भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 468, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 468

४१४ मीमांसादर्शनम् [ सू०

वमानमित्युक्त्वा स्तोत्रीयानवकाम्नानात्त्रयस्त्रिकपालाः, त्रिवृता स्तोमेन सम्मिता इति च । नवानां कपालानां त्रिवृत्ता, स्तोमेन समानवचनात्त्रिवृच्छब्दस्य स्तोत्रीयानवकवाचित्वप्रतीतेर- त्रोभयसम्भवेऽपि वैदिकत्वसामान्येन स्तोत्रीयानवकविषयत्वावधारणात्स्तोमगतैव पञ्चदश- त्वादिसंख्या त्रिवृत्संख्यया बाध्यत इति, ‘स्तोमस्य वा तल्लिङ्गत्वादि’तिसूत्रेण सिद्धान्तं वदतोपपादयिष्यते । प्रसङ्गादादिशब्दोपात्तस्य स्तोमशब्दस्य लोकप्रसिद्धसमुदायमात्र- वचनत्वातिक्रमेण स्तोत्रीयासमुदायवचनत्वं वेदयाज्ञिक-व्याकरणप्रसिद्धिवलेनाहैवमिति । तथाप्यवश्यमेव त्रिवृदादिषु द्रष्टव्य इत्यध्याहृत्य योज्यम् । लौकिक्याः समुदायमात्रवचनत्व- प्रसिद्धेः का गतिरित्यपेक्षायां—लोकेत्युक्तम् । ननु त्रिवृच्छब्दस्य स्तोत्रीयानवकवचनत्वे ‘विप्रस्योर्ध्ववृतं त्रिवृते, त्रिवृता ग्रन्थिनैकेनेति’ मनुवचनमयुक्तं स्यादित्याशङ्क्य पौरुषेय- वाक्येषु लोकवेदप्रसिद्धयोस्तुल्यवलत्वेन यथासम्भवं प्रसिद्धयनुसारोपपत्तेः, इह त्रैगुण्य- वाचित्वमाश्रित्य परिहरति—यत्त्विति । उपवीतारम्भिकाया वा रक्षा नवतन्तुकारभ्यत्वात्तस्या एव च ग्रन्ध्यारम्भकत्वाद्वैदिक- प्रसिद्धयनुसारेणैव मनुवचनं युज्यत इत्याह--यद्वेति । ननु वेदेऽपि त्रिवृद्भवतीति रशना- त्रैगुण्यप्रयोगदर्शनाल्लौकिकी प्रसिद्धिराश्रितेत्याशङ्क्य, तत्रापि प्रौढ्या याज्ञिकप्रसिद्धयनादरेण वैदिकप्रसिद्धयनुसारान्नवगुणत्वं भविष्यतीत्याह—तथेति । अयं तु पक्षः स्तोत्रीयाव्यतिरे- केणान्यत्र नवकसंख्यायां त्रिवृच्छब्दप्रयोगाभावादयुक्त इति, वेदप्रसिद्धस्तोत्रीयागतनवक- संख्यारूपार्थासम्भवाद्रशनादौ वेदविरोधाभावाल्लोकप्रसिद्धं त्रैगुण्यमेव ग्राह्यमित्याह— यद्वेति । ननु स्तोत्रीयागतनवकवाचित्वेन शोणादिवन्नवकत्वावान्तरजात्यभावादाकृत्यधिकरण- विरुद्धं विशिष्टवाचित्वं प्रसज्येतेत्याशङ्क्य—यथैवेत्युक्तम् । यत्र विशेषणमात्रे शक्तौ कलि- तायां तद्विनाभावाद्विशेष्ये प्रतीतिर्युज्यते, तदेवाकृत्यधिकरणस्य विषयः । अविनाभावा- भावे तु स्रुवादिशब्दानां पुत्राभार्याभावे यांचादिविशिष्टवाचित्वमिष्यत एव । वृद्धव्यवहारा- वसये चार्थे अन्वयव्यतिरेकाभ्यां निकृष्टे शक्तिः कल्प्येत, इह तु त्रिवृद्वहिष्पवमानमित्यु- क्त्वा स्तोत्रीयानवकानुक्रमणान्नवसंख्यायास्त्रिवृच्छब्दवाच्यत्वं कल्प्यमानं स्तोत्रीयागताया एव कल्पयितुं शक्यम्, न शुद्धायाः, प्रमाणाभावादित्याशयः । स्तोत्रीयाविशिष्टस्य नव- कत्वस्य वाच्यत्वात्तदेकदेशस्य नवकत्वस्य गौणत्वमभिप्रेतम् । आश्रयबलाबलानादरेण स्वरूपबलाबलवशात्पदार्थनिर्णयमभिप्रेत्य—उत्तरसूत्र इत्यु- क्तम् । चरुशब्दस्य त्वोदनसम्बन्धेनैव स्थास्यां प्रयोगोपपत्तेर्लोकप्रसिद्धेऽर्थे शक्तिर्नैव कल्प्ये- त्याह— तथेति । सौयं चरुं निर्वपेदित्यादौ वाक्यशेषाभावेऽप्योदनो वा प्रयुक्तत्वादित्यत्र १०-१-३० । चरुशब्दस्य वेदयाज्ञिकप्रसिद्धिभ्यामोदनमात्रवाचित्वावसायादोदनस्यैव ग्रहणमिति दशमे वक्ष्यमाणं चरुशब्दोऽपीत्यपिशब्देन सूचितम् । अन्यत्राप्योदनविषय एवेत्यर्थः । अस्मिंश्च वर्णके दाशमिकयोस्त्रिवृच्चर्वधिकरणयोः एतदधिकरणप्रयोजनप्रति- पादनाथंत्वात्र पौनरुक्त्यम् । याज्ञिकशब्दस्य पूर्वनिपातेन वेदप्रसिद्धिनिरपेक्षस्य याज्ञिक- वृद्धव्यवहारस्य वाच्यवाचकभावावगमे साक्षात्कारणत्वेनाभ्यर्हितत्वं सूचितम् ।

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 468, कुल 804 में से · BharatKosha