोहिण्या एव वा पितृष्वस्त्रीयाया लाटादिषु भगिनीशब्दामिलप्यत्वेन प्रसिद्धा या दुहिता तत्सपत्नोसुतस्य वासुदेवस्य भगिनीति व्यपदिश्यत इति यथासम्भवं व्यवधानं कल्पनीयमित्यर्थः । न त्वर्जुनमातुः पृथाया वसुदेवभगिन्याः पित्रा शूरेण कुन्ती- भोजाय दुहितृत्वेन दत्तत्वात्पिण्डगोत्रे जनयितुनं भजेद्कृत्रिमः क्वचिदितिवचनात्सापिण्ड्य- निवृत्तेर्वसुदेवाङ्गजाताया अपि सुभद्रायाः पृथात्मजस्यार्जुनस्य परिणयनविरोधपरिहार- सम्भवाद्व्यवधानकल्पनमनर्थकमित्याशङ्कयाह - वसुदेवेति । कुन्तीभोजदुहितृत्वनिमित्तः पृथायां कुन्तीव्यपदेशः यद्यप्यर्जुनः कुन्तीभोजदत्तायाः पुत्रः तथापि 'ऊर्द्धं सप्तमात्पितृबन्धुभ्यो बीजिनश्चेति निषेधाद्वसुदेवाङ्गजातस्यापरिणेयेत्याशयः । ननु विरुद्धोऽप्ययमाचारो वासुदेवेनार्जुनप्रीत्या प्रवर्त्तित इत्यपि परिहारोपपत्तेरनुक्तव्यवधानकल्पना न युक्तेत्या- शङ्कयाह - येन हीति । एतमेव विरोधपरिहारन्यायं रुक्मिणीपरिणयनेऽप्यतिदिशति - एतेनेति । अद्यतना- चाराणामपि श्रुतिस्मृतिविरोधाविरोधाभ्यां प्रामाण्याप्रामाण्यव्यवस्थासिद्धेरसङ्कर इति परिहारं वक्तुमनुभाषणं तावत्करोति-यत्त्विति । परसतेन परिहारान्तरमुपन्यस्य दूषयितुमाह - तत्रेति । विरुद्धानामप्याचाराणां देशव्यवस्थया प्रामाण्यमिति परिहान्तर-
७ ] प्रथमाध्याये तृतीयपादः ३९१ मुपन्यस्यति—अन्ये त्विति । आपस्तम्बवचनं प्रपञ्चयति—येषामिति । (एतदेव परिहारं मनुवचनेन द्रढयन्नाह—तथेति ।) एतमपि परिहारं देशाचारकुलधर्माश्चाम्नायैरविरुद्धाः प्रमाणमिति गौतमवचनबलेन—निराकरोति । ननु चेति एतत् परिहारवादी स्वाभिप्रायमाशङ्कते—आहेति । निराकरोति—न त्विति । प्रयोगं दर्शयति—स्मार्त्तैति । एतदेव व्याचष्टे—ग्रन्थेति । मन्वादयो ये ग्रन्थ- काराः तद्गतायाः स्मृतेर्मूलाद्यो मन्वादिकृतो ग्रन्थ आम्नायशब्दवाच्यः, स स्मृतिग्रन्था- ध्यायिनां तस्या एव मन्वादिगताया एव स्मृतेः ग्रन्थमूलत्वेनानुमेयाया धारणार्थत्वेनोक्त इत्यर्थः । अनेन च य आम्नायः, स स्मृतिधारक इति शङ्खलिखितवाक्यस्य वचनव्यक्ति- र्दर्शिता । ततश्चार्थायः स्मृतिधारको ग्रन्थः, स आम्नाय इत्युक्तं भवति । यद्वा यः स्मृतिधारकः, स आम्नाय इति वचनव्यक्त्या स्मृतिधारणार्थत्वेन य आम्नाय स किं गतायाः स्मृतेः; किं रूपः; केषां चेत्यपेक्षिते—ग्रन्थकारेत्याद्युक्तम् । अविभक्तिकाम्नायशब्दपाठे त्वाम्नायेन स्मृतिधारको ग्रन्थ इत्युक्ते किं गतायाः स्मृतेः; को ग्रन्थः; केषां चेत्याकाङ्क्षानिवृत्त्यर्थत्वेनैतद्व्याख्येयं