मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 410, कुल 804 में से
संदर्भ में पढ़ें३५८ मीमांसादर्शनम् [ सू० येषां पदार्थधर्मत्वादौर्बल्यं पूर्वनिश्चितम् । न तेषां श्रुत्यवष्टम्भात्तत्पश्चादपगच्छति ॥ २९३ पदार्थत्वेन येषां च वलीयस्त्वं निरूपितम् । न स्मृतेर्दुर्बलत्वेन पुनस्तदपनीयते ॥ २९४ नित्यमेवाप्रमाणं यत्तदेवं बाधमर्हति । आपेक्षिकाप्रमाणं तु स्यात्प्रमाणमपेक्षया ॥ २९५ न च प्रमेयदौर्बल्यबलीयस्त्वनिबन्धनम् । प्राप्तं स्मृतिप्रमाणत्वं प्रमाणस्थेन बाध्यते ॥ २९६ न च प्रमेयदौर्बल्ये सत्यपि श्रुतिबाधनम् । तावता मन्दतेजस्त्वात्स्मृतिस्तां नैव बाधते ॥ २९७ एतदेव श्रुतेः पश्चाद् बहु यत्र स्मृतिर्वृथा । महास्मृत्याऽपि या काचिन्न शक्या बाधितुं श्रुतिः ॥ २९८ युगपत्प्राप्तिहेतुश्च विरोधस्तुल्यकार्ययोः । इह तु द्वयमप्येतन्नास्ति तेनाविरुद्धता ॥ २९९ कालेयत्ताक्रमाणां हि सर्वान्ते प्राप्तिरिष्यते । सुजघन्यप्रमाणोऽपि पदार्थः पूर्वमश्नुते ॥ ३०० प्राप्तेषु हि पदार्थेषु क्रमः पश्चादपेक्षते । यदा प्राप्तेष्वसौ क्लृप्तः केन पश्चाद्विरुध्यते ॥ ३०१ परिमाणमपि त्वार्थमविस्मरणसिद्धये । स्वयमालोच्यते प्राज्ञैः स्मार्तैः सह तदिष्यते ॥ ३०२ न केनचित्प्रमाणेण पदार्थेयत्ता परिच्छिद्यते । तत्र यदि तेन विनाऽन्ये समस्तपदार्थस्मृतिहेतवो न स्युः, तत एतदप्येकं कारणमिति परिमाणमपि स्थाप्येत । तस्यामपि त्ववस्थायां यथा श्रौतमात्रपरिमाणमसमाप्य, समाख्यापर्यन्त- प्रापितपदार्थगतपरिमाणावधारणमाश्रीयते, तथा स्मृत्याचारपर्यन्तावगतपरि- माणमाश्रयिष्यत इति निर्दोषम् । कालस्याङ्गत्त्वोपपादनम् कालोऽपि च प्रयोगाङ्गं सर्वान्ते सोऽपि गृह्यते । स्मार्तैः सह ससाहित्यमाशुत्वं वा प्रपत्स्यते ॥ ३०३ कालो ह्ययं प्रधानस्य सर्वाङ्गसहितस्य यः । अङ्गैरविप्रकृष्टत्वमीदृशस्यैव चोद्यते ॥ ३०४