मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 422, कुल 804 में से
संदर्भ में पढ़ें३७० : मीमांसादर्शनम् [ सू० अन्ये त्वेवमाहुः— सर्वेषामेवमादीनां प्रतिदेशं व्यवस्थया । आपस्तम्बेन संहृत्य दृष्टादृष्टत्वमाश्रितम् ॥ ३६६ येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः । त एव तैर्न दुष्येयुराचारैर्नेतरे जनाः ॥ ३६७ तथा मनुनाऽप्युक्तम्— येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति ॥ ३६८ येषां तु यः पित्रादिभिरेवार्थो नाऽऽचरितः स्मृत्यन्तरप्रतिषिद्धश्च ते तं परि- हरन्त्येव । अपरिहन्तो वा स्वजनादिभिः परिह्रियन्ते । ननु गौतमेनाऽऽम्नाय- विरुद्धानामाचाराणामप्रमाण्यमुक्तम् । आह— यदि वेदविरोधः स्यादिष्येतैवाप्रमाणता । स्मृतिराम्नायशब्देन न तु वेदवदुच्यते ॥ ३६९ न त्वेतदपि युक्तं स्मृतिग्रन्थेऽप्याम्नायशब्दप्रयोगात् । स्मार्तधर्माधिकारे हि शङ्खलिखिताभ्यामुक्तम् 'आम्नायः स्मृतिधारकः' इति । ग्रन्थकारगतायाः स्मृते- स्तत्कृतग्रन्थाम्नायः स्मृतिग्रन्थाध्यायिनां स्मृतिधारणार्थत्वेनोक्तः । ततश्च मन्वादिवाक्यप्रतिषिद्धाचाराणां प्रामाण्यमशक्यमभ्युपगन्तुम् । आपस्तम्बवचनं तु बौधायनेन स्मृतिविरुद्धदुष्टाचारोदाहरणान्येव प्रयच्छता निराकृतम् । दृष्टका- मादिहेत्वन्तरदर्शनान्न विरुद्धाचाराणामापस्तम्बवचनस्य वा श्रुतिमूलत्वोपपत्तिः । आह केन वा ब्राह्मणीनां सुरापानं प्रतिषिद्धम् ? उच्यते—तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ इत्यनेन पुंलिंगस्य विवक्षा अस्मिन्न वेति विचारः ननु पुंलिङ्गनिर्देशात्स्त्रीणां न प्रतिषिध्यते । सुरापानमतो नात्र स्मृत्याचारविरुद्धता ॥ ३७० उच्यते—हननप्रतिषेधेऽपि भवेत्पुंस्त्वं विवक्षितम् । तथा पुंस्त्ववदेकत्वविवक्षाऽपि प्रसज्यते ॥ ३७१ अहत्वा कंचिदेकैकं ततश्च स्यात्कृतार्थता । एकेन च सुरापानेऽवर्जिते पूर्ववद्भवेत् ॥ ३७२ आह यत्तावदेकत्वविवक्षागतमुच्यते । प्रत्येकव्यक्तिसंबन्धाज्जातेर्वा तन्न दुष्यति ॥ ३७३