मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 406, कुल 804 में से
संदर्भ में पढ़ें१५४ मीमांसादर्शनम् [ सू० वा नेति कृताकृतनिश्चयो वैगुण्याशङ्काकारणम् । कृताकृतनिश्चयकारणं-पूर्वावधारणभ्रंशः । कथं तस्यानिश्चयकारणत्वमित्यपेक्षिते सम्यक्कृतत्वदाढर्चनिमित्तसंस्कारपाटवाभावादित्युक्तम् । सम्यग्व्यैतत्कृतमिति स्मृतिदाढर्चंस्य यन्निमित्तं संस्कारपाटवम्, तस्याभावादित्यर्थः । अनुष्ठानात्पूर्वं ह्येतावन्तोऽनुष्ठेया इत्यवधारिते यावन्तोऽनुष्ठेयाः तावतामनुष्ठानोत्तरकाले- ऽनुष्ठितत्वावधारणात्तत्प्रसूतसंस्कारपाटवेन सम्यक्कृतत्वस्मृतिदाढर्यात्कृताकृतसन्देहो निवर्तते, नान्यथा । ननु सहेयत्तायाः पूर्वमवधारणात्कथं स्मार्त्तपदार्थानुष्ठाने पूर्वावधारण- भ्रंश इत्याशङ्क्य—प्रथमेत्युक्तम् । प्रयोगवचनस्य श्रुत्याद्यवगतपदार्थमात्रपर्यवसायित्वेन स्मार्त्तेष्वव्यापारात्प्रथमं प्रयोगवचनव्यापारवेलायामित्यत्थाश्रयत्वेनापरिकल्पितस्य पश्चात्- द्वद्यापारपर्यवसानोत्तरकालं स्मृतिवशादागतस्य प्राप्तस्य पदार्थस्यानुष्ठानेन पूर्वस्य प्रयोग- विधिब्यापारकालोनस्येयत्तावधारणस्य भ्रंशादित्यर्थः । वैदिकस्य सुनेदेन होमादेर्नैमित्ति- कस्यापि प्रयोगविधिब्यापारवेलायामेवानुष्ठेयत्वावधारणान्न तदनुष्ठाने पूर्वावधारणभ्रं- शापत्तिः । वैगुण्याशङ्कायां चापूर्वातिशयहेतुश्रद्धाविरहादपूर्वदौर्बल्यमात्रं भवति न तु सर्वथाऽनुपपत्तिः । तदुत्पादकसमस्ताङ्गप्रधानानुष्ठानस्य निष्पन्नत्वाच्छ्रद्धायाश्चापूर्वातिशय- हेतुत्वं 'यदेव विद्यया करोति, श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवती (छा० उ० १.१.४) त्यतिशयवाचितरप्रत्यययुक्त्या श्रुत्या । श्रद्धयेष्टं च पूत्तं च नित्यं कुर्यादतन्द्रितः । श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥ इति स्मृत्या चाक्षयहेतुत्वं श्रद्धाया वदन्त्यार्थान्तरभावे क्षीणत्वप्रतिपादनादवसीयते । ननु किंचित्फललाभेऽपि विधेरर्थवत्त्वान्न शिष्टकोपापत्तिरित्याशङ्क्याह – तच्चेति । विधिसिद्धप्रवर्त्तनातिशयार्थेनार्थवादेन प्रवर्त्तनातिशयावसेयफलातिशयावसायात्तत्फलं सर्वं समग्रमतिशयवच्चार्थवादसहिताद्विधेरवगतमिति कृत्वा न्यूनत्वासहिष्णुतया फलातिशय- हेतुश्रद्धाविरहवैगुण्याशङ्कापादकपदार्यान्तरविधायकत्वेन विरुद्धामाचमनादिस्मृति बाधत- इत्यर्थः । इयत्ताविरोध एव सूत्रं योजयति-परिमितॆति । अङ्गशास्त्राणां यत्परिमाणम्, तदेवाङ्ग- नामित्यर्थः । क्रमकालेयत्तासाधारणपूर्वव्याख्यानापेक्षा वाशब्दः । प्रयोगविधिप्रमितप्रधान- प्रत्यासत्त्याक्षिप्तप्रयोगशैघ्रयविरोधं प्रधानप्रत्यासत्तिविरोधाभिधानेनार्थोक्तमपीदानीं प्रयोग- विधिना साक्षादपि प्रयोगशैघ्रयावगमात्पदार्थान्तरानुष्ठाने तद् विरोध इति प्रकारान्त- रेणाह—सहेति । उपसंहरति—तस्मादिति ॥ ६ ॥ भा० प्र०—'न' ना अर्थात् यह सङ्गत नहीं है, "शास्त्र परिमाणत्वात्” = क्योंकि शास्त्र परिमाण अर्थात् वेदशास्त्र से उपदिष्ट कर्म रहता है । किन्तु सिद्धान्ती का यह मत ठीक नहीं है, क्योंकि वेद वचन विहित अनन्तर कर्तव्य कर्म रहता है । यह पूर्व पक्ष है । आशय यह है कि भाष्यकार के मत के अनुसार प्रत्यक्ष श्रुति विरुद्ध स्मृति अप्रमाण है—यह पूर्वं अधिकरण में कहा गया है । प्रकृत में यह विचारणीय है कि वह कहाँ