मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 412, कुल 804 में से
संदर्भ में पढ़ें३६० मीमांसादर्शनम् [ सू० दक्षिणाचारत्वं तु— यत्राऽऽहृत्य विधानेन स्यात्सव्याञ्जलिचोदना । तस्मादेव निवर्तेत नान्यत्राऽऽशङ्क्यतेऽपि तत् ॥ ३०९ “यथा वै दक्षिणः पाणिरैवं देवयजनम्” इति प्रागुदक्प्रवणविधिपरे वाक्ये देवयजनवद्यज्ञाङ्गत्वौचित्यादुपमानमवकल्पते । तेन नात्रेकमपि विरोधबाधशङ्- कायोग्यमित्यनुदाहरणानि । तस्मान्नैव तदधिकरणान्तरम् । वेदाविरुद्धशाक्यादिवचसामप्रामाण्यनिरूपणम् । सूत्राणि तु पूर्वाधिकरणारक्षेपपरिहारसूत्रत्वेनैव व्याख्यातव्यानि । यत्तर्हि वेदविहितं न बाधते, शिष्टान्वा वेदविदो न कोपयति । विहाराराममण्डलकरण- वैराग्य-ध्यानाभ्यासाऽहिंसा-सत्यवचन-दम-दान-दयादि, तद्बुद्धादिभाषितं प्रमाणे- नाविरुद्धमिति चेत् ? न । शास्त्रपरिमाणत्वात् । परिमितान्येव हि चतुर्दशाऽष्टादश वा विद्यास्थानानि धर्मप्रमाणत्वेन शिष्टैः परिगृहीतानि, वेदोपवेदाङ्गोपाङ्गाष्टादशधर्मसंहिता- पुराणशास्त्रशिक्षा-दण्डनीतिसंज्ञकानि, । न च तेषां मध्ये बौद्धार्हतादिग्रन्थाः स्मृताः गृहीता वा । प्रतिकञ्चुकरूपेण पूर्वशास्त्रार्थगोचरम् । यदन्यत्क्रियते तस्य धर्मं प्रत्यप्रमाणता ॥ ३१० तथा च प्रायश्चित्तादिदानकाले यो वाक्यमात्मीयम्, अन्यकविकृतं वा श्लोकम्, सूत्रं वोच्चार्य मानवादिप्रायश्चित्तं दद्यात् कश्चिदपि धर्मार्थं प्रतिपद्येत । वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता । नित्यानामभिधेयानां मन्वन्तरयुगादिषु ॥ ३११ तेषां विपरिवर्तेषु कुर्वतां धर्मसंहिताः । वचनानि प्रमाणानि नान्येषामिति निश्चयः ॥ ३१२ तथा च “मनोर्ऋचः सामिधेन्यो भवन्ति” इत्यस्य विधेर्वाक्यशेषे श्रूयते “मनुर्वै यत्किंचिदवदत्तद्भेषजं भेषजतायै” इति प्रायश्चित्ताद्युपदेशवचनं पापव्याधेर्भेषजम् । न वैतच्छ्रुतिसामान्यमात्रं नित्येऽपि संभवात् । यज्ञेऽध्वर्युँरिव ह्यस्ति मनुर्मन्वन्तरे सदा ॥३१३ प्रतिमन्वन्तरं चैवं १स्मृतिरन्या विधीयते । स्थिताश्च मनवो नित्यं कल्पे कल्पे चतुर्दश ॥ ३१४ १. श्रुतिरन्येति पाठः ।