स्मार्त्तधर्माधिकारादल्पाच्तरत्वेन घ्यन्तत्वेन च स्मृतिशब्दस्य पूर्वनिपातोपपत्तेर्न द्वन्द्वसमासाशङ्का । स्वमतमुपसंहरति—ततश्चेति । नन्वापस्तम्बवचनस्य तर्हि का गतिरित्याशङ्कयाह— आपस्तम्बेति । पञ्चधा विप्रतिपत्तिर्दक्षिणतोऽनुप्रतीतेन मार्यया च सैह भोजनम्, पर्युषित- भोजनमुच्छिष्टभोजनम्, पितृष्वस्तृमातुलदुहितृपरिणयनमिति । तथोत्तरतः पञ्चधा-ऊर्णा- विक्रयः, सीधुपानमुभयतो दद्भिर्व्यवहार, आयुधीयकम्, समुद्रयानमितीति बौधायनेन स्मृतिविरुद्धदृष्टाचारोदाहरणानि दत्वेतर इतरस्मिन्कुर्वन्दूष्यति नेतरस्मिन्देशप्रामाण्य- व्यवस्थया प्रामाण्यमापस्तम्बेनोपन्यस्यति—मिथ्यैतदिति । गौतम उभयन्त्वेतन्नाद्रियते शिष्टस्मृतिविरोधादिति निराकृतत्वादापस्तम्बस्यापि मन्वादिवद्धर्मशास्त्रप्रवक्तृतया याज्ञ- वल्क्येन स्मरणात्तद्वचनस्य मिथ्यात्वायोगाेऽपि गर्हानिराकरणमात्रपरतया तद्व्याख्येयमित्या- शयः । मनुवचनं तु तेन यायात्सतां मार्गमिति विशेषणादविरुद्धकुलधर्मविषयत्वेना- विरुद्धम्, ननु विरुद्धाचाराणामापस्तम्बवचनस्य वा श्रुतिमूलत्वं विना कथं प्रवृत्तिरित्या- शङ्कयाह—दृष्टेति । पुंस्त्वस्य विवक्षिताशंकासमाधाने ननूपादेयगतत्वेन सुरापाननिषेधे पुंस्त्वस्य विवक्षितत्वान्न ब्राह्मणानां निषिद्धमित्या- शङ्कते—आहेति । अनुवादगतत्वेनाविवक्षामभिप्रेत्य परिहरति—उच्यत इति । आशङ्कित- स्वाभिप्रायमाह—नन्विति । पाश्र्वंस्थो हननप्रतिषेधेऽपि भूतभाव्युपयोगित्वाभावेना- संस्कार्यत्वाद् ब्राह्मणस्यानुपादेयपञ्चकव्यतिरिक्तत्वेनानुद्देश्यत्वमभिप्रेत्यातिप्रसङ्गद्वयमापा- दयति—उच्यत इति । एकत्वविवक्षाप्रसङ्गे को दोष इत्यपेक्षायामाह—अहत्वेति । पूर्वं- वच्छब्देन निषेधानतिक्रमलक्षणकृतार्थतोक्ता । आशङ्किता द्वितीयातिप्रसङ्गतं दोषं
३९२ मीमांसादर्शनम् [ सू० तावत्परिहरति—आहेति । यद्यपि जातेर्वधपानायोग्यत्वेन ब्राह्मणशब्दस्य व्यक्तिपरत्वात्तद्- गतमेकत्वमत्रोच्यते, तथाप्येकैकस्या एव व्यक्तेर्वधपानप्रसक्तेर्बहुवधपानेऽपि प्रत्येकमेकत्व- सम्बन्धान्निषेधातिक्रमापरिहारान्निषेधानतिक्रमलक्षणकृतार्थत्वदोषो नास्ति स्वपक्षे तूपा- देयार्थत्वेन ब्राह्मणशब्दस्य प्रकृतव्यक्तिविशेषाभावेन जातिपरत्वात्तस्यां चैकत्वसंख्यासम्भव- लक्षणाकारणाभावाद् बहुवधपानेऽप्येकत्वानपायात्कृतार्थत्वलक्षणो दोषः परिहार्य एवे- त्यर्थः । बहुवधपानेऽपि प्रत्येकं व्यक्तेरेकत्वसम्बन्धाज्जातेरैकत्वसम्बन्धादेकत्वविवक्षागतं यद- नैकवधपाने निषेधानतिक्रमापत्तिलक्षणं दूषणमुच्यते; तन्न