मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 408, कुल 804 में से
संदर्भ में पढ़ें१५९ मीमांसादर्शनम् [ सू० एव नास्ति, केन सह विरोधो भविष्यति इति । तथा यदि दक्षिणेन नाऽऽचर्यते, मा विरोधीदिति, तत्र कालानुरोधेन पदार्थो नाऽऽन्यथात्वमभ्युपगच्छेत् । प्रयोगाङ्गं हि कालः पदार्थानामुपकारकः । अतो न कालानुरोधेन व्यथयितव्यः पदार्थः । अपि च शौचम्, दक्षिणाचारता, यज्ञोपवीतित्वम्, चैवंजातीयका अर्था व्यवघातारो न भवन्ति, सर्वपदार्थानां शेषभूतत्वात् । तस्मादाचमनादीनां प्रामाण्यम् ॥ ७ ॥ भा० वि०-एवं श्रौतार्थबाधकतया विरोधे, विरोधाद्वाननुष्ठाने प्राप्ते सिद्धान्तयति - अपि वेति । तत्र विरोधादननुष्ठानमिति मतं व्यावर्तयितुं सूत्रा- वयवं व्याचष्टे - अपि वेति । अवशिष्टं व्याकरोति - गृह्यमाणेति । यस्मादपरि- दृश्यमानलोभादिकारणाः आचमनादयोऽर्थाः, तस्मात्प्रमाणमनुष्ठेया इत्यर्थः । यद्यपि स्मार्ताचमनाद्यनुप्रवेशे श्रौतक्रमादिबाधात् श्रुत्या सह स्मृतेर्विरोधः, तथापि हेतुदर्शनविशिष्टस्यैव विरोधस्याप्रामाण्यप्रयोजकत्वाद्विशेषणाभावे च विशिष्ट- प्रयोजकाभावेन तदप्रामाण्याभावाद्युक्तं तदनुष्ठानमित्यभिसन्धिः । कारणा- ग्रहणे सति प्रयुक्तानि-शिष्टैरनुष्ठीयमानानि, प्रतीयेरन्-आश्रीयेरन् इति सूत्रार्थः । परिहारान्तरं वक्तुं चोद्यमुद्भावयति - नन्विति । विरुन्धन्ति एवंजातीयका इत्यनुषङ्गः, क्रतुमनुप्रवेश्यमाना आचमनादय इत्यर्थः । आचमनादीनां पदार्थतया प्राधान्यात्, क्रमादीनां च पदार्थधर्मतया गुणत्वात्, गुणानुरोधेन च प्रधान- बाधासम्भवाद्युक्तमाचमनादीनामनुष्ठानमिति, परिहरति - विरुन्धिन्त्विति । एत- दुपपादयति - आचमनमित्यादिना । क्रम इति कालस्याप्युपलक्षणम्, न च कालस्य स्वतन्त्रपदार्थतया पदार्थधर्मत्वासंभवः । अनुष्ठेयपदार्थविच्छेदकतया तस्यापि तद्धर्मत्वादिति द्रष्टव्यम् । एवं तावद्विरोधेऽप्याचमनादीमनुष्ठेयतां प्रतीयेरन्नित्येतदन्तस्य सूत्रवाक्य- स्यार्थतया व्युत्पाद्येदानीं तेष्वदर्शनाद्विरोधस्येत्युक्तसूत्रावयवमनुषङ्गेणात्रापि योजयन् विरोधपूर्वकपक्षं दूषयति - अपि चेत्यादिना । तत्र क्रमविरोधं तावन्नि- रस्यति - प्राप्तानामिति । विनियोगवचनवशेन हि पदार्थेषु प्राप्तेषु पश्चाद- नुष्ठानाङ्गतया क्रमोऽपेक्ष्यते अतः प्राप्तेषु पदार्थेषु पश्चात् क्रमः प्राप्तः, ततः किमत आह - यदेति । इति शब्दः क्रमनिराससमाप्तौ, कालविरोधं निरस्यति - तथेति । प्रधानप्रत्यासत्यादिरूपः कालो बाधितो मा भूदिति, यदि दक्षिणेनैव हस्तेन नाचायेँतेत्यर्थः । व्यथाबाधः अस्तु को दोषस्तत्राह - प्रयोगेति । न हि पदार्थानां उत्पत्तिविनियोगयोः कालापेक्षा, अपि र्तहि प्रयोगे कर्तव्यमित्युक्ते कदेत्यपेक्षा भवति । तेन प्रयोगाङ्गत्वात् कालोऽपि पदार्थसिद्धयुत्तरकालीन इत्यर्थः । इतोऽपि तत्सिद्धयुत्तरकालीन इत्याह - पदार्थानामिति । करणोप-