मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 471, कुल 804 में से
संदर्भ में पढ़ें९ ] प्रथमाध्याये तृतीयपादः ४१७ भा० वि०—सिद्धान्तमाह—शास्त्रस्येति । एकस्य शब्दस्योभयार्थत्वं तावद- युक्तम्, अनेकशक्तिकल्पनागौरवात्, शब्दादर्थनवधारणप्रसङ्गात्, विकल्पप्रस- ङ्गाच्च । अतो न विप्रतिपत्त्योस्समबलतेति । वा शब्दं व्याचष्टे—वा शब्द इति । एकत्र मुख्यस्यान्यत्र गौणत्वोपपत्तेश्च नोभयार्थता युक्तेत्याह—यदिति । दीर्घ- शूकेषु मुख्य इति शेषः, यदि प्रियङ्गुषु मुख्यः सामान्यात् दीर्घशूकेषु भविष्य- तीत्यर्थः, किं तयोः सादृश्यमत आह—पूर्वसस्य इति । यद्यपि न प्रियङ्गवः शरत्पक्वा दीर्घशूकपाककालं फाल्गुनं यावदवतिष्ठमाना दृश्यन्ते । तथापि याभिरोषधीभिः - श्यामाकादिरूपाभिः सह वर्षासु मुमुदिरे । तासु प्रक्षीणास्वपि तेषामवस्थानदर्शनात् सादृश्याभिधानमित्यवसेयम् । एवं वा शब्दव्याख्यानेना- नेकार्थत्वानुपपत्त्या विप्रतिपत्त्योः समबलत्वं निरस्यावशिष्टं व्याख्यातुं प्रश्न- मुत्थापयति—कः पुनरितिः । कुत्र तर्हि मुख्यः ? कुत्र वा गौण इत्यर्थः, शास्त्रस्थ- पदं व्याकुर्वन्नुत्तरमाह—यच्छास्त्रस्थानमिति । प्रसिद्ध इति शेषः, शास्त्रस्थ- शब्देनाशास्त्रस्थार्थव्यावृत्तौ वैयर्थ्यं मन्वानः शङ्कते—के शास्त्रस्था इति । नायमार्यान् व्यावर्तयति, किन्तु म्लेच्छान् इति । परिहरति—शिष्टा इति । श्रौतस्मार्तकर्मस्वभियुक्ता इत्यर्थः । तदनेन प्रमाणमनुमानं स्यादित्यतोऽनुषक्त- प्रमाणपदान्वितं शास्त्रस्थपदं प्रमाणमित्येवं बलीयस्त्वफलवाचकमपि लक्षणया शास्त्रस्थप्रसिद्धिबलीयस्त्वपरं व्याख्यातम् । शिष्टप्रसिद्धेऽर्थे मुख्यत्वमुपपादयति— तेषामिति । शिष्टानां या स्मृतिः प्रतिपत्तिः शब्देषु-शब्दार्थसम्बन्धेषु सा लोके वेदे चाविच्छिन्ना अविप्लुता अबाधितेत्यर्थः, एतदुक्तं भवति शिष्टा एव हि धर्मा- धर्माविप्लुतिसिद्धये शब्दार्थतत्त्वं विविच्य पर्यालोचयन्तो दृश्यन्ते, म्लेच्छास्तु दृष्टार्थव्यवहारस्य यथा कथंचिदपि सिद्धेः नाविप्लुतिसिद्धये प्रयतन्ते, तेनार्याणा- मेव प्रसिद्धोऽर्थो मुख्यः तथा च तत्प्रसिद्धिरैव बलीयसीति । वेदेऽपि दीर्घशूकादौ यवादिशब्दप्रयोगात् प्रियङ्गवादौ चाप्रयोगादार्यप्रसिद्ध एव मुख्य इति वेदे चेत्यनेन सूचितम् । शिष्टप्रसिद्धेर्बलीयस्त्वफलमाह—तेनेति । निमित्तम्-प्रमाण- मित्यर्थः, श्रुतिस्मृत्यवधारणे-श्रुतिस्मृत्यनुकूलपदार्थावधारण इत्यर्थः । अत्र च तन्निमित्तत्वादिति सूत्रावयवोऽविप्लुतशास्त्रार्थानुष्ठाननिमित्तत्वात् तेषामित्येव योजनीयः । एवं यवमयादिवाक्येषु यवादिशब्दानामार्थप्रसिद्धिबलेन दीर्घशूकादि- विषयत्वनिर्णयमभिधाय वाक्यशेषेणापि तमाह—ते ह्येवमिति । ते शिष्टाः करम्भपात्रेषु-यवमयसक्तुपिण्डेषु पात्राकारविनिर्मितेषु वरुणप्रघासप्रकरणे प्रति- पूरुषं करम्भपात्राणि भवन्तीति विहितेष्वित्यर्थः, यत्र यस्मिन् फाल्गुने मासे, अथ तस्मिन् काल इत्यर्थः, एते-यवाः । वाक्यतात्पर्यमाह—दीर्घशूकानिति । ननु वाक्यशेषवशाद्यवशब्दस्य दीर्घशूकविषयत्वेऽपि कथं तत्रैव मुख्यत्वनिर्णय इत्यत आह—वेददर्शनादिति । अविच्छिन्नपारम्पर्यत्वं मुख्यत्वम् । दीर्घशूकेषु २७