दूषणमिति योज्यम् । एतदेव विवृणोति—एकैकस्या एव हीति । व्यक्तिविशेषणत्वेन विवक्षितुमारभ्यमाण- मप्येकत्वं नित्यप्राप्तत्वेनानुद्यमानत्वापत्तेः प्रतिषेध्यायां वधपानक्रियायामव्यभिचाराद्विशेष- णत्वासम्भवेन प्रतिषेधेऽपि विशेषणत्वासम्भवान्निष्फल्यापत्तेर्न विवक्ष्यते । जातौ तु व्यावर्त्य- संख्यान्तराभावात्तद्विशेषकत्वेन विवक्षाशङ्कैव नास्तीत्यर्थः । प्रथममतिप्रसङ्गं वैषम्योप- पादनेन परिहरति—आहेति । पुंस्त्वविवक्षातिप्रसङ्गेऽपि स एव शङ्किता परिहारमाहेत्या- हशब्दो योज्यः । वधनिषेधे ब्राह्मणस्यानुपादेयपञ्चकव्यतिरेकेऽपि, तव्यद्वितीयाभ्यां कर्मत्व- निर्देशाच्छब्दवृत्तेनार्होद्देश्यत्वमुपपादयितुम्-कर्मभूतस्येत्युक्तम् । सुरापाननिषेधे च ब्राह्मणस्य प्रत्यवायव्यावृत्त्याऽनुग्राह्यत्वात् स्वर्गकामादिवदुद्देश्यत्वेऽपि निषेध्ये सुरापाने प्रथमातृतीया- भ्यां कर्तृत्वनिर्देशेनोपादेयत्वं वक्तुम्—सुरापाने चेत्युक्तम् । यथा स्वर्गकामस्य यागविधौ उद्देश्यत्वाल्लिङ्गाविवक्षा, औदुम्बरीसंमाने यजमानस्योपादेयत्वाद्विवक्षा तथेहापीत्यर्थः । वधनिषेधे ब्राह्मणस्योद्देश्यत्वेनाऽविवक्षितलिङ्गत्वं प्रकटयति—तथा हीति । यस्माद् ब्राह्मण- मुद्दिश्य हननस्य प्रतिषेधः तस्माद् ब्राह्मणे लिङ्गं न विधीयते, अन्यत्वेनार्थान्तरत्वेनावृत्ति- प्रसङ्गादित्याशयः । यस्माद् ब्राह्मणहननमिति चोपरिष्टाद् वधोद्देश्यस्यापि वक्ष्यमाणत्वा- त्तस्मिन्पक्षे यस्माद्धननमुद्दिश्य तस्य प्रतिषेधः तस्माद्धनने कर्मण्युत्पन्नेन प्रतिषेधशब्देनोद्देश्ये लिङ्गं न विधीयत इति योज्यम् । हननमितिपाठे हननं प्रतिषेधतो वाक्यस्य न लिङ्गं विधेयमित्यर्थः । यद्वा यो ब्राह्मण इति, यच्छब्दं नपुंसकलिङ्गत्वेन विपरिणतमनुषज्य यद्धननमित्युक्ते तत्प्रतिषेधतो वाक्यस्येति योज्यम् । सर्वत्र लिङः प्रवर्तनावाचित्वमतोपन्यासः ये तु प्रवर्त्तनावाचित्वेन क्लृप्तशक्तिकस्य लिङो नञश्चाभाववाचित्वेन क्लृप्तशक्तिकस्य निवर्त्तनावाचित्वायोगान्निषेधाधिकारेऽपि नञर्थस्य प्रागभावरूपस्य सिद्धत्वेऽपि रागाद्युपजनने विनाश्योत्पत्तौ तत्परिपालनस्य प्रयत्नापाद्यत्वेन विधेयत्वोपपत्तेः प्रवर्त्तनैव लिङर्थ इत्येतन्म- तामिप्रायमेतत् श्लोकं व्याचक्षते ।
