मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 469, कुल 804 में से
संदर्भ में पढ़ें८ ] प्रथमाध्याये तृतीयपादः ४१५ आश्ववालैक्षवीशब्दयोस्तु समुदायप्रसिद्धेर्बलीयस्त्वेनापि दुर्बललौकिकावयवप्रसिद्धि- बाधेन काशतन्मूलवाचित्वमेवासीयत इत्याह—आश्ववालेति । ननु दीर्घश्लक्ष्णपत्राणां काशानामश्वकेशैः सादृश्यादश्ववालशब्दस्य काशेषु गौणप्रयोगोपपत्तेर्न समुदायस्य शक्त्यन्तर- कल्पनं युक्तमित्यलब्धात्मिकायाः समुदायप्रसिद्धेः कथं बलीयस्त्वमित्याशङ्कयाभ्युपगम्यापि गौणत्वम्, वेदक्लृप्तत्वाद् बलीयस्त्वमाह—अथापीति । यथा श्येनेन यजेतेति विहिते यागे सामानाधिकरण्याच्छ्येननामत्वेन प्रसिद्धेरनेकक्तिकल्पनाभयाद्वाच्यवाचकभावानभ्युपगमेऽपि यथा वै श्येनो निपत्यादत्त एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्त इत्यर्थवादावगतनिपत्यादान- कत्वसादृश्येन श्येनपक्षिजात्योपमिते गौणत्वद्वारेणावासप्रसिद्धिः । श्येनशब्दः पुनरिषुयागे धर्मातिदेशाय समानमितरच्छ्येनेनेति प्रयुज्यमानो गौणोऽपि वेदक्लृप्तत्वाद्यागाविषयत्वेनै- वाश्रीयते, तथाऽश्ववालशब्दोऽप्याश्ववालः प्रस्तर इत्यज्ञ वाक्यशेषात्काशविषयत्वेन प्रतीय- मानोऽनेकक्तिकल्पनाभयात्तद्वाचकत्वानभ्युपगमेऽपि दीर्घश्लक्ष्णत्वादिसाम्याद् गौणत्वद्वारेण काशेष्वेवासप्रसिद्धिर्र्वाक्यशेषाभावेऽपि वेदक्लृप्तत्वात् काशविषयत्वेनैवाश्रीयत इत्यर्थः । नन्वश्ववालशब्दस्य गौणत्वाम्युपगमे गौणतायाः पदान्तरसामानाधिकरण्यसापेक्षत्वेनासामर्थ्या- पत्तेराश्ववाल इति तद्धितानुत्पत्तिप्रसङ्गान्नाश्ववालशब्दस्य गौणत्वं युक्तमित्याशङ्क्य, अभ्युपगमवादमात्रत्वमस्य प्रकटयितुमाह—अथापीति । यद्यपि गौणत्वं न च ते वालाः काशतां प्राप्ता इति काशरूपेणाश्वस्य बालानां परिणामाभिधानात्प्रकृतिविकारयोश्च सादृश्यसम्भवाच्छब्दावगतप्रकृतिविकारभावमात्रेणोत्प्रेक्षितम्, न वास्तवमिति शब्दग्रहणेन सूचितम् । वेदस्य सम्बन्धिदृष्टमगतं चेन्न केनापि वार्यते, स्वतन्त्रत्वेनापौरुषेयत्वेन वेदे दोपाशङ्कानुपपत्तेरित्यर्थः । ननु धर्मातिदेशादिव्यवहारसिद्धयर्थं केनचिद् गुणयोगेन श्येनशब्दस्य यागविशेषनाम- त्वाङ्गीकरणमर्थवत्पुरोडाशानलं कुर्वित्यादौ च लाघवार्थं पुरोडाशशब्देन धानादिक्षवि पञ्चकलक्षणार्थं वेति इति तु मुख्येन काशशब्देनैव प्रस्तरविधिसिद्धेर्गौणलाक्षणिकाश्ववाल- शब्दानर्थक्यापत्तिः । मुख्यत्वे त्वाश्ववालः प्रस्तरः कार्यः, काशाश्चाश्ववालशब्देनोच्यन्ते इत्यनेकार्थपरत्वापत्तेर्वाक्यभेदः प्रसज्येतेत्याशङ्क्याह—गौणमिति । काशाश्ववालशब्दयोर्वाच्य- वाचकत्वाभावे निरालम्बनवाक्यशेषापत्तेरगत्या वाक्यभेदोऽपि वेदाङ्गीकृतत्वान्न दोषमावहति, परमार्थतस्तु विधिस्तुत्येकवाक्यत्वान्यथानुपपत्त्यैवात्र वाच्यवाचकत्वप्रतीतेर्न वाक्य- भेदोऽस्तीति वाशब्देन सूचितम् । ननु वाक्यशेषबलेन त्रिवृदादिशब्दार्थनिर्णये पूर्वोक्त- मेव पौनरुक्त्यं स्यादित्याशङ्क्याह—न चात्रेति । असन्दिग्धत्वमेव विवृणोति— लौकिकीति । एतद्वर्णकसिद्धान्तमुपसंहरति—बाधतइति । सुखग्रहणार्थं वर्णकत्रयसिद्धान्तं सङ्क्षपति—तस्मादिति । आद्ये वर्णके शास्त्रशब्देन शास्त्रानुसारित्वादार्या विवक्ष्यन्ते । द्वितीये स्मृतिः । तृतीये वेदः । मुक्तकानां नियमशून्यानां म्लेच्छानामाचारैरित्याद्य- वर्णकेऽर्थः । मुक्तकैरनिबद्धैरितीतरयोः, सदाचाराणां स्मृतिव्यवधानाद्धर्मंविप्रकर्षः—इतरेषां त्वसम्बन्धादेव ॥ ८ ॥