मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 421, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये तृतीयपादः १६९ सुरानिषेधे उक्तस्यार्थस्य संक्षेपः तस्मादेतदुक्तं भवति यथैवैकान्नसुर| त्रयाणामप्यपेया, तथा सर्वा ब्रह्मवादि- भिरपेयेति । इतरथा यथैवैकति च, ब्रह्मवादिभिरिति चोभयमप्यनर्थकमेव स्यात् । श्लोकान्तनिर्देशेनैव वर्णत्रयसम्बन्धलाभात् । तेनोभौ मध्वासवक्षीबावित्य- विरुद्धम् । लिङ्गोपन्यासः तथा चान्यार्थदर्शनमभ्यनुज्ञानवचनम् । 'यन्माल्यमासीत्तत्पश्चात्पर्याहृत, सुरा वै माल्यम्, ततो राजन्यमसजत, तस्माज्ज्वायाइच स्नुषा च श्वशुरश्च सुरां पीत्वा विलपन्तश्चाऽऽसते । पाप्मा वै माल्यम् । तस्माद् ब्राह्मणः सुरां न पिबेत्पाप्मना न संसृज्या इति, तदेतदेतल्लक्षत्क्षत्रियो ब्राह्मणं ब्रूयान्नैनं सुरा पीता हिनस्ति, य एवं विद्वान्सुरां पिबति' इति । मधुसीधुविवक्षयैतत् । मातुलदुहितृपरिणयस्य समाधानम् यत्तु मातुलदुहितृपरिणयनं तयोस्तन्मातृष्वस्त्रीयादिसम्बन्धव्यवधानेऽपि भ्रात्रादिव्यवहारादविरुद्धम् । यद्यपि वासुदेवस्वसेति सुभद्रा ख्याता, तथाऽप्युत्पत्तौ वलदेववासुदेवयोरेकानशायाश्च निजत्वान्वाख्यानान्मातृष्वस्त्रीया सुभद्रा तस्य मातृपितृष्वस्त्रीया दुहिता वेति परिणयनाभ्यनुज्ञानद्विज्ञायते । वासुदेवाङ्गजाया च कौन्तेयस्य विरुध्यते । न तु व्यवेतसम्बन्धमभवे तद्विरुद्धता ॥ ३६४ येन ह्यन्यत्रैवमुक्तम्— मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः । यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ॥ ३६५ स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ इति । स कथं सर्वलोकादर्शभूतः सन् विरुद्धमाचारं प्रवर्तयिष्यति । एतेन रुक्मिणी- परिणयनं व्याख्यातम् । आधुनिकानामापरिहारोपपादनम् यत्त्वद्यतनानामाहिच्छत्रकमाथुरब्राह्मणीनां सुरापानादि दाक्षिणात्यानां मातुलदुहितृविवाहादि स्मृतिविरुद्धमुपन्यस्तम् । तत्र केचित्तावदाहुः । स्मृत्याचारयोरितरेतरनिरपेक्षवेदमूलत्वेन तुल्यबल- त्वाद्द्विहितप्रतिषिद्धविकल्पानुष्ठानाश्रयणाददोष इति । तत्त वक्ष्यमाणबलाबल- विभागादयुक्तम् । २४