७ ] प्रथमाध्याये तृतीयपादः ३९३ तन्मतेनैवं योज्यं यो ब्राह्मण इति ब्राह्मणमुद्दिश्य पूर्ववच्च ब्राह्मणोद्देशाभिधानस्योप- लक्षणार्थत्वाद् वधं चोद्दिश्य यो ब्राह्मणहननाभावस्तं कुर्यादिति च वचनव्यक्त्यन्तरस्यापि सम्भवाद् ब्राह्मणवधाभावं चोद्दिश्य हननस्य प्रतिषेधादभावादन्यल्लिङ्गं ब्राह्मणे प्रतिषेध- शब्दवाच्ये वाऽभावे वा शब्दाद् वधे वा न विधीयत इति । हननमिति पाठे प्रतिषेधत इति प्रथमार्थे तमङ्गीकृत्य यो ब्राह्मणो यद्धननम्, यः प्रतिषेध इत्युक्ते ब्राह्मणतद्गधतदभावानामु- द्देश्यत्वात्तद्विशेषणं लिङ्गमन्त्यत्वापत्तेर्न विधीयत इति योज्यम् । परिपालनीयत्वरूपेण च विधेयस्याप्यभावस्य स्वरूपेणोद्देश्यत्वमविरुद्धम् । ननु वधोद्देश्यपक्षे ब्राह्मणस्याप्युद्देश्यविशेषणाविवक्षायामविवक्षा प्रसज्येतेत्याशङ्कां निराकुर्वन् श्लोकं व्याचष्टे—प्रतिषेधेति । नान्तरिक्षे न दिवीत्यादिवन्निषेधानुवादाशङ्का- निराकरणार्थो विधिशब्दः, निर्विषयवधाप्रसक्तेर्मृञ्चामहे हविषा विशेषणमित्येनेन न्यायेनो- द्देश्यान्तर्गत्यङ्गीकारेण ब्राह्मण्यविवक्षा युक्तेत्याशयः । सकृच्छ्रुतप्रत्ययस्यानेकार्थविधिपर- त्वायोगात्निर्विषयस्य च लिङ्गस्य विधातुमशक्यत्वाद्यो ब्राह्मणः तं न हन्यात्तं च ब्राह्मण- युग्मं स मेति ब्राह्मणलिङ्गविधौ ब्राह्मणपदप्रत्ययोरावृत्तिः, यद् ब्राह्मणहननं तन्न कुर्यात्तं च पुंसो हननमिति वधलिङ्गविधौ हन्तिप्रत्यययोरावृत्तिरिति विवेकः । प्रतिषेधशब्दोऽपि कर्मव्युत्पत्त्या वधपर एव प्रतिषेधे वध इत्यर्थः । अविभक्तिकवधशब्दपाठे वधश्चासौ प्रतिषेधश्चेति कर्मधारयावृत्तिग्रहणमुपलक्षणार्थम् । द्वितीयव्याख्याने तु प्रतिषेधविधिपरो हि प्रतिषेधशब्देनाभावोऽभिप्रेतः । शुद्धवधा- सम्भवात्तद्विशेषणब्राह्मण्यविवक्षाप्रतियोगिनिरूपणाधीनत्वेन शुद्धस्याभावाख्यस्य प्रतिषेध- स्यासम्भवात्तद्विशेषणवधविवक्षाप्रतिषेधे वेति यो ब्राह्मणहननाभावः तं कुर्यात्तं च पुंसोऽ- भावमित्यभावलिङ्गविधौ नञ्प्रत्यययोरावृत्तिरुक्ता एवं तावन्नञुपहितस्य लिङो निषेधकत्वे प्रवर्त्तनाप्रतीत्यभावेन तदाक्षिप्तसाध्याभावाद् ब्राह्मणस्यानुपयोगित्वेनासंस्कार्यत्वादनुपादेय- पञ्चकव्यतिरेकेण वास्तवोद्देश्यत्वाभावेऽपि शब्दवृत्तेनोद्देश्यत्वादविवक्षितलिङ्गतोक्ता । यदा तु नञ्मात्रेण निषेधसिद्धेर्द्वेषप्रचयंप्राप्तप्रवर्त्तनानुवादार्थत्वं लिङोऽङ्गीक्रियते, तदा प्रवर्त्तनाक्षिप्तवैरनियतनिादिसाध्यसिद्ध्युपयोगिहननसंस्कार्यत्वोपपत्तेर्वस्तुतोऽप्युद्देश्यत्वासुतरां लिङ्गाविवक्षेत्याह—येषां त्विति । प्रवर्त्तनात्मकनिषेधवचनत्वासम्भवप्रतिपादनार्थम्— अत्यन्तभिन्नावित्युक्तम् । वाक्यार्थभावनाविषयत्वेन विधिवन्निषेधस्यापि सर्वपदार्थान्प्रति प्राधान्यात्तद्वाचिनो नञोऽपि