भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 474, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 474

४२० मीमांसादर्शनम् [ सू० सर्वो हि शब्दोऽर्थप्रत्यायनार्थं प्रयुज्यते । अर्थश्च संव्यवहारप्रसिद्धयर्थमभि- धीयते । तत्र यस्य विशिष्टस्य म्लेच्छेष्वर्थान्तराभिधा । तत्रापि तस्य सामर्थ्यमनाद्येव प्रतीयते ॥ ४२५ यथैव ह्यार्यगम्येऽर्थे सम्बन्धानादिता मतिः । म्लेच्छगम्ये तथैव स्यादविशिष्टं हि कारणम् ॥ ४२६ न प्रयोगावधिस्तस्य म्लेच्छेष्वपि हि दृश्यते । अनाद्योरर्थशक्त्योश्च विशेषो गम्यतां कथम् ॥ ४२७ यथा च म्लेच्छदेशेऽपि धूमोऽग्नेरववोधकः । एवं स्वार्थे प्रयोगात्तैरिष्टः शब्दोऽपि वाचकः ॥ ४२८ तस्मात्पीलवादि शब्दानां वृक्षहस्त्यादिवोधने । समा विप्रतिपत्तिः स्यादार्यम्लेच्छप्रयोगतः ॥ ४२९ इति प्राप्ते । अभिधीयते—शास्त्रस्था वेति । पूर्ववदेव सकलसूत्रव्याख्या योजनीया । किञ्च—यथा साध्वनुरूपत्वान्प्रमादाशक्तेष्वपि । जायते वाचकभ्रान्तिस्तथैव म्लेच्छभाषिते ॥ ४३० शब्दापभ्रंशवदेव गौणभ्रान्त्यादिप्रयोगनिमित्ता अर्थापभ्रंशा भवन्ति । ते शास्त्रस्थैरेवाविप्लुतार्थक्रियानिमित्तपुण्यार्थिभिः शक्यन्ते साध्वसाधुकार्षापणमध्या- दिव तत्परीक्षिभिर्विवेक्तुम् । अभियुक्तनभियुक्तज्ञानयोश्चाभियुक्तज्ञानं बलवत् इतरस्य सुलभापवादत्वात् । अतः शास्त्राभियुक्तत्वादार्यावर्तनिवासिनाम् । या मतिः सैव धर्माङ्गशब्दाथर्त्वप्रमा मता ॥ ४३१ एतेनाऽऽर्यावर्तनिवासिमध्येऽपि— अभियुक्ततरा ये ये बहुशास्त्रार्थवेदिनः । ते ते यत्र प्रयुञ्जीरन् स सोऽर्थस्तत्त्वतो भवेत् ॥ ४३२ इति वार्त्तिकमतेन पीलुवर्णकम् (स्मृत्याचारविरोधे बलाबलविचिन्तनम् ।) समा विप्रतिपत्तिरितिसूत्रयोजनम् स्मृत्याचारविरोधे वा साम्यवैषम्यसंशये । समा विप्रतिपत्तिः स्यान्मूलसाम्याद् द्वयोरपि ॥ ४३३ यथैव श्रुतिमूलत्वात्स्मरणानं प्रमाणता । आचाराणां तथैवेति न विशेषो बलाबले ॥ ४३४