मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 473, कुल 804 में से
संदर्भ में पढ़ें९ ] प्रथमाध्याये तृतीयपादः ४१९ कारेण वारुणपाघासिकयवमयकरम्भपात्रवाक्यशेषत्वेनोपलब्धो यः स मन्दप्रयो- जनत्वात्तथा नामास्तु । फाल्गुनेऽन्यौषधीनां तु जायते पत्रशातनम् । मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ॥ ४१७ प्रियङ्गवः शरत्पक्वास्तावद्गच्छन्ति हि क्षयम् । यदा वर्षासु मोदन्ते सम्यग्जाताः प्रियङ्गवः ॥ ४१८ तदा नान्यौषधिम्लानिः सर्वासामेव मोदनात् । एवं वराहवेतसशब्दा अपि शास्त्रस्थप्रयोगादेव निश्चीयन्ते । ( वार्तिकमते भाष्यकारोक्तोदाहरणाद्याक्षेपः ) न त्वेतान्युदाहरणानि, लोकप्रसिद्धेरेव व्यवस्थितत्वाद्युक्तानि । तथा हि—नैवोच्यन्ते क्वचिद्देशे यवश्रुत्या प्रियङ्गवः । जम्बू न वेतसं प्राहुर्वराहं नापि वायसम् ॥ ४१९ अध्यारोप्य विचारेण किं मुधा खिद्यते मनः । संदिग्धेषु च सर्वेषु वाक्यशेषेण निर्णयः ॥ ४२० वक्ष्यत्येव न तेनापि पृथक्कार्या विचारणा । यद्यपि तत्राभिधेयसंदेहमनुदाहृत्योपादानसंदेहनिर्णयोपायव्याख्यानं करिष्यति । यावद्वाक्यशेषमेव स निर्णयो नान्यत्र । अयं त्वभिधेयनिर्णय एकत्र च कृतः सर्वत्र च कृत एव भविष्यतीत्येव पुनरुक्तत्वमापद्यते । तथाऽपि न्यायतुल्यत्वाद्यथा घृतपरिग्रहः । वाक्यशेषात्तथैव स्याद्यवाद्यर्थविनिर्णयः ॥ ४२१ तत्सिद्धिसूत्रे च सारूप्यादीनां गौणवृत्तिनिमित्तानामनुक्रमणाद्वेतससदृशज- म्बूप्रत्ययसिद्धिरशब्दार्थत्वेऽपि विज्ञायत एवेति नेहोदाहृतेन कार्यम् । (आर्यम्लेच्छप्रयोगविप्रतिपत्तिबलाबलचिन्तनम् ।) पील्वधिकरणम् तस्मादन्यदुदाहृत्य विचार्यमिदमीदृशम् । यत्र विप्रतिपत्तिः स्यादायार्मलेच्छप्रयोगजा ॥ ४२२ तत्र किं तुल्यता युक्ता किमेकैव बलीयसी । समा विप्रतिपत्तिः स्यात् दृष्टार्थव्यवहारिणाम् ॥ ४२३ आर्यास्तावद्विशिष्येरन्नदृष्टार्थेषु कर्मसु । दृष्टार्थेषु तु तुल्यत्वमार्यम्लेच्छप्रयोगिणाम् ॥ ४२४