प्रत्ययानुग्राह्यत्वोपपादनायोपचाराद्वाक्यार्थावित्युकम् । नानाख्याताथैस्यापि प्राधान्ये वाक्यार्थव्यवस्था स्यादित्याशङ्क्य भावनैव सर्वपदार्थानुर- ञ्जनसहत्वात्सर्वत्र वस्तुतो वाक्यार्थः तद्विषयत्वेन तूपचाराद्विधिनिषेधयोर्वाक्यार्थत्वम्, न चान्यस्य भावनाविषयतास्तीति सूचयितुम्—द्वावेवेत्युक्तम् । तेषां मते श्रूयमाणमपि लिङ्गं प्रतिषेधं प्रत्यनुपयुज्यमानत्वात्तेनापरिगृहीतत्वादविवक्षितमित्यन्वयः । तदुपपादनार्थम्— नञ्स्थित्याद्युक्तम् । पूर्वमतापेक्षयास्मिन्मते विध्यर्थनिषेधाधिक्याल्लिङ्गनिषेधे गौरवातिशय- द्योतनार्थो विध्यर्थमपीत्यपि शब्दः । ब्राह्मणविशिष्टेन हननेन विशिष्टं विध्यर्थं प्रतिषिध्य
३९४ मीमांसादर्शनम् [ सू० चरितार्थत्वान्न लिङ्गं ब्राह्मणे वधे विधी वा कर्त्तव्यतारूपे नञि निषेद्धुं शक्नोति यद्ब्राह्मणं हन्यात्तं च ब्राह्मणं पुमांसं नेति नञ्ब्राह्मणपदयोरावृत्त्यापत्तेः । ब्राह्मणं न हन्यादित्यत्र च ब्राह्मणहननं न कुर्यादित्येव विगृह्याऽर्थप्रतीतेस्तच्च पुंसो हननं नेति वधे लिङ्गनिषेधेन नञ्हन्त्योरावृत्त्यापत्तेः । विधौ च लिङ्गनिषेधे तच्च पुंसः कर्त्तव्यं नेति नञ्प्रत्यययोरा- वृत्त्यापत्तेरित्यर्थः । ननु विशिष्टविधिवद्विशिष्टनिषेधेनापि विशेषणानामर्थाक्षेपोपपत्तेर्नोच्चारणावृत्त्यापत्ति- रित्याशङ्क्य - अनूदितमित्युक्तम् । विधेयस्य यागादेरन्यतो सिद्धस्यापि विधितः स्वरूपा- वधारणसम्भवेन स्वरूपानुवादानपेक्षत्वात्पश्वेकत्वाधिकरणन्यायेन विशेषणविवक्षा युक्ता । निषेध्यस्य स्वन्यतो सिद्धौ निर्विषयनिषेधायोगेनानुवादापेक्षावश्यम्भावादग्रहाधिकरणन्यायेन विशेषणाविवक्षेति भावः । नन्वेवं सति ब्राह्मणहननयोरप्यविवक्षा स्यादित्याशङ्क्य- पूर्वोक्तेत्युक्तम् । सर्वव्यवहारनिरोधापादकत्वे कर्त्तव्यमात्रस्य निषेध्यत्वायोगाद् वधस्य च निर्विषयस्याप्रसक्तेः प्रतिषेध्यत्वासम्भवस्य पूर्वमेवोक्तत्वात् ब्राह्मणविशिष्टस्यैव विध्यर्थ- स्योद्देश्यत्वेनोभयोरपि ब्राह्मणहननयोरुद्देश्यान्तर्भावात्(यस्योभयं हविरार्त्तिमार्च्छतीत्यत्र यस्य कस्यचिदार्त्तौ सत्यां निर्विषयकनिमित्तकयागस्याप्राप्तेः हविःशब्दस्य विवक्षा । तद्विशेषणीभूतोभयशब्दस्य प्राप्तानुवादकत्वात्, तद्विधाने वाक्यभेदापत्तेः । तस्मादुभयशब्द- स्याविवक्षेति हविरार्त्त्यधिकरणराद्धान्तः १) हविवद्विवक्षा युक्तेत्याशयः । विध्यभावाद् वधकर्त्तव्यत्वस्याप्राप्तेरनुवादासम्भवमाशङ्क्य-द्वेषादीत्युक्तम् । नन्वाख्यातयोगित्वेनास्य नञो नास्तीत्यादिवदभावमात्रवाचित्वान्निवर्त्तनाथत्वं न युक्तमित्याशङ्क्य-प्रत्ययेत्युक्तम् । 