मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 409, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये तृतीयपादः ३५७ कारकतया विनियुक्तानां पदार्थानामवच्छेदक इति यावत् । पदार्थानामुपजीव्यत्वे फलितमाह—अत इति । निखिलाङ्गप्रधानोपकारकत्वाच्चाचमनादीनां न तैर्व्यवधानमित्याह-अपि चेति । शौचं-शुद्धता, आचान्तता यज्ञोपवीतत्वं चेत्यस्या- नन्तरमिति शब्दमध्याहृत्यैवं जातीयकपदेन संबन्धनीयम् । सर्वोपकारकत्वमेवं जातीयकशब्देन सूचितम्, तेन यदा वेदं कृत्वा वेदिमकृत्वापि क्षुत आचामति, तदा स वेदिमेव करोति । अनाचमने वेदिकरणस्यैव वैगुण्यापातादित्याशयः, तदनेन तेष्वाचमनादिषु क्रतुमनुप्रवेश्यमानेषु श्रौतक्रमादिभिः विरोधस्यादर्शना- दिति सूत्रावयवो व्याख्यातः, यस्मादेवमविरोधः । विरोधेऽपि वा पदार्थतयाचमनादीनां प्राबल्यं तस्मात् कर्तव्यानीति निगम- यति—तस्मादिति ॥ ७ ॥ त० वा—तेष्वदर्शनाद्विरोधस्येति वा समासः । अनन्तरसूत्रे विप्रतिपत्त्यु- पात्तविरोधाभावोक्तेरनुपयुज्यमानत्वात्, इह च प्रक्रान्तविरोधाभावस्यावश्यवच- नीयत्वात् । उपयोगसद्भावेऽपि च काकाक्षिवदनुषङ्गेण, तन्त्रेण चोभयसम्बन्धात् । अपि वा कारणं दृष्टं यस्मादेषु न गृह्यते । तस्मान्नाऽऽचमनादीनां क्रतुश्रुतिविरुद्धता ॥ २८७ विरोधत्याजितश्रुतिविरुद्धता । विरोधत्याजितश्रुतिमूलस्य हि स्मरणस्य यस्य मूलान्तरमिदं संभवदुत्प्रेक्षामात्रेणोपप्लवते, तत्राल्पेनैव प्रयासेन निराशङ्क- प्रमाणत्वं निश्चीयते । यत्र तूत्प्रेक्षयाऽप्यन्यत्कारणं नावलम्ब्यते । अत्यन्तानन्यमूलत्वाच्छ्रुतितस्तत्प्रमाणता ॥ २८८ न वाऽऽचमनादिस्मृतेः कामक्रोधलोभद्वेषमानलज्जादिकारणं किंचित्संभाव्यते, यन्मूलत्वेन श्रुतिमूलत्वमपहूयेत । अनन्यमूलिकायां च श्रुतौ मूलेऽवधारिते । विरोधेऽपि प्रमाणत्वं स्मृतेः श्रुत्या न वार्यते ॥ २८९ इयत्ताक्रमकालाश्च श्रोतत्वाद्बलवत्तराः । पदार्थधर्मभावात्तु दुर्बलत्वादबाधकाः ॥ २९० ननु पूर्वभावित्वात्प्रमाणबलाबलमेव प्रमेयबलाबलाज्ज्यायस्त्वेन प्रतिभाति । उच्यते—नैव तावच्छ्रुतिस्मृत्योः स्वरूपेण विरुद्धता । बलाबलपरीक्षा वा प्रमेयद्वारिका हि सा ॥ २९१ प्रमेयगतं हि विरोधमालोच्य प्रमाणविरोधबुद्धिर्भवति । तद्यस्यामेव वेलायां विरोधो दृश्यते तयोः । प्रमेययोः स्वरूपस्थं तस्मादेव बलाबलम् ॥ २९२