'य एवं विद्वान्पौर्णमासीं यजत, इत्यादावनुवादार्थेनापि यजिना सामानाधिकरण्यात्पौर्ण- मास्यादिशब्दस्य यागवाचित्ववदनुवादार्थेनापि प्रत्ययेन सम्बन्धान्नञोऽर्थान्तरवाचित्वेनानुप- पन्नमिति सूचयितुं सम्बन्धग्रहणम् । यदा तु नञ्युक्तेष्वपि वाक्येषु नञो विषयसमर्पकत्वा- त्प्रवर्त्तनाथं एव लिङादिरित्येन्मताश्रयेन पूर्वग्रन्थो व्याख्यायते, तदा येषां त्विति ग्रन्थस्य तन्निराकरणार्थत्वाद्व्वावेवेत्येवकारेणैकत्वं निराकृतम् । विधिवच्च निषेधस्यापि वाक्यार्थरूपा भावना विषय एव, न तु धात्वर्थस्यैव विषार्थिणोति-वाक्यार्थशब्देनोक्तम् । अत्यन्तभिन्नावित्यनेनैकत्वनिराकरणार्थं विपरीतस्वभावतोक्ता । तथा हि- फल-बुद्धि-प्रमेयाधिकारिबोधकभेदतः । पञ्चधात्यन्तभिन्नत्वाद् भेदो विधिनिषेधयोः ॥ १ विधिरिष्टफलोऽनिष्टपरिहारफलो परः । प्रेरितोऽस्मीति धीः पूर्वे, वारितोऽस्मीति चापरे ॥ २ विधेयस्येष्टहेतुत्वं विधिना च प्रमीयते । निषेधेन निषेध्यस्य प्रत्यवायनिमित्तता ॥ ३ १. अयं पाठ सर्वत्र नास्ति ।
७ ] प्रथमाध्याये तृतीयपादः ३९५ विधिश्चाधिकरोत्यन्यत्कारणेनाप्रवर्त्तितम् । रागादिना प्रवृत्तं तु निषेधस्तद्विलक्षणम् ॥ ४ नञ्वर्जितो लिङादिश्च विधिबोधस्य कारणम् । लिङाद्यनुगृहीतस्तु नञ् निषेधस्य बोधकः ॥ ५ एतदेवाभिप्रेत्य बृहट्टीकायामुक्तम्— अन्तरं यादृशं लोके ब्रह्महत्याश्वमेधयोः ॥ ६ दृश्यते तादृगेवेदं विधानप्रतिषेधयोः ॥ इति । शेषं समानम् । अस्मिन्नेव पक्षे स्पष्टीकरणार्थं वचनव्यक्तिमाह—एषा हीति । तव्ययुक्तवाक्यान्तरा- भिप प्रायो वचनव्यक्त्यन्तरोपन्यासः । पूर्वस्मिन्पक्षे कीदृशी वचनव्यक्तिरित्यपेक्षायामाह— विध्येकत्वे पक्षे पुनरिति । विधिशब्दस्य लिङ्गादेरनुवादार्थत्वाभावान्नञा सहैकीकृतत्य तत्सहितस्य निषेधपरत्वं युक्तम् । द्वितीये व्याख्याने तु विधिरेवैकः सर्वत्र, न क्वचिन्नि- षेधोऽस्तीति विध्येकत्वमेकपदोपात्तयोर्धातुप्रत्ययार्थयोरुद्देश्योपादानविभागस्य शब्देन वक्तु- मशक्यत्वेऽप्यर्थमात्रविवक्षया वधस्याप्यविधेयत्वादुद्देश्यत्वमाश्रित्य यद्ब्राह्मणहननमित्युक्तम् । शब्दव्यापारपर्यालोचने ब्राह्मणमात्रोद्देशः । विधिशब्दो न पृथिव्यामग्निश्चेतव्य इत्यादि- निषेधानुवादशङ्कानिराकरणार्थः । द्वितीयव्याख्याने प्रतिषेधशब्देनाभावोऽभिप्रेतः । न कुर्यादिति चाख्यातयोगिनो नञोऽभाववचनत्वादभावं कुर्यादित्यर्थः । न हन्यादित्यक्ते प्रधानभूतेनाख्यातेनैवान्वयात्स एवार्थः । हननव्यतिरिक्तं वा प्रागभावपरिपालनं विधीयते यो ब्राह्मणहननाभावस्तं कुर्यात्, पालयेदित्यपि वचनव्यक्त्यन्तरमिह द्रष्टव्यम् । वचन- व्यक्तिभेदप्रपञ्चस्य प्रयोजनमुपसंहरति—सर्वथेति । सुरापाने वैषम्यमाह—ब्राह्मण इति । व्यतिरेकोपपादनायं कत्रेत्युक्तम् । ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेदित्यत्राख्यातप्रत्ययो- पात्तक्रियागुणभूतत्वेनोपादीयमानस्य संख्याया परिच्छेद्यत्वयोग्यस्य साधनांशस्य कर्तुर्विशे- षणत्वेनोपादानान्न पेया ब्रह्मवादिभिरित्यत्र च गुणभूतत्वेनोपादीयमानत्वप्रतीतेरित्यर्थः । श्रुतावपीमं न्यायमतिदिशति—तस्मादिति । पार्श्वस्थापादितमतिप्रसङ्गद्वयं परिहृत्य ब्राह्मणानां सुरापानप्रतिषेधाभावशङ्कामुपसंहरति-अतश्चेति । सुरापाने ब्राह्मणस्यानुद्देश्यत्वेऽ- प्यनुवाद्यत्वाद्विशेषणाविवक्षेति परिहरति—नैतदिति । नन्वनुवाद्यत्वेऽप्युपादेयत्वाद्विशेषण- विवक्षा भविष्यतीत्याशङ्कयाह—नोपादेयत्वमिति । उद्देश्यविशेषणविवक्षायां वाक्यभेदा- पत्तेस्तत्परिहारार्थत्वान्नोपादेयत्वस्य विवक्षाकारणत्वेऽप्यविधेयविशेषणस्य विधिना स्प्रष्टुम- शक्यत्वाद्विधेयत्वमेव प्रधानं कारणमित्यर्थः । शुक्रमन्वारम्भणादौ प्रकरणप्राप्तस्यापि यजमानस्य कर्तृत्वेन विधानाद्विशेषणविवक्षा युक्तेति भावः । नन्वनुवाद्यत्वेऽपि ब्राह्मणस्य क्रियाविशेषणत्वाभ्युपगमाच्छुद्धब्राह्मणविशिष्टक्रियानुवादवत्स्वविशेषणविशिष्टब्राह्मणविशिष्ट- क्रियानुवादेऽपि यत्पुमान् ब्राह्मणः सुरां पिवेदित्येकप्रसरोपपत्तेरावृत्तिलक्षणवाक्यभेदा- भावादेकक्रियावशीकारेण चारुणैकहायनीवत्परस्परनियमोपपत्तेः । प्रत्युद्देश्यवाक्यपरि-
३९६ मीमांसादर्शनम् [ सू० समासिकलक्षणस्यापि वाक्यभेदस्याभावात्किमिति विशेषणाविवक्षेत्याशङ्क्याह-अनूद्यमान इति । न केवलं प्राधान्येनानूद्यमानस्य प्राप्यपेक्षत्वम्, किन्त्वनुवाद्यविशेषणत्वेनाप्यनूद्य- मानस्येति सर्वशब्देन सूचितम् । तत्रानुवादस्य प्राप्यपेक्षत्वे सत्यनूदितस्य सुरापानस्य स्त्रीपुंसकत्तृकत्वेन प्रागेव प्रतीतेर्लिङ्गविशेषणस्यानाकाङ्क्षितत्वाद्विधेयेऽप्येककर्त्तृकपानाप्रस- क्तेरनुवाद्यपानविशेषणत्वेनाज्ञातज्ञाप्येभ्यो ब्राह्मणादिभ्योऽन्यल्लिङ्गं न विधीयते । नानुवाद्य- विशेषणत्वेनाज्ञातं ज्ञाप्यत इत्यर्थः । नन्वप्राप्तनिषेधायोगान्निषेध्यप्राप्त्यर्थं 'ब्राह्मणः सुरां पिवेदित्यवान्तरवाक्यार्थपर्यवसान- वेलायां विधेयविशेषणत्वेन लिङ्गादिविवक्षा प्रसक्ता पश्चान्निषेधान्वयेऽपि न केनचिद् बाध्यत इत्याशङ्कते तावत्-यदि हीति । तत्र किमप्राप्तस्य पानस्य निषेधायोगादन्यतश्चा- प्राप्तैरर्थाद्विधेयत्वं कल्प्यते 'किं वा वाक्यस्वरसादेव विधिपरत्वं प्रतीयते इति विकल्प्य आद्यं तावत्पक्षं दूषयति-यत्तस्त्विति । द्वितीयं दूषयति-प्रतिषेधेति । यदा च पानं न विधीयते, तदा तत्र ब्राह्मणादेः सत्यपि गुणवादेऽनुवाद्यत्वात्प्रतिषेधे चाक्रियात्मनि गुणत्वायोगात् प्रत्युत प्रत्यवायव्यावृत्त्यानुग्राह्यत्वेन प्राधान्याद्विधानं न सम्भवतीत्याह- तेनेति । भेदवादिमते नाद्यवचनव्यक्तौ पानस्य कर्त्तव्यत्वेनानूदितस्य प्रतिषेधः । विध्येकत्व- वादिमतेन द्वितीयवचनव्यक्तौ पानं स्वरूपेणानूद्य प्रतिषेधेन विधीयमानेनेति कर्मव्युत्पन्नस्य विधिशब्दस्य प्रतिषेधशब्देन सह कर्मधारयः । द्वितीयव्याख्याने प्रतिषेधस्याभावस्य विधिनेत्यर्थः । एवं सत्यपि यदि स्त्रीकर्तृकं पानं लोके न प्राप्नुयात् ततस्तन्न निषेध्येत, न त्वेतदस्तीत्याह-लोके चेति । एवमनूद्यमानः सर्वो हीति पूर्वार्द्धोक्तमर्थं प्रकृते योजयित्वा, तत्रानाकाङ्क्षितमित्युत्तरार्द्धं योजयति-न चेति । नन्वेवं तर्हि यो ब्राह्मणः पिवेत्स पुमानिति ब्राह्मपदोपात्तनिषेधपरित्यागेनानुवादपदान्तर्गतसन्निकृष्टब्राह्मणपदोपात्तलिङ्ग- सम्बन्ध एव केवलो विधीयतामत आह-न चास्येति । निषिद्धश्रुतिवैय्यर्थ्यापत्तेरिति भावः । उपसंहरति-ततश्चेति । प्रासङ्गिकाशङ्काशेषनिराकरणावताराय-उभयत्रापीत्युक्तम् । ननु वधनिषेधे लिङ्गाविवक्षायां ब्राह्मणवधेऽपि ब्रह्महत्यापत्तेर्महापातकनिमित्तकर्म- हान्यादिप्रसङ्गः स्यादित्याशङ्काक्षेपमाह-नन्विति । अत्र कुशावस्था अस्तीत्यात्रेयी गर्भिणी । अभ्युपगमेनैव परिहरति-ब्राह्मणेति । न च महापातकत्वे प्रायश्चित्ताल्पत्वं विरुद्धयते, पुंब्राह्मणवधेऽपि रहस्ये प्रायश्चित्ताल्पत्वदर्शनादित्याह-न चेति । उपसंहरति- तस्मादिति । सुरापानस्य तु स्त्रीकर्त्तृकस्यापि प्रायश्चित्तान्तरानाम्नानान्निःसन्दिग्धं महापात- कमित्यहिच्छत्रब्राह्मणीसुरापानस्य स्मृतिविरोधो दुःपरिहर इत्याह-सुरापाने पुनरिति । नन्वापस्तम्बेन देशव्यवस्थया विरुद्धाचारप्रामाण्याभिधानाद्देशान्तरनिवासिब्राह्मणी- विषया सुरापाननिषेधस्मृतिः कल्पयिष्यत इत्याशङ्क्याह-यापि चेति । स्मृतिविरोधेऽदृ- तनाचाराप्रामाण्यं विस्तरेणोपपाद्योपसंहरति-इतीति । एवमुत्सूत्रं पूर्वपक्षं कृत्वा सदाचारप्रामाण्यप्रतिपादनपरतयाऽपि वेति सूत्रं व्याख्याय, इदानीं सूत्रारूढं पूर्वपक्षं कर्तुं न शास्त्रपरिमाणत्वादिति पूर्वाधिकरणसिद्धान्तसूत्रमाचारा-